SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ चापधारणम्, ध्वजानामुन्नतिः, धनुषामवनतिः, वंशानां शिलीमुखमुखक्षतिः, देवैतानां यात्रा, कुसुमानां बन्धनस्थितिः, इन्द्रियाणां निग्रहः, वनकरिणां वारिप्रवेशः, तैक्ष्ण्यमसिधाराणाम्, व्रतिनामग्निधारणम्, ग्रहाणां तुलारोहणम्, अगस्त्योदये विषशुद्धिः, केशनखानामायतिभङ्गः, जलददिवसानां मलिनाम्बरत्वम्, रत्नोपलानां भेदः, मुनीना योगसाधनम्, कुमारस्तुतिषु तारकोद्धरणम्, उष्णरश्मर्ग्रहणशङ्का, शशिनो ज्येष्ठातिक्रमः, महाभारते दुःशासनापराधाकर्णनम्, वयःपरिणामे दण्डग्रहणम्, असिपरिवारेष्वकुशल - *********** नम् । ध्वजानां वैजयन्तीनामुन्नतिरूर्ध्वमुखत्वेन । न तु लोकानाम् । अहंकृतेरभावात् । धनुषां चापानामवनतिरवनमनम् । न तु लोकानां बलात्कारेण नतिः । सर्वेषां स्वाधीनवृत्तित्वात् । वंशानां वेणूनां शिलीमुखा भ्रमरास्तेषां मुखैराननैः क्षतिश्छेदः । न तु लोकानां शिलीमुखा बाणास्तैः क्षतिः पीडा । युद्धाभावात् । 'पत्रिष्वजिहागशिलीमुखकङ्कपत्राः' इति कोशः । देवतानां यात्रा क्षणविशेषः । न तु लोकानां यात्रा भयादन्यत्र गमनम् । 'यात्रा स्याद्यापने गतौ इत्यनेकार्थः । कुसुमानां पुष्पाणां बन्धनेन ग्रथनेन स्थितिः । न तु लोकाना बद्धत्वेनावस्थानम् । सर्वेषां निरपराधित्वात् । इन्द्रियाणां करणानां निग्रहो निरोधः । न तु लोकानां निग्रहो दण्डः । वनकरिणामरण्यवासिगजाना वारिप्रवेशः । यया गजबन्धनं क्रियते सा वारी । 'वारी तु गजबन्धनी' इति कोशः । न तु लोकानां दिव्यार्थं वारिप्रवेशः'। तैक्ष्ण्यं छेदशक्तिरसिधारणां खड्गाग्रभागानाम् । न तु लोकानां तैष्ण्यं क्रौर्यम् । व्रतिनां योगिनामग्निधारणम् । न तु लोकानामग्नौ धारणम् । ग्रहाणां नक्षत्राणां तुलारोहणं तुला राशिस्तस्यामारोहणं संक्रमः । न तु लोकानां दिव्यार्थं तुलारोहणम् । अगस्त्योदयेऽगस्त्यस्य मुनेरुदये विषशुद्धिर्विषं पानीयं तस्य शुद्धिः स्वच्छता । न तु लोकानां विषेण शुद्धिः कलङ्कापहारः । तदुक्तम्-‘सप्तयवप्रमाणं वत्सनाभविषं तेन शुद्धिर्वेश्यानाम् इति । केशनखानामायतिर्विस्तारस्तस्या भङ्गो विच्छेदः । न तु लोकानामायतिरुत्तरः कालस्तस्य भङ्गो लक्षणया दुःखजनकत्वम् । नित्येन तद्विच्छेदायोगात् । 'आयतिस्तूत्तरः कालः' इति कोशः । जलदो घनाघनस्तत्कालीना ये दिवसा वासरास्तेषां मलिनं कश्मलमम्बरमाकाशं येषु तेषां भावस्तत्त्वम् । न तु लोकानां मलिनाम्बरत्वं मलोपयुक्तवसनत्वम् । रत्नोपलाना मण्यश्मना भेदः स्फोटनम् । न तु लोकानां मन्त्रभेदः । मुनीनां तपस्विनां योगश्चित्तवृत्तिनिरोधस्तस्य साधनं यमादि । न तु लोकानां योगो विषाग्निप्रयोगः कार्मणं वा तस्य साधनं दुष्टमन्त्रादि । कुमारः षण्मुखस्तस्य स्तुतयो नुतयस्तासु तारकस्य दैत्यस्योत्प्राबल्येन हरणं नाशनम् । न तु लोकानां तारका कनीनिका तस्या उद्धरणमुत्कर्षणम् । उष्णरश्मेः सूर्यस्य ग्रहणशङ्कोपरागशङ्का । न तु लोकानां ग्रहणं नियन्त्रण तस्य शङ्कारेका । शशिनश्चन्द्रस्य ज्येष्ठा नक्षत्रं तस्यातिक्रमस्तदुल्लङ्घनम् । न तु लोकानां ज्येष्ठो भ्रात्रादिस्तनिदेशोल्लङ्घनम् । महाभारते शास्त्रे दुःशासनो दुर्योधनलघुभ्राता तस्य योऽपराधः दुर्योधनाज्ञया दुःशासनेन द्यूते जितेषु पाण्डवेषु द्रौपदी केशेषु । गृहीत्वाकृष्टेत्यपराध आगस्तस्याकर्णनं श्रवणम् । न तु लोकानां दुष्टं शासनं येषां ते दुःशासना दुष्टमनुजास्तेषामपराधश्रवणम् । वयोऽवस्था तस्य परिणामः पक्वता तस्मिन्दण्डो यष्टिस्तस्य ग्रहणम् । न तु लोकानां दण्डः करस्तदादानम् । असिपरिवारेषु खड्गपिधानेष्वकुशलयोगो न विद्यते - - - - - - - - - - - - टिप्प० -1 वारिः इति हूस्व उचितः वारि(जल) प्रवेश इति श्लेषाय । 'वारि ह्रीबेरनीरयोः । वारिर्घट्यां सरस्वत्यं गजबन्धनभुव्यपि । हैमः । 2 अग्नेर्धारणम्, अग्निदिव्यम् ‘यद्यहं पापी स्यां तदाऽग्निना दग्धहस्तो भवेयमिति पापाभावात् । 3 उत्पाटनमित्यर्थः । पाठा० - १ पद्माना जलदिव्यं प्रतीहाराणामसिधारणं तैक्ष्ण्यमसिधाराणां ध्वजानाम्. २ शिलीमुखक्षतिः. ३ देवानाम्. ४ प्रवेशाः. ५ असिधाराणा तैक्ष्ण्यम्. ६ व्रतिनामसिधाराधारणम्. ७ विषविशुद्धिः. ८ जलधर. ९ धारणम्. १० ग्रहणाशङ्का. ११ दुःशासनापराधः. १२ असिधारासु कोशगुप्तिः (1261 कादम्बरी। कथायाम्-)
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy