________________
कदाचित्कुचचन्दनचूर्णधवलितोर्मिमालम्, चटुलतुलाकोटिवाचालचरणालक्तकसिक्तहंसमिथुनम्, अलकनिपतितकुसुमसारम्, प्लवमानकर्णपूरकुवलयदलम्, उन्नतनितम्बक्षोभजर्जरिततरंगम्, उद्दलितनालपर्यस्तनलिननिपतितधूलिपटलम्, अनवरतकरास्फालनस्फुरत्फेनबिन्दुचन्द्रकितं सावरोधजनो जलक्रीडया गृहदीर्घिकाणामम्भश्चकार ।
कदाचित्संकेतवञ्चिताभिः प्रणयिनीभिराबद्धभगुरभृकुटिभिरारणितपारिहार्यमुखरभुजलताभिर्बकुलकुसुमावलीभिः संयतचरणो नखकिरणविमित्रैः कुसुमदामभिः कृतापराधो दिवसमताड्यत । कदाचिद्धकुलतरुरिव कामिनीगण्डूषसीधुधारीस्वादमुदितो विकाशमभ -
***********
कदाचिदिति । सहावरोधजनैरन्तः पुरलोकैर्वर्तमानः स राजा जलक्रीडया गृहदीर्घिकाणां भवनवापीनामम्भः पानीयमेतादृशं चकार निर्ममे । अथ चाम्भोविशेषणानि - कुचेति । कुचानां स्तनानां यानि चन्दनचूर्णानि मलयजक्षोदास्तैर्धवलिता शुभ्रीकृतोर्मिमाला कल्लोलपङ्क्तिर्यस्य तत् । चटुलेति । चटुला मनोहरा ये तुलाकोट्यस्तैर्वाचाला मुखरा ये चरणाः पादास्तेषां योऽलक्तकस्तेन सिक्तं सिञ्चितं हंसमिथुनं सितच्छदद्वन्द्वं यस्मिंस्तत्तथा । अलकेति । अलकाञ्चूर्णकुन्तलानिपतितं सस्तं कुसुमसारं पुष्परहस्यं यस्मिंस्तत्तथा । प्लवेति । प्लवमानं निमज्जमानं कर्णपूररूपं कुवलयदलं यस्मिन् । उन्नतेति । उन्नता उच्चा ये नितम्बा आरोहास्तैः क्षोभ आस्फालनं तेन जर्जरिताः क्षीणास्तरंगाः कल्लोला यस्मिंस्तत् । उद्दलितेति । उद्दलितान्युच्छिन्नानि नालानि बिसानि येषामेवंभूतानि पर्यस्तानि नलिनानि कमलानि तेभ्यो निपतितं सस्तं घूलिपटलं परागसमूहो यस्मिन् । अनवरतेति । अनवरतकरास्फालनेन निरन्तरहस्तास्फोटनेन स्फुरन्तो देदीप्यमाना ये फेनबिन्दवोऽब्धिकफपृषतास्तैरेव संजाता चन्द्रका मेचका यस्मिन् । 'तारकादिभ्य इतच्' इति । चन्द्रकितं मेचकितम् । अन्वयस्तु पूर्वोक्तः ।
कदाचिदिति । स दिवसं प्रतिदिवसं प्रणयिनीभिर्मानिनीभिरताड्यत ताडितोऽभूदित्यन्वयः । 'ताड व्यथने' इति धातुः । लुङन्तप्रयोगः । अत्र यद्यपि प्रथमतः कर्तृत्वेन निर्देशादितश्च कर्मत्वेनेति कारकप्रक्रमभङ्गस्तथापि वाक्यभेदाददोषः । कीदृशः । कृतेति । कृतो विहितोऽपराध आगो येन स तथा । पुनः कीदृक् । संयती बद्धौ चरणौ पादौ यस्य स तथा । कैः । कुसुमदामभिः पुष्पमालाभिः । किंविशिष्टाभिः । बकुलेति । बकुलः केसरस्तस्य कुसुमानां पुष्पाणामावलिः श्रेणिर्येषु तैः । नखेति । नखानां पुनर्भवानां किरणा मयूखास्तैर्विमित्रैः संपृक्तैः । अथ च प्रणयिनीनां विशेषणानि - संकेतेति । अमुकस्थले मयावश्यमागन्तव्यमिति संकेतस्तेन वञ्चिताभिनिष्फलीभूताभिः । सागता, स्वयं तु नागत इति भावः । अत एवाबद्धा विरचिता भङ्गुरा वक्रा भृकुटयो याभिस्ताः । आरणितेति । आरणितं शब्दायमानं यत्पारिहार्यं कङ्कणं तेन मुखरा वाचाला भुजलता यासां ताभिः । कदाचिदिति । बकुलतरुः केसरवृक्षस्तद्वदिव विकाशं विकस्वरतामभजत प्राप्तवान् । तमेव विशिनष्टि - कामिनीति । कामिनीनां स्त्रीणां यो गण्डूषश्चुलुकस्तस्य यत् सीधु मद्य
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 चुटुलाभ्यां चलिताभ्यां तुलाकोटिभ्यां नपुराभ्यां वाचालयोः चरणयोः अलक्तकेन सिक्तं हंसमिथुनम् (नपुररवाकृष्टौ हंसदम्पती) यस्मिन् तत् । इत्यत्र परमार्थः । 2 'कुसुमनिकरशारम्' इत्यपि पाठः । अलकनिपतितैः कुसुमनिकरैःशारं चित्रमिति तद व्याख्या । 3 प्लवमानानि जलोपरि संतरन्ति कर्णपूराणाम् आकण्ठमग्नमहिलाकर्णाभरणीकृतानां कुवलयानां नीलोत्पलायना दलानि यस्मिन् तत् । इति व्याख्याविषयक सरलीकरणम् । 4 उच्छिन्ननालत्वाज्जलोपरि पतितानि यानि कमलानि, इत्यर्थः । 5 समस्तं दिवसमभिव्याप्येत्यर्थः । प्रतिदिनताडनार्थस्तु टीकाकारस्य राजनि परमानुग्रह एव ।
पाटा० - १ धवलोमि. २ अलक्त. ३ कुसुमनिकरसारम्. ४ कर्णकुवलय. ५ संक्षोभ. ६ करतल. ७ विस्फुरत्. ८ भृकुटीभिः, भ्रुकुटिभिः, भ्रकुटीभिः. ९ मणिपारिहार्य. १० आवलीसयत. ११ कामिनीनां गण्डूष. १२ आस्वादन.
(राज्ञो भोगविलासः
पूर्वभागः ।।