________________
कुडुमधूलिभिरिवाभरणप्रभाभिराकुलीक्रीयमाणलोचनः, धवलांशुकैरिव करनखमयूखजालकैराहन्यमानः, चम्पककुसुमदलमालिकाभिरिव भुजलताभिराबध्यमानः, दंष्टाधराधूतकरतलचलन्मणिवलयकैलकलरमणीयम्, अतिरभसदलितदन्तपत्रदलदन्तुरशयनम्, उत्क्षिप्तंचरणतलगलदलक्तकरक्तशेखरम्, सरभसकचग्रहचूर्णितमणिकर्णपूरम्, उल्लसितकुचकृष्णागुरुपङ्कपत्रलताङ्कितप्रच्छदपटम्, अच्छश्रमजलकणिकालुलितगोरोचनतिलकपत्रभङ्गम्, अनङ्गपरवशः सुरतमाततान । कदाचिन्मकरकेतुकनकनाराचपरम्पराभिरिव कामिनीकरपुटविनिर्गताभिः कुङ्कुमजलधाराभिः पिञ्जरीक्रियमाणकायो लाक्षाजलच्छटाप्रहारपाटलीकृतदुकूलो मृगमदजलबिन्दुशबलचन्दनस्थासकः कनकश्रृङ्गकोशैश्चिरं चिक्रीड ।
***********
रिव । कुङ्कुमेति । कुङ्कुमं केसरं तस्य धूलिभिचूर्णेरिवाभरणप्रभाभिभूषणरश्मिभिराकुलीक्रियमाणे लोचने यस्य स तथा । धवलेति । धवलांशुकैरिव शुभवसनैरिव करयोर्हस्तयोर्नखाः पुनर्भवास्तेषां मयूखाः किरणास्तेषां जालकैः समूहैराहन्यमान आघातविषयीक्रियमाणः । चम्पकेति । चम्पको हेमपुष्पकस्तस्य कुसुमानां पुष्पाणां दलानि खण्डानि । तेषां मालिका मालास्ताभिरिव भुजलताभिर्बाहुवल्लीभिराबध्यमानः संयम्यमानः । इतः सुरतविशेषणानि । दष्टेति । दष्टः खण्डितो योऽधरो रदनच्छदस्तेनाधूत कम्पित यत्करतलं तेन चलन्ति यानि मणिवलयानि तेषां यः कलकलोऽव्यक्तध्वनिस्तेन रमणीय मनोहरमत एवातिरभसमतित्वरं दलितानि द्वैधीकृतानि यानि दन्तपत्राणि कर्णाभरणानि तेषां दलानि तैर्दन्तुरं विषमं शयनीयं शय्या यस्मिन् । उत्क्षिप्तेति । उत्क्षिप्तावूर्वीकृतो यौ चरणौ पादौ ताभ्यां गलत्सवद्योऽलक्तको यावकरसस्तेन रक्तो रज्जितः शेखरोऽवसंतो यस्मिन् । सरेति । सरभसं ससंभ्रमं यः कचग्रहः केशग्रहस्तेन चूर्णित भग्न मणिकर्णपूरं रत्नोपेतं श्रवणभूषणं यस्मिन् । उल्लसितेति । संभोगावस्थायामुल्लसिता उल्लास प्राप्ता ये कुचाः पयोधरास्तेषु कृष्णागुरुः काकतुण्डस्तस्य यः पङ्कः कर्दमस्तस्य पत्रलताः पत्रभङ्ग्यस्ताभिरङ्कितश्चिह्नितः प्रच्छदपट उत्तरच्छदो यस्मिन् । अच्छेति । अच्छं निर्मल यच्छ्रमजलं रतक्लान्तिपानीयं तस्य कणिकाः पृषन्ति तैलुलितो विलुप्तो गोरोचनातिलकपत्राणां भङ्गो यस्मिन् । अन्वयस्तु प्रागेयोक्तः । कदाचिदिति । स राजा कनकश्रृङ्गकोशैः सुवर्णघटितश्रृङ्गसंघातैः चिरं चिरकालं यावच्चिक्रीड क्रीडां कृतवान् । 'क्रीड क्रीडने' धातुः । लिटि रूपम् । कीदृशः । कुङ्कुमस्य या जलधारास्ताभिः पिञ्जरीक्रियमाणः कायो यस्य स तथा । कीदृशीभिरिव । मकरकेतुर्मदनस्तस्य कनकस्य स्वर्णस्य ये नाराचा बाणास्तेषां परम्पराभिरिव । कीदृशीभिः । कामिन्यः स्त्रियस्तासां करपुटा हस्तसंपुटास्तेभ्यो विनिर्गताभिनिःसताभिः । पना राजानं विशिनष्टि - लाक्षेति । लाक्षाजलं यावकजलं तस्य छटास्तासा प्रहारोऽभिघातस्तेन पाटलीकत श्वेतरक्तीकृतं दुकूलं दुगूलं यस्य स तथा । मृगमदेति । मृगमदो गन्धधूली तस्य जलमम्भस्तस्य बिन्दुना पृषतेन शबलाः कर्बुराश्चन्दनस्थासका मलयजहस्तका यस्य स तथा । अन्वयस्तु प्रागेवोक्तः । - - - -
- - -- - - - -- - -- - - - - - - - - - - - - - -- - टिप्प० -1 गलन् स्त्रवन् योऽलक्तक इत्यर्थः । 2 फाल्गुने जायमानस्य रङ्गजलक्रीडामयस्य मदनोत्सवस्य वर्णनमिदम् । अत एव तत्र नारीभिः कुमजलेन पिञ्जरीकृतोऽयम् । गात्रवस्त्रोपरि दत्तेषु चन्दनस्थासकेषु कस्तूरीजलबिन्दुभिः शवलीकरणम् । अयमपि च कनकनिर्मितैः शृङ्गाकारैर्जलनिक्षेपपात्रः (डोलची) तासु रङ्गजलं निक्षिपन् चिरं चिक्रीड । 'कीर्णैः पिष्टातकौघैः' इत्यादिना रत्नावल्या सोयमुत्सवो वर्णितः । सातवाहनेनापि गाथासप्तशत्याम् - 'घेत्तूण चुण्णमुट्टि हरिसूससिआएँ वेपमाणाए । भिसिणेमि त्ति पिअअम हत्थे गंधोदअंजाअं ॥ (४-१२) । इत्यादिना वर्णितः । एतद्गाथाया मत्कृतोऽनुवादः- 'आदाय चूर्णमुष्टिं हर्षोत्सुक्येन वेपमानायाः । प्रियमवकिरामि पुर इति हस्ते गन्धोदक जातम् ॥ इति ।
पाठा० - १ कुङ्कुमपटवास; कुडुमवास. २ लोललोचनः. ३ नखर. ४ दष्टाधरकरतल. ५ धुत; आधूत. ६ कलकलरव. ७ रतिरभस ८ दन्तुरित. ९ चरणगलत्. १० अश्रमजल. ११ गोरोचना; रोचना. १२ विनिर्गताभिरिव.
पा
130
कादम्बरी ।
कथायाम