________________
टवातायनेष्वनवरतदह्यमानकृष्णागुरुधूमरक्तैरिव पारावतैरेधिष्ठितविटङ्केषु प्रासादकुक्षिषुकतिपयाप्तसुहृत्परिवृतो वीणावेणुमुरजमनोहरमवरोधसंगीतकं ददर्श । किं बहुना यद्यदतिरमणीयमविरुद्धमायत्यां तदात्वे च तत्तदनाक्षिप्तचेताः परिसमाप्तत्वादन्येषां पृथिवीव्यापाराणां सिषेवे, नत्वतिव्यसनितया । प्रमुदितंप्रजस्य परिसमाप्तसकलमहीप्रयोजनस्य नरपतेर्वि
योपभोगलीला भूषणम् । इतरस्य तु विडम्बना । प्रजानुरागहेतोरन्तरान्तरा दर्शनं ददौ । सिंहासनं च निमित्तेष्वारुरोह ।
शुकनासोऽपि महान्तं राज्यभारमनायासेनैव प्रज्ञावलेन बभार । यथैव राजा कार्याण्यकार्षीत्तद्वदसावपि द्विगुणीकृतप्रजानुरागो राजकार्याणि चक्रे । तमपि चेलितचूडामणिमरीचि -
***********
गवाक्षा येषु । अनवरतेति । अनवरतं निरन्तरं दह्यमानो यः कृष्णागुरुः काकतुण्डस्तस्य धूमो दहनकेतनस्तेन रक्तैरिव रञ्जितैरिव । एवंभूतैः पारावतैः कलरवैरधिष्ठिता आश्रिता विटङ्काः कपोतपाल्यो येषु । कतीति । कतिपयाः कियन्तो य आप्ताः प्रत्ययिताः । 'आप्तप्रत्ययितौ समौ इति कोशः । एवंविधाः सुहृदो मित्राणि तैः परिवृतः सहित इति राज्ञो विशेषणम् । वीणा वल्लकी, वेणुवंशः, मुरजो मृदङ्गः, तैर्मनोहरमतिरमणीयम् । संगीतविशेषणम् । किं बहुनेति । किं बहुवक्तव्येन । यद्यदनिर्दिष्टनामकं वस्त्वतिरमणीयमायत्यामुत्तरकाले । 'आयतिस्तूत्तरः कालः' इति कोशः । तदात्वे चेति । 'तत्कालस्तु तदात्वं स्यात्' इति कोशः । अविरुद्धं नीतिशास्त्राप्रतिषिद्धं तत्तत्सिषेवे सेवितवान् । अतिसुन्दरेण वस्तुनाक्षिप्तश्चेत्तदा व्यसनमेवेत्याह - अनाक्षिप्तेति । अनाक्षिप्तमनाकुलं चेतो यस्य स तथा । अत्रार्थे हेतुं प्रदर्शयन्नाह - परीति । अन्येषां पृथिवीव्यापाराणां परिसमाप्तत्वात्परिपूर्णीभूतत्वात् न त्वतिव्यसनितया तदासक्ततयेत्यर्थः । एतदेवार्थान्तरन्यासेन विवृणोति - प्रमुदितेति । प्रमुदिता मुदं प्रापिताः प्रजाः प्रकृतयो येन स तथा तस्य । परीति । परिसमाप्तं परिपूर्णीकृतं सकलं समग्रं महीप्रयोजनं वसुधाकृत्यं यस्यैवंभूतस्य नरपतेः । विषयेति । विषयाः सक्वन्दनादयस्तेषामसकूदुपभुज्यन्त इत्युषभोगास्तेषा लीला क्रीडा भूषणमलंकारः । आदरातिशयाभावेनेत्यर्थः । 'असक्तः सुखमन्वभूतू' इत्युक्तत्वात् । इतरस्य त्वेत्तद्भित्रस्य तु बिडम्बना राजकृत्यासाधकत्वेन व्यसनमेव । प्रजेति । प्रजायाः प्रकृतेरनुरागः स्नेहस्तस्य हेतोस्तदर्थमन्तरान्तरा मध्ये मध्ये दर्शनं जनानां सौधावलोकनं ददौ दत्तवान् । असकृद्धहिर्गमनमनादरहेतुरिति भावः । सिंहेति । निमित्तेषु तथाविधकारणेषु सिंहासन नृपासनमारुरोहारूढवान् । शुकनासोऽपीति । शुकनासनामा मन्त्रिरपिमहान्तं गरिष्ठमपि राज्यभारमाधिपत्यधुरमनायासेनैव प्रयास विना प्रज्ञाबलेन राजनीतिबलेन बभार दधे । यथैवेति । यथा येन प्रकारेण राजा नृपः कार्याणि कृत्यान्यकार्षीत्कृतवास्तद्वदसौ शुकनासोऽपि । द्विगुणीति । पूर्वस्माद्विगुणीकृतोऽधिकीकृतः प्रजायाः प्रकृतेरनुरागः स्नेहो येन स तथा राजकार्याणि स्वस्वामिकृत्यानि चक्रेऽकार्षीत् । तमपीति । तं शुकनासमपि राजकं राजसमूह आननाम नमश्चक्रे । कैः । मौलिभिर्मस्तकैः कीदृशैः । चलिताः कम्पिता ये चूडामणयः शिरोमणयस्तेषां या मरीचिमञ्जर्यस्तासां जालं येषु तैः ।
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 विचारसापेक्षेपु शासनव्यापारेषु, पर्वोत्सवादिषु वा । 2 मन्त्रीत्यर्थः ।
पाठा० - १ पारापतैः. २ अध्यासित. ३ महाप्रासाद. ४ मनोहरतममन्तःपुरसंगीतकम्; मनोहरमन्तःपुरसंगीतकम्. ५ किं च बहुना. ६ अभिमतमविरुद्धम्. ७ आयत्या ८ न तु व्यसनितया. ९ प्रजस्य हि. १० महीमण्डलप्रयोजनस्य. ११ विषयसंभोग. १२ हेतोश्चान्तरान्तरा; हेतोश्चान्तरा. १३ शुकनासोऽपि राज्यभारम्. १४ महान्तं तम्; महान्तमपि. १५ यथैव च. १६ सर्वकार्याणि. १७ द्विगुणीकृतः प्रजानुरागश्चक्रे. १८ चकार. १९ चावलित.
(शुकनासगौरवम्
पूर्वभागः ।