________________
१०
दाश्च पृथुस्थगितश्रवणविवराश्चोपदिश्यमानमपि ते न श्रृण्वन्ति । श्रृण्वन्तोऽपि च गजनिमीलितेनावधीरयन्तः खेदयन्ति हितोपदेशदायिनो गुरून् । अहंकारदाहचरमूर्छान्धकारिता विह्वला हि राजप्रकृतिः, अलीकाभिमानोन्मादकारीणि धनानि, राज्यविषविकारतन्द्राप्रदा रोजलक्ष्मीः ।
आलोकयतु तावत्कल्याणाभिनिवेशी लक्ष्मीमेव प्रथमम् । इयं हि खंगमण्डलोत्पलवनविश्रमभ्रमरी लक्ष्मीः क्षीरसागरात्पारिजातपल्लवेभ्यो रागम्, इन्दुशकलादेकान्तवक्रताम्, उच्चैःश्रवसश्चञ्चलताम्, कालकूटान्मोहनशक्तिम्, मदिराया मदम्, कौस्तुभमणेर्नेष्टुर्यम्, इत्येतानि सहवासपरिचयवशाद्विरहविनोदचिह्नानि गृहीत्वैवोद्गता । न ह्येवंविधमपरिचितमिह जगति किंचिदस्ति यथेयेमनार्या । लब्धापि खलु दुःखेन परिपाल्यते । दृढगुणसंदाननिस्प -
*********** च्छादितानि श्रवणविवराणि कर्णच्छिद्राणि येषां ते च । द्वौ चकारावेककालं सूचयतः । एवंविधा राजान उपदिश्यमानमपि कथ्यमानमपि हितोपदेशमपि न श्रृण्वन्ति नाकर्णयन्ति । कदाचिच्छृण्वन्तोऽप्याकर्णयन्तोऽपि गजो हस्ती तस्य यनिमीलित नेत्रसंकोचस्तद्वनिमीलितेनावधीरयन्तोऽनादरं कुर्वन्तः । हितोपदेशदायिनः शिक्षाकथकान्गुरुन्खेदयन्ति । दुःखं प्रापयन्तीत्यर्थः । अथ नृपस्वभावं प्रदर्शयन्नाह - राजेति । हि निश्चितम् । एतादृशी राजप्रकृती राज्ञा स्वभावो विह्वला व्याकुला । अहमिति । अहंकार एव दाहज्चरस्तीव्रतापस्तद्धेतुका या मूर्छा मोहस्तयान्धकारितान्धकार इवाचरिता । धनराज्यलक्ष्म्याः स्वरूपं प्रदर्शयन्नाह - अलीकेति । अलीकोऽवास्तवो योऽभिमानोऽहंकार उन्मादश्च तावुभौ कुर्वन्तीति तान्येवंविधानि धनानि द्रव्याणि । राज्यमिति । राज्यमेव विषं गरलं तस्माद्यो विकारो विकृतिस्तेन कृत्वा तन्द्रालस्यं तत्प्रदा राजलक्ष्मी राजश्रीः ।
नेदं पूर्वोक्तमतथ्यं किंतु सत्यमेवेत्याह - आलोकयत्विति । कल्याणे मङ्गलेऽभिनिवेश आग्रहो यस्यैवंभूतस्त्वं तावदादौ लक्ष्मीमेव प्रथममालोकयतु विचारयतु । लक्ष्मीदोषानाह - इयमिति । हि निश्चितम् । इयं प्रत्यक्षोपलभ्यमाना खङ्गानां कौक्षेयकाणां यन्मण्डल संघातस्तदेव कृष्णत्वसाम्यादुत्पलवनं तत्र विश्रमोऽवस्थितिस्तस्मिंश्चञ्चलत्वसाम्याद्रमरी मधुकरी लक्ष्मीः । पुनर्दोषान्तरं प्रदर्शयन्नाह - क्षीरेति । यदा कश्चिद्दूरदेशान्तरं गन्तुमीहते तदासौ च सहवासिस्मृतिहेतोस्तदीयं किंचिद्वस्त्वादायैव गच्छति, तथेयमपि सहवासजनितो यः परिचयः संबन्धविशेषस्तद्वशात्सहवासिपारिजातादीनामित्येतानि वस्तूनि गृहीत्वैवादायैव क्षीरसागराढुग्धाम्बुधेरुद्गता प्रादुर्भूता । कीदृशानि । विरहः सहवासिभिरसंबन्धस्तस्मिन्विनोदचिह्नानि चित्तालम्बनलक्षणानि । एतानि कानीत्यपेक्षायामाह - पारीति । पारिजातपल्लवेभ्यो मन्दारकिसलयेभ्यो राग विषयलिप्सामारुण्यं च । इन्दुशकलाच्चन्द्रलेखा(याः)देकान्तवक्रता कुटिलता प्रातिकूल्यं च । उच्चैःश्रवस इन्द्राश्वाच्चञ्चलता चित्तास्थैर्यं चाञ्चल्यं च । कालकूटात्कालकूटनाम्नो विषान्मोहनशक्ति मूर्योत्पादकशक्तिमन्यवशीकरणशक्ति च । मदिरायाः कादम्बर्या मदमुन्मादकत्वमुन्मोहसंभेदलक्षणं च । कौस्तुभमणेर्नेष्ठुर्यं काठिन्यं निर्दयत्वं चेति । अथ लक्ष्म्यास्तत्सहितस्यापि राज्ञो निन्दा कुर्वन्नाह - नहीति । इह जगत्येवंविधमेतादृशमपरिचितं निर्दाक्षिण्यं किंचिन्नास्ति यथेयमनार्याऽश्रेष्ठा वर्तते । एतदेव प्रपञ्चयन्नाह - लब्धेति । लब्धापि महता कष्टेन प्राप्तापि दुःखेन खलु परिपाल्यते परिपालनविषयीक्रियते । दृढं गाढं गुणाः शौर्यादयस्तल्लक्षणं यत्संदानं बन्धनं तेन निस्पन्दीकृतापि निश्च -
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 विभ्रमभ्रमरीत्येव ग्रन्थानुकूलः पाठः इत्यभिप्रयन्ति केचित् । भ्रमणमेव भ्रमरस्वभावो, विश्रमस्तु सर्वेषामेव ।
-
-
-
-
-
-
-
-
-
-
-
पाटा० - १ दर्पश्वयथुस्थगित; दोश्चर्यसंस्थगित. २ उपदिश्यम्. ३ अवधारयन्तः. ४ विषविकारतन्द्री; विषतन्द्री; विषयविकारतन्द्रा. ५ राज्यलक्ष्मीः. ६ सुभटखग. ७ विभ्रम. ८ अतिनैष्ठुर्यम्. ९ इव. १० अपरमपरिचितम्. ११ किंचित्रास्ति. १२ अनार्या दुःखेन लभ्यते लब्धापि. १३ गुणपाश.
शुकनासोपदेशः
पूर्वभागः ।
225