________________
रमणीयात्कुबेरपुरसुन्दरीभूषणरवमुखरशिखरात्सप्तर्षिसंध्योपासनपूतप्रसवणाम्भसो वृकोदरोद्दलितसौगन्धिकखण्डसुगन्धिमण्डलादौगन्धमादनात्, सेवाञ्जलिकमलमुकुलदन्तुरैः शिरोभिश्चरणनखमयूखग्रथितमुकुटपत्रलताग्रन्थयो भयचकिततरलैतारदृशो भुजबलविजिताः प्रणेमुँरवनिपाः ।
येन चानेकरत्नांशुपल्लविते व्र्व्यालम्बिमुक्ताफलजालके दिग्गजेनेव कल्पतरावाक्रान्ते सिंहासने भरेण शिलीमुखव्यतिकरकम्पिता लता इव नेमुरायामिन्यः सर्वदिशः । यस्मै च मैन्ये सुरपतिरपि स्पृहयांचकार । यस्माच्च धवलीकृतभुवनतलः सकललोकहृदयानन्दकारी -
***********
बदरिकाश्रमस्तेन रमणीयात्सुन्दरात् । कुबेरेति । कुबेरपुरमलकापुरी तस्याः सुन्दर्यः स्त्रियस्तासां भूषणरवेणाभरणशब्देन मुखराणि वाचालानि शिखराणि यस्मिन्स तथा तस्मात् । सप्तर्षीति । सप्तर्षीणां संध्योपासनेन संध्यावन्दनेन पूतं पवित्रं प्रसवणाम्भो निर्झराम्भो यस्मिन्स तथा तस्मात् । वृकोदरेति । वृकोदरेण भीमेनोद्दलितं छेदितं सौगन्धिकखण्ड सौगन्धिकाभिधं वनं तेन सुगन्धि सुरभि मण्डलं भूमिभागो यस्य स तथा तस्मात् । अत्र कथा - पाण्डवा द्यूते जिताः सन्तो विन्ध्याटवीं प्रविष्टाः । तत्र द्रौपद्या दोहद उत्पन्नः सौगन्धिककुसुमेषु । ततो भीमसेनेन गत्वा सरस्तदध्यासीनं नागराजं जित्वा तत्कन्यकां चोलूप्याख्यां परिणीय सौगन्धिककुसुमानि गृहीत्वा स्वाश्रममययौ । गन्धमादनादिति प्रागेव व्याख्यातम् । अथ नृपान्विशेषयन्नाह - शिरोभिरिति । शिरोभिर्मस्तकैरुपलक्षिताः । कीदृशैः । सेवेति । सेवाये योऽञ्जलिः स एव कमलमुकुलं तेन दन्तुरैर्विषमैः । चरणेति । तस्य राज्ञश्चरणौ पादौ तयोः नखा नखरास्तेषां मयूखाः किरणास्तैर्ग्रथिता मुकुटे या पत्रलता तस्या ग्रन्थयो येषां ते तथा । भयेति । भयेन साध्वसेन चकिता त्रस्ता तरला कम्पना तारा कनीनिका यासामेवंविधा दृशो येषां ते तथा । भुजेति । भुजबलेन विजिता निर्जिताः । अन्वयस्तु प्रागेवोक्तः ।
येन चेति । येन च राज्ञा दिग्गजेनेव कल्पतरौ सिंहासने नृपासन आक्रान्ते सति भरेण भारेणायासिन्यो विस्तारवत्यः सर्वदिशो नेमुः प्रणता बभूवुः । का इव । लता इव व्रतत्य इव । कीदृश्यः । शिलीमुखा भ्रमरास्तेषां व्यतिकरः संबन्धस्तेन कम्पिता धूताः । दिक्पक्षे शिलीमुखा बाणाः । अथ च सिंहासनविशेषणानि - अनेकेति । अनेकानि रत्नानि तेषामंशवः किरणास्तैः पल्लविते किसलयिते । व्यालम्बीति । व्यालम्बीन्यालम्बमानानि मुक्ताफलानां रसोद्भवानां जालकानि समूहा यस्मिन् । यस्मै चेति । अहमिति मन्ये । यस्मै राज्ञे सुरपतिरिन्द्रोऽपि स्पृहयांचकार सस्पृहोऽभूत् । 'स्पृहेरीप्सितः' इति संप्रदानसंज्ञायां चतुर्थी । इन्द्रस्पृहणीयतामाह - यस्मादिति । यस्माद्राज्ञो गुणाः शौर्यादयस्तेषां गणः समूहो निर्जगाम बहिर्निर्ययौ । यस्मादित्यवधौ पञ्चमी । गुणान्विशिनष्टि - धवलीति । धवलीकृत शुभ्रीकृतं भुवनतलं विष्टपतलं येन स तथा । सकलेति । सकललोकानां समग्रजनानां यानि हृदयानि चेतांसि तेषामान -
टिप्प० 1 भीमसेनः स्वाश्रयमाययौ इति तात्पर्यम् । 2 न केवलं सिंहासनविशेषणानि । इदं विशेषणद्वयं कल्पतरावप्यन्वेति । संजाता अनेकरत्नांशव एव पल्लवा यस्मिन्निति तत्पक्षेऽर्थः । व्यालम्बिमुक्ताफलेत्यादिविशेषणव्याख्या तूभयत्र समाना । 3 इन्द्रस्पृहणीयतायां नाऽन्येषां हेतुः, किन्तु 'यस्मै च मन्येऽनन्यसाधारणशक्तिसंपदे......' इत्यादिरपि प्रचलितः पाठः । अनन्यसाधारणी शक्तिसंपद् यस्य ईदृशाय यस्मै इन्द्रोऽपि स्पृहयांचकारेति तदर्थः । ईदृशी शक्तिसंपद् ममापि स्यादितीन्द्रस्पृहायास्तात्पर्यम् ।
पाठा० - १ खण्डमण्डलात्. २ मेकलात्. ३ मुकुलैर्दन्तुरैः ४ मयूखाग्र ५ ग्रथिता. ६ तारकदृशो ७ अवनीपतयः. ८ रक्तांशुकः रत्नांशुजात. ९ व्यलम्बि. १० मुक्ताजालके. ११ सर्वा दिशः. १२ मन्येऽनन्यसाधारणशक्तिसंपदे सुरपतिः.
124
कादम्बरी |
कथायाम्