________________
योगः, कामिनीकुंचभङ्गेषु वक्रता, करिणां दानविच्छित्तिः, अक्षक्रीडासु शून्यगृहदर्शनं पृथिव्यामासीत् ।
तस्य च राज्ञो निखिलशास्त्रकलावगाहगम्भीरबुद्धिः, आशैशवादुपारूढनिर्भरप्रेमरसः, नीतिशास्त्रप्रयोगकुशलः, भुवनराज्यभारनौकर्णधारः, महत्स्वपि कार्यसंकटेष्वविषण्णधीः, धाम धैर्यस्य, स्थानं स्थितेः, सेतुः सत्यस्य, गुरुर्गुणानाम्, आचार्य आचाराणाम्, धाता धर्मस्य, शेषाहिरिव महीभारधारणक्षमः, सलिलनिधिरिव महासत्त्वः, जरासंध इव घंटित -
***********
कुशलं यस्मात्सोऽकुशलः खड्गस्तेन योगः संबन्धः । न तु लोकानां परिवारेषु परिच्छदेष्वकुशलमपुण्यं तस्य योगः । 'पर्याप्तिक्षेमपुण्येषु कुशलम्' इत्यनेकार्थः । अकुत्सितं शोभनं चर्म तस्य योगः । अन्यत्राकुशलमक्षेमजरादि तेन योगो नास्तीति वा । केचित् ‘असिपरिवारेषु कलङ्कयोगः' इति पठन्ति । कलङ्कः श्यामिका । अन्यत्र दोष इत्यर्थं । कामिनीनां स्त्रीणां कुचभङ्गेषु पयोधरपत्ररचनायां वक्रतारालता । करिणां हस्तिनां दानं मदः । 'मदो दानप्रवृत्तिश्च' इति कोशः । तस्य विच्छिती रचना । न तु लोकानां दानं वितरणं तस्य विच्छित्ति
शिः । अक्षक्रीडासु द्यूतक्रीडासु शून्यगृहदर्शनं शून्यगृहावलोकनम् । खेलिन्या शून्यमित्यर्थः । न तु लोकानां शून्यस्थलदर्शनम् । अन्वयस्तु प्रोगेवोक्तः।
तस्य चेति । तस्य राज्ञोऽमात्यः शुकनासो नाम ब्राह्मण आसीद्धभूव । अथ प्रथमान्तानि तस्य विशेषणानि । निखिलेति । निखिलानि यानि शास्त्राणि कलाश्च तासामवगाहस्तदभिप्रायाकलनं तेन गम्भीराऽलब्धमध्या बुद्धिः प्रतिभा यस्य स तथा । आ शैशवादा बाल्यादुपारुढ आश्रितो निर्भरो निबिडः प्रेमरसः स्नेहरसो यस्मिन्स तथा । नीतीति । नीतिशास्त्रं व्यवहारग्रन्थस्तस्य प्रयोगस्तदर्थपरीक्षण तत्र कुशलो दक्षः । भुवनेति । भुवनानां राज्यमाधिपत्यं तस्य भारो वीवधस्तल्लक्षणा या नौोणी तस्याः कर्णधारो नाविकः । महत्स्वपीति । महत्स्वपि गुरुष्वपि कार्यसंकटेषु कृतकष्टेष्वविषण्णाऽविषादवती धीर्बुद्धिर्यस्य स तथा । धामेति । धैर्यस्य धीरिमाया धाम गृहम् । स्थितेर्मर्यादायाः स्थान स्थलम् । सत्यस्यावितथस्य सेतुः पालिः । गुणानां शौर्यादीनां गुरुर्हितोपदेष्टा । आचाराणां शिष्टजनाचीर्णमार्गाणामाचार्य उपदेष्टा । धर्मस्य वृषस्य धाता प्रजापतिः । शेषेति । शेषाहिरनन्तस्तद्वदिव मह्याः पृथ्व्या भारो वीवधस्तस्य धारणमुदहनं तत्र क्षम इत्यभङ्गश्लेषः । सलिलेंति । सलिलनिधिः समुद्रस्तद्वदिव । सर्वत्रकविशेषणेनोभयं विशेषयन्नाह - महेति । महत्सत्त्वं साहस यस्मिन् । पक्षे महासत्त्वा जलचारिणः । जरेति । जरा राक्षसी तया साक्षात्संधितत्वाज्जरासंधस्तद्वदिव । कथा चात्र-राजगृहे जरासंधपित्रा बृहद्रथेन राज्ञीभ्यां पुत्रार्थमाराधितेन महर्षिणा चण्डकौशिकेनाम्रफलं प्रदत्तम् । तच्च सोऽर्धार्धं कृत्वा राजमहिषीभ्यां दत्तवान । तयोश्चार्धार्धशरीरं बालकद्वयं जातम् । तद् दृष्ट्वा तयोः कुपितेन राज्ञा श्मशानभूमौ मुक्तम् । तत्र च जरया संधितमेकत्र योजितमिति जरासंधनाम संवृत्तमस्येति वार्ता । उभयं विशिनष्टि - घटितेति । घटितौ विहितौ संधिविग्रही येन । तत्र संधिः साम, विग्रहो युद्धम् । पक्षे जरया पिशाच्या घटितः संधिः संघटनं यस्य संधिविग्रहस्य शरीरस्येति -
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 राज्यभारग्रहणमेव नौका तस्याः कर्णधार इति सरलोऽर्थः । 2 धीरतायाः (अविचलचिततायाः) इत्युचिता व्याख्या । 3 सलिलनिधिपक्षे महान्तः सत्त्वाः (जलजन्तवः) यस्मिन्नित्यर्थः । 'महासत्त्वनिवासः' इत्यपि पाठः । महासत्त्वस्य (उत्कृष्टाध्यवसायस्य) आश्रयः (राजपक्षे) समुद्रपक्षे तु महता जलजन्तूना निवासः ।
पाठा० - १ वक्रता कामिनीना कुचभङ्गेषु. २ कुचपत्र. ३ तस्य राज्ञो. ४ कलाकलापावगाहनगभीर; कलापावगाहनगभीर. ५ भारैक. ६ सिन्धुः. ७ सकलमही. ८ महासत्त्वनिवासः. ९ प्रकटित.
(शुकनासवर्णनम् ।
पूर्वभागः ।