________________
निद्राणाम्, निवासजीर्णवलभी धनमदपिशाचिकानाम्, तिमिरोद्गतिः शास्त्रदृष्टीनाम्, पुरःपताका सर्वाविनयानाम्, उत्पत्तिनिम्नगा क्रोधावेगग्राहाणाम्, आपानभूमिर्विषयमधूनाम्, संगीतशाला भ्रूविकारनाट्यानाम्, आवासदरी दोषाशीविषाणाम्, उत्सारणवेत्रलता सत्पुरुषव्यवहाराणाम्, अकालप्रावृड् गुणकलहंसकानाम्, विसर्पणभूमिर्लोकापवादविस्फोटकानाम्, प्रस्तावना कपटनाटकस्य, कदलिका कामकरिणः, वध्यशाला साधुभावस्य, राहुजिह्वा धर्मेन्दुमण्डलस्य । न हि तं पश्यामि यो ह्यपरिचितयानया न निर्भरमुपगूढः, यो वा न विप्रलब्धः । नियतमियमालेख्यगतापि चलति, पुस्तकमय्यपीन्द्रजालमाचरति, उत्कीर्णापि -
***********
लोकैः कफनिवृत्त्यर्थं द्रव्यान्तरस्य धूम्रपानं कृत्वा पश्चात्स एवोदीर्यते तत्स्पशदिवालेख्यं विनश्यतीति भावः । मोह इति । मोहो मौढ्यम्, दीर्घनिद्रा निमीलितानि (?), तासां विभ्रमशय्या विलासशयनम् । धनेति । धनानि द्रव्याणि, मंदो मुन्मोहसंभेदः त एव पिशाचिन्यस्तासा निवासार्थं जीर्णा प्राचीना वलभी गृहोपरिभागः । तिमिरेति । शास्त्राण्येव दृष्टयस्तासां तिमिरस्य नेत्ररोगविशेषस्योद्गतिः प्रादुर्भावः । पुर इति । सर्वेषामविनयानां दुर्बुद्धीनां पुरःपताकाओवैजयन्ती । उत्पत्तीति । क्रोधस्य कोपस्य ये आवेगाः संभ्रमास्त एव ग्राहा जलजन्तवस्तेषामुत्पत्तिनिम्नगा तटिनी । आपानेति । विषया गोचरा एव मधूनि मद्यानि तेषामापानभूमिः पानगोष्ठिकास्थलम् । संगीतेति । ध्रुवां विकारा विकृतयस्त एव नाट्यानि तेषां संगीतशाला रङ्गशाला । आवासेति । दोषा एव दूषणान्येव आशीविषा आशी दंष्ट्रा तस्यां विषं येषां त आशीविषाः सास्तेषामावासार्थं दरी गुहा । उत्सारणेति । सत्पुरुषाः शिष्टास्तेषां व्यवहारा आचरणानि तेषामुत्सारणं दूरीकरणं तद्धेतुका वेत्रलता वेत्रयष्टिः । अकालेति । गुणा एव कलहंसाः कादम्बास्तेषामकालप्रावृड्समयो वर्षाकालः । प्रावृषि हंसा नश्यन्ति । इयं तु सर्वगुणानां विनाशहेतुरित्यपकर्षस्तु प्रसिद्धः । विसर्पणेति । लोकेषु येऽपवादा विरोधोक्तयस्त एव विस्फोटकाः शिलीन्द्राणि तेषां विसर्पणभूमिर्विस्तरणस्थलम् । प्रस्तावनेति । कपटनाटकस्य कैतवनृत्यस्य प्रस्तावना प्रारम्भः सूत्रधारादिप्रवेशः । कदलिकेति । कामकरिणो मदनगजस्य कदलिका रम्भा । वध्येति । साधुभावस्य शोभनाध्यवसायस्य वध्यशाला सूनास्थानम् । राहुजिह्वेति । धर्मः सदाचारः निर्मल(त्व)साम्यात्स एवेन्दुमण्डलं चन्द्रबिम्ब तस्य राहुजिह्वा सैहिकेयरसना । न हीति । हि निश्चितम् । तं पुरुष न पश्यामि नावलोकयामि, यत्तदोर्नित्याभिसंबन्धात् । यः पुमानपरिचितयासंनिहितया निर्भरमतिशयं नोपगूढो नाश्लिष्टः । यो वा न विप्रलब्धो न च विप्रतारितः । नियतं निश्चितम् । इयं लक्ष्मीरालेख्यगता चित्रलिखितापि चलति न स्थिरा भवति । अन्येषां चित्तानि चालयतीति वा । पुस्तकेति । पुस्तकमैय्यपि ज्ञानमय्यपीन्द्रजालवज्जालमाचरति । उत्कीर्णेति । उत्कीर्णाप्युत्कीरितापि विप्रलभते विप्रतारणा
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 केचिदत्रेदं वदन्ति धूममात्रेण चित्राणि विकृत्य आब्रियन्ते यथा महानसभित्तौ । 2 तद्विच्छेदो मा भूदिति-मोहीः विवेकाभावा एव दीर्घनिद्रास्तासामित्यर्थो वाच्यः । 3 धनमदा एव पिशाचिका इत्यर्थ उचितः । 4 सचन्दनादय इन्द्रियभोग्यपदार्था इत्यर्थ उचितः । 5 व्रणविशेषा इत्यर्थ उचितः । 6 कदलीसमूहे गजः स्वैरं विहरतीत्यर्थः । 7 परस्परपरिज्ञानरहितया इत्यर्थ उचितः । 8 लक्ष्म्यां कार्यद्वारा कुलटाया वेश्याया वा व्यवहारसमारोपात्समासोक्तिर्बोध्या । 9 'पुस्तमय्यपि' इति पाठः कञ्चनाऽभिप्रेतः । पुस्तमयी मृत्काष्ठादिनिर्मितपुत्तलिकारूपापि इन्द्रजालमारचयति, अकस्मात् लक्ष्म्या विलोयात् । इति तदर्थः । 'पुस्तस्त्रीहस्तनिर्यत्' इत्यादि वाग्भटः ।
पाठा० - १ पुरःसर. २ आवास. ३ व्याहाराणाम्. ४ विस्फोटानाम्. ५ अपरिचितया न निर्भरम्; अपगिषु तयानया न निर्भरम्. ६ पुस्तमय्यपि.
(शुकनासोपदेशः
पूर्वभागः ।
1229)