________________
क्रौञ्चादिव हंसनिवहो निर्जगाम गुणगणः । यस्य चामृतामोदसुरभिपरिमलया मन्दरोद्धतबहुलदुग्धफेनलेखयेव धवलीकृतसुरासुरलोकया दशःसु दिक्षु मुखरितभुवनमभ्रम्यत की, यस्य चातिदुःसहप्रतापसंतापरिवद्यमानेव क्षणमपि न मुमोचातपत्रच्छायां राजलक्ष्मीः । तथा च यस्य दिष्टिवृद्धिमिव शुश्राव, उपदेशमिव जग्राह, मङ्गलमिव बहु मेने, मन्त्रमिव जजाप, आगममिव न विसस्मार चरितं जनः । यस्मिंश्च राजनि गिरीणां विपक्षता, प्रत्ययानां परत्वम्, दर्पणानामभिमुखावस्थानम्, शूलपाणिप्रतिमानां दुर्गाश्लेषः, जलधराणां -
***********
न्दकारी प्रमोदकृत् । कः कस्मादिव । क्रौञ्चाक्रौञ्चनाम्नः पर्वतैकप्रदेशाद् हंसनिवहः सितच्छदसमूह इव । यस्येति । चः पूर्वोक्तसमुच्चये । यस्य राज्ञः कीर्त्याभिख्यया दशसु दिक्षु मुखरितभुवनं यथा स्यात्तथाभ्रम्यतागम्यत । भावे रूपम् । अथ कीर्तिविशेषणानि - अमृतेति । अमृतस्य पीयूषस्य य आमोदस्तद्वत्सुरभिः प्रकटितः प्रकटः सुगन्धिश्च परिमलो यस्याः सा तया । 'कीर्त्याः सौगन्ध्य वर्ण्यते' इति कविसमयः । धवलीति । धवलीकृतः शुभ्रीकृतः सुरासुरलोको देवदानवलोको यया सा तया । कयेव । मन्दरेति । मन्दरेण स्वर्णाद्रिणोद्धतो दुर्दान्तो यो बहुलो दृढो दुग्धसिन्धुः क्षीरसमुद्रस्तस्य फेनोऽब्धिकफस्तस्य लेखयेव वीथ्येव । मन्थनक्षणे तयापि सुरासुरलोकः शुभ्रीकृतः इति तदुपमानमिति भावः । यस्य चेति । यस्य राज्ञो राजलक्ष्मी राज्यश्रीरातपत्रस्य छत्रस्य छायामातपाभावलक्षणं क्षणमपि निमेषमात्रमपि न मुमोच न तत्याज । तपआक्रान्तायास्तत्र शीतलस्थलाश्रयणं स्यादित्याशयेनाह - अतीति । अतिदुःखेन सोढुं शक्योऽतिदुःसहः एवंविधो यः प्रतापः कोशदण्डजनितं तेजस्तस्माद्यः संतापो धर्मस्तेन खिद्यमानेव पीड्यमानेव । अथ पञ्चक्रियाणामेकेनैव का संबन्धं दर्शयन्नाह - तथा चेति । यस्य राज्ञश्चरितं शौर्यविस्फूर्जितं दिष्टिवृद्धिमिव भाग्याभ्युदयमिव जनो लोकः शुश्रावाकर्णितवान् । उपदेशमिव गुरुनिदेशमिर्वं जग्राह गृहीतवान् । मङ्गलमिव धोवसीयमिव बहु मेने सर्वाधिकत्वेन ज्ञातवान् । मन्त्री देवताधिष्ठातृकस्तमिव जजाप जपितवान् । आगमः सिद्धान्तस्तमिव न विसस्मार न विस्मृतवान् । जन इत्यस्य सर्वत्र संबन्धः । यस्मिंश्चेति । यस्मिंस्तारापीडे राजनि । 'डिश्योर्वा' इति वाकारलोपः इदं पृथिव्यामासीत् । तदेव दर्शयति - गिरीत्यादि । गिरीणां पर्वतानां विपक्षता पक्षराहित्यम् । इन्द्रेण पक्षाश्छिन्ना गिरीणामिति प्रागेवोक्तम् । न तु लोकानां विपक्षता दस्युता । प्रत्ययाना स्वादीनां परत्वं प्रकृत्युपरिवर्तमानत्वम् । न तु लोकानां परत्वं भिन्नत्वं शत्रुत्वं वा । अभिमुखं जनानामवस्थीयतेऽनेनेत्यभिमुखावस्थानम् । कर्मणि ल्युट् । दर्पणानां मुकुराणाम् । न तु लोकोनां कस्यचित्पुरतः कस्याप्यवस्थानम् । सर्वेषां लक्ष्मीवत्त्वादिति भावः । शूलपाणिरीश्वरस्तस्य प्रतिमाया मूर्तेर्दुर्गा पार्वती तयाश्लेषोऽभिष्वङ्गः । न तु लोकानां दुर्गं विषमस्थल तेन श्लेषः संबन्धः । राजग्रहाभावात् । जलधराणां मेघानां चापधारणमिन्द्रधनुर्धारणम् । न तु लोकानाम् । भयाभावान्न धनुरादा - - - - - - - - - - - - - टिप्प० -1 पुरा किल परशुरामो महेश्वराद्धनुर्वेदशिक्षणावसरे क्रौञ्चदारकस्य स्कन्दस्य स्पर्धया बाणेन क्रौञ्चादि बिभेद यद्विवराद्धंससमूहो निर्जगामेति पुराणम् । 2 मथितः क्षोभित इत्याशयः । 3 दैवज्ञमुखात्स्वभाग्योदयं लोको यथा शृणोति तथा शुश्राव । उभयत्रापि लालसा कौतुकातिशयाश्च हेतुः । 4 उभयत्र अभ्युदयसंपादकत्वप्रत्याशा हेतुः । 5 उभयत्रापि सुखजनकत्वं हेतुः । 6 असकृज्जपेन (उच्चारणेन) तादृशानुकरणसिद्धिः (चरितपक्षे), अभीष्टसिद्धिः (मन्त्रपक्षे) । 7 वेदादिविस्मरणे पाप स्यात्, यशस्तु मनोहरतया स्वत एव न विस्मर्यते ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ उद्धत; उद्धते. २ अभ्राम्यत. ३ आतपच्छायाम्. ४ अस्य. ५ दिष्टवृद्धिम्. ६ बहुमङ्गलमिव मेने. ७ आगमवचनम्. ८ दर्पाणाम्.
तारापीडः
पूर्वभागः ।
125