________________
न्दीकृतापि नश्यति । उद्दामदर्पभटसहस्त्रोल्लासितासिलतापञ्जरविधृताप्यपक्रामति । मदजलदुर्दिनान्धकारगजर्घटितघनघटौपरिपालितापि प्रपलायते । न परिचयं रक्षति । नाभिजनमीक्षते । न रूपमालोकयते । न कुलक्रममनुवर्तते । न शीलं पश्यति । न वैदग्ध्यं गणयति । न श्रुतमाकर्णयति । न धर्ममनुरुध्यते । न त्यागमाद्रियते । न विशेषज्ञतां विचारयति । नाचारं पालयति । न सत्यमनुबुध्यते । न लक्षणं प्रमाणीकरोति । गन्धर्वनगरलेखेव पश्यत एव नश्यति । अद्याप्यारूढमन्दरपरिवर्तावर्तभ्रान्तिजनितसंस्कारेव परिभ्रमति । कमलिनीसंचरणव्यतिकरलग्ननलिननालकण्टकेव न क्वचिदपि निर्भरमाबध्नाति पदम् । अति -
1
******
1
लीकृतापि नश्यति प्रपलायते । उद्दामेति । उद्दाम उत्कटो दर्पोऽहंकारो येषामेवंभूता ये भटा योद्धारस्तेषां सहस्त्रं तेन उल्लासिता ऊर्ध्वकृता या असिलतास्ता एव पञ्जरं तत्र विधृतापि स्थापिताप्यपक्रामत्यपसरति । मदेति । मदजलं दानवारि तदेव श्यामत्वसाधर्म्याटुर्दिनान्धकारस्तद्युक्ता ये गजा हस्तिनस्तैर्घटिता निष्पादिता या घेना निबिडा घटा समूहस्तया परिपालितापि रक्षितापि प्रपलायते पलायन करोति । नेति । परिचयं संस्तवं न रक्षति न पालयति । नेति । अभिजनं कुलं नेक्षते नावलोकयति । नेति । रूपं सौन्दर्यं न आलो - कयतेऽवलोकयति । नेति । कुलक्रमं कुलपरिपाटीं नानुवर्तते नानुगच्छति । नेति । शीलमाचारं न पश्यति नावलोकयति । नेति । वैदग्ध्यं पाण्डित्यं न गणयति न विचारयति । नेति । श्रुतं शास्त्रं नाकर्णयति न शृणोति । नेति । धर्मं वृषं नानुरुध्यते धर्मानुरोधेनैव न प्रवर्तते । अधर्मवतामपि गृहे तद्दर्शनात् । नेति । त्यागं दानं प्रति नाद्रियते नादरं करोति । कृपणसद्मन्यपि दर्शनात् । नेति । विशेषज्ञतां विशेषेण सर्वार्थवेदितां न विचारयति न विचारणां करोति । यत एव विद्वांसो दरिद्रोपद्रुताः स्युरिति प्रसिद्धिः । नेति । आचार शिष्टानुचरितं मार्गं न पालयति न रक्षति । लक्ष्मीवतोऽपि प्रायः ( अ ) शिष्टाचरणदर्शनात् नेति । सत्यमवितथं नानुबुध्यते न जानाति । असत्यवतोऽपि गृहे बाहुल्येन दर्शनात् । नेति । लक्षणं मषीतिलकादि सामुद्रिकशास्त्रप्रतिपादितं न प्रमाणीकरोति । लक्षणसत्त्वेऽपि तस्या अभावदर्शनात् । गन्धर्वेति । गन्धर्वनगरलेखा हरिश्चन्द्रपुरीति यस्याः प्रसिद्धिः । असद्वस्तुभ्रमो वा । तद्वदेव पश्यत एवावलोक एव पुरुषस्य नश्यति विनश्यति । अद्यापीति । अद्यापि इदानीमप्यारूढः प्राप्तो यो मन्दरेण मेरुणा परिवर्तः परिभ्रमस्तज्जनितो य आवर्तः पयसां भ्रमस्तस्माद्या भ्रान्तिर्भूमिस्तज्जनितः संस्कारो वेगाख्यो यस्या एवंविधेव परिभ्रमति परिभ्रमणं करोति । क्वचिदपीति । क्वापि स्थले निर्भरं निश्चलं पदं नावबध्नाति न निदधाति । अत एवोत्प्रेक्षतेलक्ष्म्याः कमलवासस्य प्रसिद्धत्वात्कमलिनीषु संचरणव्यतिकरः संबन्धस्तेन लग्ना नलिननालकण्टका यस्याः सैवंविधेव । यथा भग्नकण्टका भूमौ निश्चलपदं न दत्ते तथेयमपीत्यर्थः । अतिप्रयत्नेनातिप्रयासेन विधृतापि स्थिरीकृतापि परमेश्वरगृहेषूत्कृष्टेभ्यसद्मसु परिस्खलति स्खलनां प्राप्नोति । विविधा ये गन्धगजा गन्धेभास्तेषां गण्डाः कटास्तेषां मधु मदस्तस्य पानमास्वादस्तेन मत्तेव क्षीबेव । ननु परमेश्वरगृहे गजास्तिष्ठ -
टिप्प० - 1 मदजलरूपैर्दुर्दिनैः (वृष्टिभिः) अन्धकारिणो ये गजास्त एव घनघटा मेघसमूहास्तैः परिपालितेत्यर्थ उचितः । दुर्दिनत्वारोपो गजेषु मेघत्वारोपे कारणमिति परम्परितरूपकम् । परिपालितापि पलायते इति विभावना - विशेषोक्तयोः सदेहसंकरश्चेति द्वयोरङ्गाङ्गिभावसंकरः । 2 भूतयोनिविशेषाणां रात्रावेव दृश्यमानं यद् नगरं तत्पङ्क्तिः । दृष्टिभ्रमाद् गगने दृश्यमाना नगराकारा रेखा वा । यथा बृहत्संहिता - 'गन्धर्वनगरमुत्थितमापाण्डुरमशनिपातवातकरम्' इति । 3 अतिधनिकगृहेषु । 'इभ्य आढ्यो धनी स्वामी' ।
पाठा - १ उल्लसित. २ गन्धगज. ३ घटाटोप. ४ आलोकयति. ५ अवबुध्यते ६ गन्धर्वलेखेव ७ भ्रमति. ८ संचार. ९ कण्टकक्षतेव; कण्टकेत्येव. १० क्वचिन्निर्भरम्.
226
कादम्बरी ।
कथायाम्