________________
नादशिशिरकररयतुरगखुरशिखरोल्लेखखण्डितोल्लसल्लविङ्गपल्लवादेरावतकरलूनसल्लकीकिसलयदलादाशैलादुदयनाम्नः, कपिबेलविलुप्तविरललवलीलताफलादुदधिविनिर्गतजलदेवतावन्द्यमानराघवपादादचलपातंदलितशङ्खकुलशकलतारकितशिलातलात् नलकरतलाकलितशैलसहससंभूतादासेतुबन्धात्, अच्छनिरिजलधौततारकासार्थादमृतमथनोद्यतवैकुण्ठकेयूरपत्रमकरकोटिकषणमसृणितग्राणः सुरासुरहेलावलयितवासुकिसमाकर्षणप्रारम्भचलितचरणभरदलितनितम्बकटकादमृतसीकरसिक्तसानोमन्दरात्, नरनारायणचरणमुद्राङ्कितबदरिकाश्रम -
***********
पयस्तेनार्दा अशुष्काश्चन्दना मलयजा यस्मिन्स तथा तस्मात् । अशिशिरेति । अशिशिरकरः सूर्यस्तस्य ये रथतुरगाः स्यन्दनहयास्तेषां खुराः शफास्तेषां शिखरेण प्रान्तेन य उल्लेखः संबन्धस्तेन खण्डिता द्विधाकृता इव उल्लसन्तो लविङ्गपल्लवा यस्मिन्स तथा तस्मात् । ऐरावतेति । ऐरावतो हस्तिमल्लस्तस्य यः करः शुण्डा तेन लूनानि छिन्नानि सल्लकी गजप्रिया तस्याः किसलयदलानि यस्मिन्नेवंविधादाशैलादुदयनाम्न इति प्रागेवोक्तम् । इतः सेतुबन्धविशेषणानि । कपीति । कपिबलेन वानरसैन्येन विलुप्तानि लोपं प्राप्तानि विरला तुच्छा या लवलीनाम्नी लता वल्ली तस्याः फलानि यस्मिन्स तथा तस्मात् । उदधीति । उदधेः समुद्राद्विनिर्गता या जलदेवता जलाधिष्ठात्री तया वन्द्यमानौ नमस्क्रियमाणौ राघवस्य रामचन्द्रस्य पादौ चरणौ यस्मिन्स तथा तस्मात् । अचलानां पर्वतानां यः पातस्तेन दलितानि भिन्नानि यानि शङ्खकुलानि जलजसमूहास्तेषां शकलैः खण्डैः तारकितं संजाततारक शिलातलं यस्मिन्स तथा तस्मात् । नलेति । नलेत्युपलक्षणं नीलजाम्बवटामुखानाम् । तेन नलादीनां वानराणां यानि करतलानि तैराकलितं व्याप्तं यच्छैलसहस्र पर्वतसहस्रं तेन संभूतानिष्पनात्सेतुबन्धात् । समुद्रबन्धादित्यर्थः । लङ्कायां गच्छता रामचन्द्रेण समुद्रबन्धन विहितमिति लौकिकाः । अथ मन्दरविशेषणानि - अच्छमिति । अच्छं निर्मलं यनिर्झरजलमिति निर्झरो झरस्तस्य जलं पानीयं तेन धौताः क्षालितास्तारकसा नक्षत्रसमूहा यस्मिन्स तथा तस्मात् । अमृतेति । अमृत पीयूषं तदर्थं यन्मथनम् । समुद्रस्येति शेषः । तत्र उद्युक्तो यो वैकुण्ठः कृष्णः । स हि मथनवेलाया पुरः स्थितं मन्दरमालिङ्ग्य स्थितः तस्य यत्केयूरपत्रमङ्गदपत्रं तस्य या मकरकोटिस्तया यत्कषणं घर्षणं तेन मसृणिताः श्लक्ष्णीकृता ग्रावाणः शिला यस्मिन्स तथा तस्मात् । सुरेति । सुरा देवाः, असुरा दैत्याः तैर्हेलया क्रीडया एकोत्साहेन वा वलयितो वलयाकारता प्रापितो यो वासुकिर्नागराजस्तस्य यत्समाकर्षणं तस्य यः प्रारम्भ उपक्रमस्तस्माच्चलितः स्वस्थानाच्च्युतो यश्चरणभरः पादसमूहस्तेन दलितश्चर्णितो नितम्बकटको यस्मिन्स तथा तस्मात । अमृतेति । अमृतस्य पीयषस्य ये सीकराः पृषतास्तैः सिक्तानि सिञ्चितानि सानूनि शिखराणि यस्य स तथा तस्मात् । आमन्दराचलादिति प्रागेव व्याख्यातम् । अथ गन्धमादनं विशेषयन्नाह - नरेति । नरनारायणौ नामार्जुनवासुदेवौ तयोर्या चरणमुद्रा पादन्यासस्तयाङ्कितश्चिह्नितो यो -
-
-
-
-
-
-
-
-
-
-
टिप्प० -1 घर्षणमिति पारमार्थि कोऽर्थः । 2 कपिबलेन विलोपं प्रापितानि (भक्षणायेत्यर्थः) अत एव विरलानि अल्पीभूतानि लवलीलतानां फलानि यस्मिन्निति व्याख्यान्तर्हितो ध्वनितार्थः । 3 तस्मात् चलितानां चरणानां भरेण (भारेण) दलित इति टीकाकर्तुराशयः व्याख्यानस्य ।
पाठ० - १ तुरंग. २ लवङ्ग. ३ करतल; करलूनरोध; करलूनलोध. ४ कबलात्. ५ कुल. ६ पुष्पात्. ७ निर्गत. ८ अभिवन्द्यमान. ९ निपात. १० तलकलित. ११ ग्रावाणः. १२ सुरासुरावलयित. १३ आरम्भ. १४ चलावलित. १५ नितम्बात्. १६ आमन्दराचलात्.
तारापीडः
पूर्वभागः ।
123