________________
निचिते चतुरुदधिवलयपरिधिप्रमाणे धेरणीतले भवन इवाविदितमहरहः समुच्छसितमपि राज्ञा नासीत् ।
स राजा बाल एव सुरकुञ्जरकरपीवरेण राज्यलक्ष्मीलीलोपधानेन सकलर्जगदभयानयज्ञदीक्षायूपेन स्फुरदसिलतामरीचिजालजटिलेन निखिलारातिकुलप्रलयधूमकेतुदण्डेन बाहुना विजित्य सप्तद्वीपवलयां वसुंधरां तस्मिञ्छुकनासनाम्नि मन्त्रिणि सुहृदीव राज्यभारमारोप्य सुस्थिताः प्रजाः कृत्वा कर्तव्यशेषमपरमपश्यत् । प्रशमिताशेषविपक्षतया विगताशङ्क: शिथिलीकृतवसुंधराव्यापारः प्रोयो यौवनसुखान्यनुबभूव ।
तथा हि-कदाचिदुल्लसत्कठोरकपोलपुलकजर्जरितकर्णपल्लवानां प्रणयिनीनां चन्दनजलच्छटाभिरिव स्मितसुधाच्छविभिरभिषिच्यमानः, कर्णोत्पलैरिव लोचनांशुभिस्ताड्यमानः, -
***********
संचारः परिभ्रमणं तेन निचिते पूरिते । चतुरिति । चतुरुदधीनां चतुःसमुद्राणां वलयं कङ्कणं तस्य या किंचिदधिका त्रिगुणिता परिधिः परिक्षेपः स एव प्रमाणं यस्य स तस्मिन् । ___स इति । स राजा तारापीडो बाल एव । सुरेति । सुरकुञ्जरो हस्तिमल्लस्तस्य करः शुण्डा तद्वत्पीवरेण पुष्टेन । राज्येति । राज्यलक्ष्मीराधिपत्यश्रीस्तस्या लीलोपबहेण । सकलेति । सकलजगतः समाविष्टपस्य यदभयदानं तदेव यज्ञदीक्षा तत्र यूपेन यज्ञस्तम्भेन । . स्फुरदिति । स्फुरन्ती देदीप्यमाना याऽसिलता खङ्गलता तस्या मरीचिजालं कान्तिसमूहस्तेन जटिलेन व्याप्तेन । निखिलेति । निखिलाः समग्रा येऽरातयः शत्रवस्तेषां यानि कुलानि तेषां प्रलयो विनाशस्तत्र धूमकेतुर्ग्रहविशेषस्तस्य दण्डेन पुच्छेन । दण्डाकृतिरूपत्वात्पुच्छस्येति भावः । एवंविधेन बाहुना भुजेन । सप्तेति । जम्बूप्लक्षशाल्मलिकुशक्रौञ्चशाकपुष्कराः सप्तद्वीपा एव वलयं कङ्कणं यस्या एवंभूतां वसुंधरा विजित्य तस्मिञ्छुकनासनाम्नि मन्त्रिणि सुहृदीव मित्र इव राज्यभारमारोप्य निधाय सुस्थिताः सुखेन स्थायिन्यः प्रजाः प्रकृतीः कृत्वा निष्पाद्य कर्तव्यशेषमितः परं किं कर्तव्यमस्तीत्यपरं विचारविषयं कार्यमपश्यदित्यन्वयः । प्रशमितेति । प्रशमिताः शान्ति प्रापिता अशेषाः समग्रा विपक्षा दस्यवो येन तस्य भावस्तत्ता तया । अत एव विगताशङ्को निर्भयः । शिथिलीति । शिथिलीकृतः श्लथीकृतो वसुंधरायाः क्षितेर्व्यापारो व्यापृतिर्येन स तथा । प्रायो बाहुल्येन यौवनस्य तारुण्यस्य सुखानि स्त्रीसंभोगादीन्यनुबभूवानुभवविषयीचक्रे । तदेव दर्शयति - तथा हीति । कदाचिदिति । कदाचित् कस्मिंश्चित्समयेऽनङ्गपरवशः कामपरायत्तः सुरतं मैथुनमाततान विस्तारयामासेत्यन्वयः । किं क्रियमाणः । अभिषिच्यमानः सिच्यमानः । काभिः । स्मितमीषद्धसितं तदेव सुधामृतं तस्याश्छविभिः कान्तिभिः । काभिरिव । प्रणयिनीनां कामिनीनां चन्दनजलच्छटाभिरिव । कीदृशीनाम् । उल्लसन्तो विकसन्तः कठोराः कठिनाः कपोलेषु पुलका रोमाञ्चास्तै जरिताः श्लथीभूताः कर्णपल्लवाः श्रोत्रकिसलयानि यासाम् । पुनः किं क्रियमाणः । ताड्यमानः पीड्यमानः । कैः । लोचनांशुभिः नेत्रकान्तिभिः । कैरिव । कर्णोत्पलैरिव श्रवणकुवलय - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 परिधिशब्दस्य पुंस्त्वमेवावगन्तव्यम् । 2 'निखिलारातिकुलप्रलयधूमकेतुना बाहुदण्डेन' इत्यपि प्रचलितः पाठः । निखिलस्य अरातिकुलस्य प्रलये विनाशे धूमकेतुरिव धूमकेतुः (विनाशसूचकः) तेन इति तदर्थः । ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ परिक्षेपप्रमाणे; परिखाप्रमाणे. २ धरणितले. ३ कुञ्जरपीवरेण. ४ राजलक्ष्मी. ५ जगद्दीक्षाभयप्रदान. ६ प्रदानशौण्डेन रणयज्ञदीक्षा. ७ धूमकेतुना बाहुदण्डेन विजित्य सकलद्वीप. ८ अपश्यन्. ९ विपक्षतया तया. १० विगलिताशङ्कः. ११ शिथिलितपृथिवीव्यापारः. १२ प्रायशो. १३ सुखम्.
राज्ञो भोगविलासः
पूर्वभागः ।।
129)