________________
प्रयत्नविधृतापि परमेश्वरगृहेषु विविधगन्धगजगण्डमधुपानमत्तेव परिस्खलति । पारुष्यमिवोपशिक्षितुमसिधारासु निवसति । विश्वरूपत्वमिव ग्रहीतुमाश्रिता नारायणमूर्तिम् । अप्रत्ययबहुला च दिवसान्तकमलमिव समुपचितमूलदण्डकोशमण्डलमपि मुञ्चति भूभुजम् । लतेव विटपकानध्यारोहति । गङ्गेव वसुजनन्यपि तरंगबुद्बुदचञ्चला । दिवसकरगतिरिव प्रकटितविविधसंक्रान्तिः । पातालगुहेव तमोबहुला । हिडम्बेव भीमसाहसैकहार्यहृदया । प्रावृडिवाचिरद्युतिकारिणी । दुष्टपिशाचीव दर्शितानेकपुरुषोच्छ्राया स्वल्पसत्त्वमुन्मत्तीकरोति । सरस्वतीपरिगृहीतमीर्ण्ययेव नालिङ्गति । जन गुणवन्तमपवित्रमिव न स्पृशति । उदारसत्त्वम -
*********** न्तीति कृत्वा तन्मधुपानमत्तायाः स्खलनं भवतु परं साधुगृहेष्वपरिस्खलिता कुतो न तिष्ठतीत्यत आह - पारुष्यमिति । पारुष्यं क्रूरत्वमिवोपशिक्षितुमभ्यसितुमसिधारासु खङ्गधारासु निवसति निवासं करोति । ययासिधारासु क्रौर्यशिक्षणं कृतं सा क्रूरा साधुगृहेषु कथं तिष्ठतीति भावः । विश्वं प्रविष्टं यस्मिन्रूपे तत् । अथवा विश्वेन रूप्यते निरूप्यते यद्रूपं तद्विश्वरूपं तस्य भावस्तत्त्वं तदिव ग्रहीतु नारायणमूर्ति जनार्दनशरीरमाश्रिताधिगता । अप्रत्ययेति । अप्रत्ययोऽविश्वासो बहुलो यस्यामेवंभूता सती । दिवसान्ते यथा कमलं स्वाश्रय मुञ्चति तथा स्वाश्रयीभूतं भूभुजमपि । तत्रोभयोः साम्यमाह - समिति । सम्यक्प्रकारेणोपचितानि वृद्धि प्राप्तानि । अथ च समुपचित वर्धमानं मूलं मित्रादिमूलकन्दः, दण्डो नालम्, कोशः कमलाभ्यन्तरम्, मण्डलं पारिमाण्डल्यम्, एतानि यस्येति विग्रहः । दण्डः करः, कोशो भाण्डागारः, मण्डल देशो यस्य । 'मण्डल द्वादशराजकम्' इत्येकस्य । 'विजिगीषुरुदासीनो मध्यमश्चेति राजकम् । गुणानां विषय वृद्धा जगुः प्रकृतिमण्डलम् । पाणिराक्रन्द आसारः, इत्यपि । 'तदेवं शक्रमित्यादिभेदा द्वादश इष्यते । मण्डलं द्वादशराजकम्' इत्यन्ये । लता वल्ली सेव विटा भाण्डादयस्तान्पान्तीति विटपाः । विटपा एव विटपकाः । स्वार्थे कप्रत्ययः । पक्षे विटपा वृक्षाः । विटपानध्यारोहत्याश्रयण करोति । गड
तज्जनन्यपि तरंगा भङ्गाः बद्धदः स्थासकस्तद्वच्चञ्चला चपला । पक्षे वसोभीष्मस्य(जननी) तरंगबुद्धदाभ्यां चाञ्चल्यवती च । दिवसकरः सूर्यस्तस्य या गतिर्गमनं सेव प्रकटिताविष्कृता विविधानेकप्रकारा संक्रान्तिर्वस्तुनेच्छासबन्धी यया सा । पक्षे राशिषु सूर्यसंबन्धः । पातालं वडवामुखं तस्य गुहा कन्दरा सेव तमोगुणस्तेन बहुला दृढा । पक्षे तमोऽन्धकारः । हिडम्वेव घटोत्कचप्रसूरिव भीमसाहसेनातिकठिनकर्मणैकमद्वितीयं हार्द (य)हृदयं यस्याः । पक्षे भीमस्य वृकोदरस्य यः साहसगुणः । प्रावृडिति । प्रावृड्वर्षाकालः सेवाचिरा स्वल्पकालीना या द्युतिः प्रकाशस्तत्कारिणी । पक्षेऽचिरद्युतिर्विद्युत् । दुष्टेति । दुष्टा क्रूरा या पिशाची राक्षसी सेव दर्शितः प्रकटीकृतोऽनेकपुरुषाणामुच्छ्रायोऽभ्युनतिर्यया सा । पक्ष ऊर्वीकृतभुजपाणिनरमानं पुरुषः । अनेकपुरुषाणामुच्छ्राय उच्चता । एवंभूता लक्ष्मीः स्वल्पसत्त्वमल्पसाहसं नरमुन्मत्तीकरोत्युन्मत्ततां नयति । सरस्वतीति । सरस्वती भारती तया परिगृहीतं स्वीकृतं नरमीययेव मत्सरेणेव नालिङ्गति नाश्लिष्यति । गुणवन्तं शौर्यादिगुणोपयुक्तं जनं नरमपवित्रमिवापावनमिव न स्पृशति न स्पर्श करोति । उदारेति । उदारं स्फारं सत्त्वं यस्यैवंविधं पुरुषममङ्गलमिव न बहु मन्यते नादरं करोति । सुजनं शुभजनमनिमित्तमिव निष्फलामव न पश्यति नावलोकयति । - - - - - - - - - - - - - - - - - टिप्प० - 1 कदाचिद्व्यापारिणां गृहे वाणिज्यलक्ष्मीरूपेण, कदाचिद्वीराणां राज्ञा राजलक्ष्मीरूपेणेत्यादिनानारूपधारण विश्वरूपधारकस्य विष्णोः सकाशाद गृहीतमित्युत्प्रेक्षा । 2 प्रकटिता विदिधेषु (जनेषु)संक्रान्तिः संचारो यया सेति स्पष्टोर्थोति प्रहेलिकायां परिणमितः । 3 अनेकेषां पुरुषाणामभ्युदया दर्शितः (लक्ष्म्या), अनेकपुरुषपरिमिता उच्चता दर्शिता (पिशाच्या) इति स्फुटोऽर्थः । 4 उल्कापातादि दुर्लक्षणमिवेत्यर्थो वक्तव्यः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ दिवसावसानकमलम्. २ हिडिम्बेव.
(शुकनासोपदेशः
पर्वभागः ।
227