________________
संधिविग्रहः । त्र्यम्बक इव प्रसाधितदुर्गः, युधिष्ठिर इव धर्मप्रभवः, सकलवेदवेदाङ्गवित्, अशेषराज्यमङ्गलेकसारः, बृहस्पतिरिव सुनासीरस्य, कविरिव वृषपर्वणः, वसिष्ठ इव दशरथस्य, विश्वामित्र इव रामस्य, धौम्य इवाजातशत्रोः, दमनक इव नलस्य, सर्वकार्येष्वाहितमतिरमात्यो ब्राह्मणः शुकनासो नामासीत् ।
यो नरकासुरशस्त्रप्रहारभीषणे भ्रममन्दरनितम्वनिर्दयनिष्पेषकठिनांसपीठे नारायणवक्षःस्थलेऽपि स्थितामदुष्करलाभाममन्यत प्रज्ञाबलेन लक्ष्मीम् । यं चासाद्य दर्शितानेकराज्यफला लतेव पादपमनेकप्रतानगहना विस्तारमुपययो प्रज्ञा । यस्य चानेकचारपुरुषसहस्रसंचार -
***********
घटितसंधिविग्रहं यस्य जरासंधस्येति द्वितीयाबहुव्रीहिः । त्र्यम्बकेति । त्र्यम्बक ईश्वरस्तद्वदिव । प्रसाधितेति । प्रसाधित स्वायत्तीकृत दुर्गं विषमस्थलं येन । पक्षे प्रसाधिता प्रसन्नीकृता दुर्गा पार्वती येन स तथा । युधिष्ठिर इति । युधिष्ठिरो धर्मपुत्रस्तद्वदिव । धर्मस्य नीतिधर्मादः प्रभव उत्पत्तिर्यस्मात् । पक्षे धर्मात्प्रभवो यस्येति विग्रहः । सकलेति । सकलानि समग्राणि यानि, वेदवेदाङ्गानि शिक्षादीनि तेषां विज्ञाता । अशेषेति । अशेष समग्रं यद्राज्यं तत्र मङ्गलैकसारः कल्याणैकरहस्यभूतः प्रकारान्तरेण तमेव विशेषतो विशेषयन्नाहसुनासीरस्येन्द्रस्य बृहस्पतिः सुरगुरुस्तद्वदिव । वृषपर्वणो दैत्यस्य कविः शुक्रस्तद्वदिव । दशरथस्य रामपितुर्वसिष्ठोऽरुन्धतीजानिस्तद्वदिव । रामस्य दशरथात्मजस्य विश्वामित्रः कौशिकस्तद्वदिव । अजातशत्रोधर्मपुत्रस्य धौम्यः सचिवस्तद्वदिव । नलस्य नैषधेर्दमनकाभिधानोऽमात्यस्तद्वदिव । अयं तारापीडस्य राज्ञ इति भावः । सर्व इति । सर्वकार्येषु समग्रकृत्येष्वाहिता स्थापिता मतिर्बुद्धिर्येन स तथा । अन्वयस्तु प्रागेवोक्तः।
य इति । यः शुकनासः प्रज्ञाबलेन बुद्धिसामर्थेनादुष्करलाभां स्वल्पप्रयासलभ्यां लक्ष्मी श्रियममन्यत ज्ञातवान् । कीदृशीम् । नारायणस्य कृष्णस्य यद्वक्षःस्थलं भुजान्तरं तत्र स्थितामासेदुषीमपि । एतेन तत्प्राप्तेरतिकाठिन्यं सूचितम् । वक्षःस्थलं विशिनष्टि - नरकेति । नरकासुरो दैत्यस्तस्य शस्त्राणि तेषां प्रहारोऽभिघातस्तेन भीषणे भयानके । भ्रमदिति । भ्रमच्चासौ मन्दरश्च भ्रमन्मन्दरस्तस्य यो नितम्वः कटकस्तस्य यो निर्दयं निरनुकम्पं निष्पेषचूर्णीभावस्तत्कर्तव्यतायां कठिनं कठोरमंसपीठं स्कन्धपीठं यस्मिन् । अथवा निष्पेषेणावनतिविशेषेणेति बोध्यम् । मथनावसरे हि मन्दरनितम्बा अंसयोर्लग्ना इति भावः । एतेन मन्दरादप्यसयोरधिककाठिन्यमिति ध्वनितम् । यमिति । यं शुकनासाख्यमासाद्य प्राप्य प्रज्ञा विस्तार विस्तीर्णतामुपययौ प्राप्तवती । तां विशिनष्टि - दर्शितेति । दर्शितानि प्रकटितान्यनेकराज्यान्येव फलानि यया सा तथा । केवलमेव यथा लता पादपं वृक्षं प्राप्य विस्तारं याति । कीदृशी । अनेकेति । अनेकैः प्रतानलतागहनैर्गहना निबिडा । यस्येति । यस्य मन्त्रिणो धरणीतले जगतीतले राज्ञा समुच्छसितमप्युच्छ्रसितमात्रमप्यहरहः प्रतिदिनमविदितमज्ञात नासीत् । न बभूवेत्यर्थः । कस्मिन्निव । भवन इव गृह इव । यथा सद्मनि किमप्यज्ञातं न स्यात् । भुवनतलं विशेषयन्नाह - अनेकेति । अनेका ये चारपुरुषाः प्रणिधिपुरुषास्तेषां सहसं तस्य - - - - - - - - - - - टिप्प० - 1 घटितो विहितः सन्धिः (उभयखण्डयोः संयोगः) यस्य तादृशो विग्रहः शरीरं यस्य स इति स्पष्टोऽर्थः । 2 भ्रमंश्चासौ इत्यर्थः । 3 अनेक इत्यवगन्तव्यम् ।
पाठा० - १ मण्डलैक. २ दमनक इव भीमस्य, सुमतिरिव नलस्य. ३ अप्रतिहत. ४ नामाभवत्. ५ शस्त्रभीषण. ६ मन्दरनिर्दय. ७ समासाद्य. ८ महापादपमनेकगहना. ९ उपाययौ. १० यस्यानेक. ११ परिचिते; विचिते.
128
कादम्बरी।
कथायाम्