________________
मङ्गलमिव न बहु मन्यते । सुजनमनिमित्तमिव न पश्यति । अभिजातमहिमिव लङ्घयति । शूरं कण्टकमिव परिहरति । दातारं दुःस्वप्नमिव न स्मरति । विनीतं पातकिनमिव नोपसर्पति । मनस्विनमुन्मत्तमिवोपहसति । परस्परविरुद्धं चेन्द्रजालमिव दर्शयन्ती प्रकटयति जगति निजं चरितम् । तथाहि । संर्ततमूष्माणमुपजनयन्त्यपि जाड्यमुपजनयति । उन्नतिमादधानापि नीचस्वभावतामाविष्करोति । तोयराशिसंभवापि तृष्णां संवर्धयति । ईश्वरतां दधानाप्यशिवप्रकृतित्वमातनोति । बलोपचयमाहरन्त्यपि लघिमानमापादयति । अमृतसहोदरापि कंटुकविपाका । विग्रहवत्यप्यप्रत्यक्षदर्शना । पुरुषोत्तमरतापि खलजनप्रिया । रेणुमयीव स्वच्छमपि कलुषीकरोति । यथा यथा चेयं चपला दीप्यते तथा तथा दीपशिखेव कज्जलमलिनमेव कर्म केवलमुद्धमति । तथाहि । इयं संवर्धनवारिधारा तृष्णाविषवल्लीनाम्, व्याधगीतिरिन्द्रियमृगाणाम्, परामर्शधूमलेखा सच्चरितचित्राणाम्, विभ्रमशय्या मोहदीर्घ -
***********
अभिजातं कुलीनमहिमिव सर्पमिव लङ्घयत्युत्क्रामयति । शूरमिति । शूरं शौर्यगुणोपेतं कण्टकमिव परिहरति दूरतस्त्यजति । दातारमिति। दातारं बहुप्रदं दुःस्वप्नमिवाशुभस्वप्नमिव न स्मरति न स्मृतिविषयीकरोति । विनीतमिति । विनीतं विनयगुणोपेतं पातकिनमिव पापकारिणमिव नोपसर्पति न पार्श्वे प्रयाति । मन इति । मनस्विनं पण्डितमुन्मत्तमिव ग्रथिलमिवोपहसत्युपहास्यं करोति । इन्द्रेति । इन्द्रजालमिव कुहकमिव परस्परविरुद्धमन्योन्यासंबद्धं दर्शयन्ती प्रकाशयन्ती निजमात्मीयं चरितं वृत्तं जगति लोके प्रकटयत्याविष्करोति । तदेव दर्शयति - तथाहीति । संततं निरन्तरमूष्माणं तापमुपजनयन्त्यपि कुर्वत्यपि जाड्यं शैत्यमुपजनयतीति विरोधः शाब्दः । तत्परिहारस्तूष्माणं दर्पं शैत्यं जाड्यमित्यर्थात् । उन्नतिमादधानापि धारयन्त्यपि नीचस्वभावतामाविष्करोतीति विरोधः । तत्परिहारस्तूतिमुत्कर्ष नीचस्वभावोऽकर्तव्यं कर्मेत्यर्थात् । तोयराशिः समुद्रस्तस्मात्संभवापि समुत्पन्नापि तृष्णां संवर्धयतीति विरोधः । तत्परिहारस्तु तृष्णां गार्ध्यमत्यर्थात् । ईश्वरतां दधानाप्यशिवप्रकृतित्वमनीश्वरप्रकृतित्वमातनोतीति विरोधः । तत्परिहारस्त्वीश्वरतां प्रभुतामशिवमशुभमित्यर्थात् । बलोपचयमाहरन्त्यप्यानयन्त्यपि लघिमानमापादयतीति विरोधः । तत्परिहारस्तु बलोपचयं सैन्यसमूहं लघिमानं कार्पण्यमित्यर्थात् । अमृतसहोदरा
मृतेन सहोत्पन्नापि कटुकरसोपेतो विपाको यस्या इति विरोधः । तत्परिहारस्तु कटुको दुःखदायीत्यर्थात् । विग्रहवत्यपि मूर्तिमत्यप्यप्रत्यक्षमगम्यं दर्शनं यस्या इति विरोधः । तत्परिहारस्तु विग्रहवती कलहवतीत्यर्थात् । पुरुषोत्तमरतापि खला ये दुर्जना जनास्ते प्रिया यस्या इति बिरोधः । तत्परिहारस्तु पुरुषोत्तमे कृष्णे रतं मैथुनं यस्या एवंविधापि खलजनानां प्रिया वल्लभेत्यर्थात् । रेणुमयीव रजोगुणमयींव स्वच्छमपि निर्मलमपि कलुषीकरोति मलिनीकरोति । यथेति । यथा यथेयं लक्ष्मीश्चपला चञ्चला दीप्यते दीप्ता भवति तथा तथा केवल दीपशिखेव कज्जलवन्मलिनं कश्मलं कर्मोद्वमत्युद्गिरति । दीपशिखापि कज्जललक्षणं यन्मलिनं कर्म तदेवोद्वमति । तदेव दर्शय तथाहीति । तृष्णा लोभस्तल्लक्षणानां विषवल्लीनां संवर्धने विस्तारणे वारिधारा जलश्रेणिः । अत्र श्रीजलधारयोर्वृद्धिहेतुत्वेन साम्यम् । छेदयोग्यतया तृष्णावल्लयोः साम्यम् । व्याधेति । व्याधगीतिर्मृगवधजीविगानमिन्द्रियमृगाणामक्षहरिणानाम् । अत्र नाशकत्वसाम्याच्छ्रीगीत्योः साम्यम् । नाश्यत्वसाम्याच्चाक्षमृगयोः साम्यम् । गानलुब्धाश्च मृगा हन्यन्त इति सर्वप्रसिद्धम् । सच्चरितानि सदाचरणानि तान्येव चित्राणि तेषां परामर्श औमर्शनं तदर्थं या धूमलेखा धूमपङ्क्तिः ।
टिप्प० 1 जाड्यम् (जडत्वम्) सदसद्विवेकराहित्यरूपं मौढ्यमित्यर्थो वाच्यः । 2 प्रोञ्छनम्, आवरणमित्यादिरर्थ उचितः ।
पाठा० - १ इव पश्यति. २ दुःखस्वप्नम्. ३ नापसर्पति ४ हसति ५ प्रकटयति निजम् ६ सततम् ७ आरोपयन्त्यपि. ८ राशिरिव ९ कटुविपाका.
228
कादम्बरी ।
कथायाम्
-