________________
वाध्यमानाः, विविधविषयग्रासलालसैः पञ्चभिरप्यनेकसहस्त्रसंख्यैरिवेन्द्रियैरायास्यमानाः, प्रकृतिचञ्चलतया लब्धप्रसरेणैकेनापि शतसहस्त्रतामिवोपगतेन मनसाकुलीक्रियमाणा विह्वलतामुपयान्ति । ग्रहैरिव गृह्यन्ते, भूतैरिवभिभूयन्ते, मन्त्रैरिवावेश्यन्ते, सत्त्वैरिवावष्टभ्यन्ते, वायुनेव विडम्ब्यन्ते, पिशाचैरिव ग्रस्यन्ते, मदनशरैर्महिता इव मुखभङ्गसहस्त्राणि कुर्वते, धनोष्मणा पच्यमाना इव विचेष्टन्ते, गाढप्रहाराहता इवाङ्गानि न धारयन्ति, कुलीरा इव तिर्यक्परिभ्रमन्ति, अधर्मभग्नगतयः पङ्गव इव परेण संचार्यन्ते, मृषावादविपाकसंजातमुखरोगा इवातिकृच्छ्रेण जल्पन्ति, सप्तच्छदतरव इव कुसुमरजोविकारैः पार्श्ववर्तिनां शिरःशूलमुत्पादयन्ति, आसनमृत्यव इव बन्धुजनमपि नाभिजानन्ति, उत्कम्पितलोचना इव -
***********
केनेव । दोषेति । दोषं दुष्टं यदसृग्रक्तं तेनेव । तत्रापि रागो भवत्येवेति साम्यम् । विविधेति । विविधा येऽनेके विषया गोचरास्त एव ग्रासा गुडेरकास्तत्र लालसैर्लम्पटैः । पञ्चभिरिति । पञ्चभिरपि प्राणप्रमितसंख्यैरपि चक्षुरादिभिरपि शतसहस्त्रतां लक्षतामुपगतेने प्राप्तेन अनेकसहस्त्रसंख्यैरिन्द्रियैः करणैरायास्यमानाः परिक्लिश्यमानाः । प्रकृतीति । प्रकृत्या स्वभावेन चञ्चलश्चपलस्तस्य भावस्तत्ता तया लब्धः प्रसरोऽवकाशो येनैवंभूतेनैकेन मनसा चितेनाकुलीक्रियमाणा विह्वलतामुत्पिञ्जलतामुपयान्ति गच्छन्ति । ग्रहैरिति । ग्रहैः शनैश्चरादिभिरिव गृह्यन्ते ग्रहणविषयीक्रियन्ते । भूतैः पिशाचैरिवाभिभूयन्ते । मन्त्रैरिति । मन्त्रा देवाधिष्ठातृकास्तैरिवावेश्यन्ते । मन्त्रेणान्यत्रावेशः क्रियते । यथा भूतमन्यत्र प्रवेश्यते । सत्त्वैरिव दुष्टप्राणिभिरिवावष्टभ्यन्ते हठेन गृह्यन्ते । वायुनेव पवनेनेव विडम्ब्यन्त इतस्ततो विक्षिप्यन्ते । पिशाचैरिव राक्षसैरिव ग्रस्यन्ते भक्ष्यन्ते । मदनेति । मदनशरैः कामबाणैर्मर्मस्थल आहतास्ताडिता इव मुखभङ्गसहस्त्राण्याननविकृतिसहस्त्राणि कुर्वते घटयन्ति । धनेति । धनस्यद्रव्यस्योष्मा तापस्तेनपच्यमानाः पाकविषयीक्रियमाणा इव विचेष्टन्ते । विविधा चेष्टां कुर्वन्तीत्यर्थः । गाढेति । गाढस्तीव्रो यः प्रहारो लगुडादिना कुल्लण्टनं तेनाहता इवाङ्गानि हस्तपादादीनि न धारयन्ति न धर्तु शक्नुवन्तीत्यर्थः ! कुलीरेति । कुलीरा इव कर्कटा इव तिर्यक्तिरश्चीना एव परिभ्रमन्ति परिभ्रमणं कुर्वन्ति । अधर्मेति । अधर्मेणासदाचरणेन भग्ना भङ्ग प्राप्ता गतिर्गमनं सत्कर्मणि वृत्तिश्च येषामेवंभूताः पङ्गव व खञा इव परेणान्येन संचार्यन्ते संचरणशीलाः क्रियन्ते । मृषेति । मृषावादोऽसत्यभाषणं तस्य विपाकः परिणामस्तेन संजातः समुत्पन्नो मुखरोगो येषामेतादृश इवातिकृच्छ्रेणातिकष्टेन जल्पन्ति ब्रुवन्ति । सप्तेति । सप्तच्छदतरव इव विषमच्छदवृक्षा इव कुसुमानि नेत्राणि तेषां ये रजोभिर्गुणैर्विकारा विकृतयस्तैः । पक्षे कुसुमरजोविकारैः पुष्परागविकृतिभिः । 'कुसुमं स्त्रीरजो नेत्रे' इत्यनेकार्थः । पार्थवर्तिनां समीपस्थायिनां शिरः शूलं मस्तकव्यथामुत्पादयन्ति जनयन्ति । सप्तपर्णकुसुमरजसः शिरः शूलोत्पादकत्वं वैद्यके प्रसिद्धम् । आसन्नेति । आसन्नः समीपवर्ती मृत्युर्येषां त एवंविधा इव बन्धुजनमपि स्वजनमपि नाभिजानन्ति नोपलक्षयन्ति । उदिति । उत्प्राबल्येन कम्पितं धूतं लोचनं नेत्रं येषामेवंविधा इव -
-- - - - - - - - -- - - - - - - - - - - - - - - - - - टिप्प० - 1 उपगतैरिति वाच्यम् । 2 सर्वैः सह कौटिल्यमाचरन्तीत्यर्थः । 3 कुसुमजसा विकारैः (तत्संपर्कजनितवायुविकारैः) सप्तपर्णतरवो यथा शिरोवेदनामुत्पादयन्ति, तथा इमे कुसुमानि (नेत्ररोगाः) एव रजोविकारा रजोगुणपरिणामास्तैः आसत्रवर्तिनां शिरःशूलजन्यपीडामिवोत्पादयन्तीति तात्पर्यम् । 'कुसुम स्त्रीरजोनेत्ररोगयोः फलपुष्पयोः । ' इति हैमस्य शुद्धः पाठः 4 'उत्कुपितलोचना इव' इत्यपि पाठः । उत्कुपितलोचना रुग्णनेत्रा इति तदर्थः । यस्य नेत्रपीडा भवति स तेजस्विपदार्थं न शक्नोति वीक्षितम् ।
पाठा० - १ विषयरसग्रास. २ प्रसारण. ३ अभिहताः. ४ राभिहताः. ५ विषपाक. ६ आसनवर्तिनाम्. ७ पुरःस्थितं बन्धुजनम्. ८ उत्कुपित.
(शुकनासोपदेशः
पूर्वभागः ।
MA
231)