________________
विप्रलभते, श्रुताप्यभिसंधत्ते, चिन्तितापि वञ्चयति । एवंविधयापि चानया दुराचारया कथमपि दैववशेन परिगृहीता विक्लवा भवन्ति राजानः, सर्वाविनयाधिष्ठानतां च गच्छन्ति । तथाहि-अभिषेकसमय ऐव चैतेषां मङ्गलकलशजलैरिव प्रक्षाल्यते दाक्षिण्यम्, अग्निकार्यधूमेनेव मलिनीक्रियते हृदयम्, पुरोहितकुशाग्रसंमार्जनीभिरिवापहियते क्षान्तिः, उष्णीषपट्टेबन्धेनेवाच्छाद्यते जरागमनस्मरणम्, आतपत्रमण्डलेनेवापसार्यते परलोकदर्शनम्, चामरपवनैरिवापहियते सत्यवादिता, वेत्रदण्डैरिवोत्सार्यन्ते गुणाः, जयशब्दकलकलरवैरिव तिरस्क्रियन्ते साधुवादाः, ध्वजपटपल्लवैरिव परामृश्यते यशः । तथाहि केचिच्छ्रमवशशिथिलशकुनिगलपुटचटुलाभिः खद्योतोन्मेषमुहूर्तमनोहराभिर्मनस्विजनगर्हिताभिः संपद्भिः प्रलोभ्यमाना धनलवलाभावलेपविस्मृतजन्मानोऽनेकदोषोपचितेन दोषासृजेव रागावेशेन -
***********
करोति । श्रुताप्याकर्णिताप्यभिसंधत्ते संशयं करोति । चिन्तितापि वञ्चयति वञ्चनां करोति । एवंविधयापि पूर्वोक्तलक्षणलक्षितयाप्यनया श्रिया दुराचारया दुष्टाचरणया कथमपि महता कष्टेन दैववशेन भाग्यवशेन परिगृहीताः स्वीकृता राजानो विक्लवा विह्वला भवन्ति । सर्वेषामविनयानां दुर्बुद्धीनामधिष्ठानतामधिकरणों च गच्छन्ति प्राप्नुवन्ति । चकारः समुच्चयार्थः । तदेव दर्शयति - तथाहीति । अभिषेकसमये राज्याभिषेकक्षण एवैतेषां राज्ञां मङ्गलकलशजलैरिव कल्याणकुम्भाम्भोभिरिव दाक्षिण्यमनुकूलता प्रक्षाल्यते धावनविषयीक्रियते । अग्नीति । अभिषेकानन्तरं होमस्य सद्भावादग्नीत्युक्तम् । अग्निकार्यं होमादि तस्य धूमेन हृदयं स्वान्तं मलिनीक्रियते : राज्ञामिति शेषः । पुरोहितेति । पुरोहितः पुरोधास्तस्य कुशाग्राणि दर्भाग्राण्येव संमार्जन्यो बहुकार्यस्ताभिरिव शान्तिः क्षमापहियत दूरीक्रियते । उष्णीषेति । उष्णीषं मूर्धवेष्टनं तदेव पट्टबन्धस्तेनेव जरा विससा तस्याः आगमनमागमस्तस्य स्मरण स्मृतिगलायत आब्रियते । आतपत्रेति । आतपत्रं छत्रं तस्य मण्डलेन निस्तलेन परलोकस्य भवान्तरस्य दर्शनमवलोकनमपसार्यते दूशाक्रयने ! चामरेति । चामरं वालव्यजनं तस्य पवनैर्वीजनैरिव सत्यमवितथं वदतीत्येवंशीलः सत्यवादी तस्य भावस्तत्ता सा अपहियतऽपहरणविषयीक्रियते । वेत्रेति । वेत्रदण्डैर्वेतसयष्टिभिरिव गुणाः शौर्यादय उत्सायन्ते दूरीक्रियन्ते । जयेति । जयशब्दस्य ये कलकलरवाः कोलाहलशब्दास्तैरिव साधुवादाः ख्यातयस्तिरस्क्रियन्ते । न्यक्कियन्ते । ध्वजेति । ध्वजा वैजयन्त्यस्तेषां पटा वस्त्राणि तेषां पल्लवैः प्रान्तैरिव यशः श्लोकः परामृश्यते परामर्शो लोपः स क्रियते । तदेव दर्शयति - तथाहीति । केचिन्मनुष्याः । श्रमेति । श्रमवशेन प्रयासाधिक्येन शिथिलः श्लथोऽदृढः शकुनेर्मयूरस्य अन्यस्य वा पक्षिविशेषस्य यो गलः कण्ठस्तस्य यत्पुटं तद्वच्चपलाभिः । मयूरस्य कण्टः श्रमवशेन चात्यन्तं चपलः स्यादिति तदुपमानम् । खद्योत इति । खद्योतो ज्योतिरिङ्गणस्तस्य य उन्मेषोऽवभासस्तद्वन्मुहूर्तं मनोहराभिश्चित्तहारिणीभिः । मनस्वीति । मनस्विजनाः पण्डितलोकास्तैगर्हिताभिर्निन्दिताभिरेवंविधाभिः संपद्भिः समृद्धिभिः प्रलोभ्यमाना लोभ प्राप्यमाणाः । धनेति । धनस्य द्रव्यस्य यो लवो लेशस्तस्य लाभः प्राप्तिस्तस्माद्योऽवलेपोऽहंकारस्तेन विस्मृतं विस्मरणं प्राप्तं जन्म येषां ते तथानेके दोषा दूषणानि तैरुपचितेन व्याप्तेन । रागावेशेनेति । राग इच्छारुण्यं च तेषामावेशस्तन्मयीभावस्तेन बाध्यमानाः पीड्यमानाः । - - - - - - - - - - - - - - - - - - - - -- - - - - - - - - - - - - -- - - --- टिप्प० - 1 कपटव्यवहारं करोति । 2 राज्ञां प्रसङ्गे 'मनुष्याः' इति व्याख्या प्रमादः । राजान इत्युचितम् । 3 दोषैः वातपित्तकफविकारैः उपचितेन वृद्धिंगतेन दुष्टेन असृजा (रक्तेन) यथा पीड्यमाना भवन्ति तथा दोषैः कामक्रोधादिभिः प्रवृद्धेन रागावेशेन विषयासक्तिरूपेणाभिनिवेशेन अधरीक्रियमाणा इति व्याख्योचिता । इदं सर्वं भ्रममात्रम् । अत एव 'दुष्टासजेव' इत्यपि पाठः ‘दोषोपचितेन' इति पर्वमुक्तत्वेन पौनरुक्त्यप्रसङ्गात् ।।
पाठा० - १ दैवपरिगृहीता. २ विक्लबीभवन्ति. ३ एवैषाम् एव चैषाम्. ४ मलिनीभवति. ५ अपनीयते. ६ पट. ७ अवच्छाद्यते. ८ अपवार्य अपवार्यते. ९ कलकलेः. १० क्वचित्. ११ श्रमशिथिल. १२ पक्षपुट. १३ दुष्टासृजेव.
(230
कादम्बरी ।
कथायाम