________________
जत । कदाचिदशोकपादप इव युवतिचरणतलप्रहारसंक्रान्तालक्तको रागमुवाह । कदाचिन्मुसलायुध इव चन्दनधवलः कण्ठावसक्तोल्लसल्लोलकुसुममालः पानमसेवत । कदाचिद्गन्धगज इव मदरक्तकपोलदोलायमानकर्णपल्लवो मदकलः काननं विकचवनलताकुसुमसुरभिपरिमलं जगाहे । कदाचित्क्वणितमणिनपुरनिनादानन्दितमानसो हंस इव कमलवनेषु रेमे । कदाचिन्मृगपतिरिव स्कन्धावलम्बिकेसरमालः क्रीडापर्वतेषु विचचार । कदाचिन्मधुकर इव विजृम्भमाणकुसुममुकुलदन्तुरेषु लतागृहेषु बभ्राम । कोचिन्नीलपटेंविरचितावगुण्ठनो बहुलपक्षप्रदोषदत्तसंकेताः सुन्दरीरभिससार । कदाचिच्च विघटितकनककपाटं प्रक -
***********
तस्य धारा पङ्क्तिस्तस्या यः स्वादस्तेन मुदितो हर्षितः । कदाचिदिति । अशोकपादपः कङ्केल्लिवृक्षस्तद्वदिव । अशोकसाम्यं प्रदर्शयवाह - युवतीति । युवतीनां स्त्रीणां यश्चरणतलप्रहारः पादतलाभिघातस्तेन संक्रान्तो लग्नोऽलक्तको यस्य स तथा रागमनुरागमुवाहावहन् । 'वह प्रापणे' इति धातोरभ्याससंप्रसारणे लिटि रूपम् । कदाचिदिति । पूर्ववत् । मुसलायुधो बलभद्रस्तद्वदिव । तत्साम्यमाह - चन्दनेति । चन्दनेन हरिचन्दनाङ्गरागेण धवलः शुभ्रः । पक्षे चन्दनवद्धवलः । कण्ठेति । कण्ठावसक्तोल्लसन्ती लोला कुसुममाला यस्य स तथा पानं मद्यपानमसेवताभजत । कदाचिदिति । गन्धगजो गन्धहस्ती तद्वदिव काननं वनं जगाहे विलोडयामासेत्यन्वयः । कीदृशः । मदेति । मदेन रक्तो यः कपोलस्तस्मिन्दोलायमानः कर्णपल्लवो यस्य स तथा । मदकलो मदेन कलो मनोहरो विकचानि विकस्वराणि यानि वनलताकुसुमानि तेषां सुरभिः परिमलो यस्मिन् । कदाचिदिति । हंस इव मराल इव कमलवनेषु नलिनकाननेषु रेमेऽरमत । कीदृशः । क्वणितेति । क्वणितानि शब्दितानि यानि मणिनूपुराणि रत्नपादाङ्गदानि तेषां निनादः शब्दस्तेनानन्दितं मुदितं मानसं यस्य तथा । पक्षे क्वणितमणिनूपुरवद्यो निनादस्तेनानन्दितं मानस सरो येनेति विग्रहः । कदाचिदिति । मृगपतिरिव महानाद इव क्रीडापर्वतेषु क्रीडाशैलेषु विचचार व्यहार्षीत् । तमेव विशिनष्टि - स्कन्धेति । स्कन्धावलम्बिनी केसरोपयुक्ता माला सग्यस्य स तथा । पक्षे स्कन्धावलम्बिनी केसरमाला सटापङ्क्तिर्यस्येति विग्रहः । कदाचिदिति । मधुकर इव भ्रमर इव लतागृहेषु बभ्राम भ्रमण चकार । कीदृशेषु लतागृहेषु । विजृम्भेति । विजृम्भमाणानि यानि कुसुममुकुलानि तैर्दन्तुरेषु विषमेषु । कदाचिदिति । सुन्दरीः प्रमदा अभिससार सेवितवान् । कीदृक् । नीलेति । नीलपटेन श्यामपटेन विरचितं विहितमवगुण्ठनं शिरोवेष्टनं येन स तथा । सुन्दरीविशिनष्टि - बहुलेति । बहुलपक्षस्य कृष्णपक्षस्य यः प्रदोषो यामिनीमुखं तत्र दत्तः संकेतो याभिस्ताः । कदाचिच्चेति । अवरोधस्यान्तःपुरस्य संगीतकं नृत्यादि ददर्शाद्राक्षीदित्यन्वयः । केषु । प्रासादा भूपगृहास्तेषां कुक्षयो मध्यभागास्तेषु । तानेव विशिनष्टि - विघटितेति । विघटितमुद्घाटितं कनककपाटं स्वर्णकपाटं यथा स्यात्तथेति क्रियाविशेषणम् । प्रकटा वातायनाः स्पष्ट -
- - - - - - - - -- टिप्प० -1 रत्ननिर्मितानि पादभूषणानि (मजीराः) इत्यर्थः । अगदस्तु भुजे प्रसिद्धः । 2 वास्तवे तु हंसपक्षेऽप्ययमेवार्थः । कामिनीनुपूररवेण तस्यापि मनःप्रहर्षस्य प्रसिद्धत्वात् । 3 बकुलमाला, इत्यर्थः ।
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ अलक्तकरसो रागम्. २ धवलकण्ठ. ३ कण्ठावसक्तलोल; कण्ठावसक्तसमुल्लसल्लोल. ४ पल्लवः कुसुमसुरभि. ५ विकस्वर. ६ क्वणन्. ७ स्कन्धावलम्बित. ८ पर्वतकेषु. ९ कदाचिद्वनलताग्रथितमौलिर्नक्तमालकुसुमस्तबकरचितशेखरः शुकपक्षरागमधरयता नलिनीदलकोमलेन हरितकञ्चुकेनावच्छिन्नशरीरावयवः कोदण्डदण्डसनाथीकृतवामेतरासदेशः पुरः प्रधावितानेकश्चगणिवागुरिकरुपदिश्यमानवानेकपक्षिजातिसमालम्बनव्यग्रपाणिभिः परिहासपेशलं सवयोभिरनुगम्यमानो मृगयारसविद्धचेताः सुचिरं गिरिनदिकारण्यप्रसरेषु परिवभ्राम । कदाचित्रीलपटकृतावगुण्ठनः. १० पटावगुण्ठनः पटरचितावगुण्ठनः. ११ बहुलनिशाप्रदोष. १२ कदाचिद्विघटित. १३ कपाटप्रकट.
(132)
कादम्बरी ।
कथायाम्-)