________________
तेजस्विनो नेक्षन्ते, कालदष्टा इव महामन्त्रैरपि न प्रतिबुध्यन्ते, जातुषाभरणानीव सोष्माणं न सहन्ते, दुष्टवारणा इव महामानस्तम्भनिश्चलीकृता न गृह्णन्त्युपदेशम्, तृष्णाविषमूर्छिताः कनकमयमिव सर्वं पश्यन्ति, इषव इव पानवर्धिततैदेण्याः परप्रेरिता विनाशयन्ति, दूरस्थितान्यपि फलानीव दण्डविक्षेपैर्महाकुलानि शातयन्ति, अकालकुसुमप्रसवा इव मनोहराकृतयोऽपि लोकविनाशहेतवः, श्मशानाग्नय इवातिरौद्रभूतयः, तैमिरिका इवादूरदर्शिनः, उपसृष्टा इव क्षुद्राधिष्ठितभवनाः, श्रूयमाणा अपि प्रेतपटहा इवोद्धजयन्ति, चिन्त्यमाना अपि महापातकाध्यवसाया इवोपद्रवमुपजनयन्ति । अनुदिवसमापूर्यमाणाः पापेने -
***********
तेजस्विनः प्रतापवतः पुरुषानिःस्पृहान्नेक्षन्ते नावलोकयन्ति । पक्षे तेजस्विनः सूर्यादिकान् । कालदष्टेति । निषिद्धकाले संध्यादिरूपे दष्टा भक्षिताः । सर्पणेति शेषः । एवंविधा इव महामन्त्रैर्जाङ्गलीप्रभृतिभिः । षागुण्यादिभिरपि न प्रतिबुध्यन्ते न बोध प्राप्नुवन्ति । जातुषेति । जातुषाभरणानि लाक्षानिष्पन्नभूषणानीव सोष्माणं तेजस्विनं पुरुषं न सहन्ते न मृष्यन्ति । दुष्टेति । दुष्टवारणा इव मदोन्मत्तगजा इव महानत्युत्कृष्टो यो मानोऽहंकारस्तल्लक्षणो यः स्तम्भः स्थूणा तेन निश्चलीकृताः स्तब्धतां प्रापिताः सन्त उपदेशं शिक्षा न गृह्णन्ति नाददते । गजपक्षे महन्मानं यस्यैवंविधो यः स्तम्भ आलानस्तम्भस्तेन निश्चलीकृता नद्धाः सन्त उपदेश हस्तिपकवाक्य न गृह्णन्ति । अवगणयन्तीत्यर्थः । तृष्णेति । तृष्णैव विषं गरलं तेन मूर्छिता भ्रान्ताः कनकमय सुवर्णमयमिव सर्वं पश्यन्ति विलोकयन्ति । इपव इति । पान मधुपान निशानघर्षणं च ताभ्यां वर्धित तैक्ष्ण्यं मदक्रौर्यं प्रहारशक्तिश्च येषामेवंविधा इषव इव बाणा इव परोऽन्यो मन्त्री च ताभ्यां प्रेरिता नोदिता विनाशयन्ति विनाशं जनयन्ति । दण्डो यष्टिर्भागधेयश्च तयोर्विक्षेपाः प्रहारा दुर्दिनानि च तैर्दूरस्थितान्यपि दविष्ठदेशवीन्यपि फलानीव सस्यानीव महाकुलानि महाभिजनानि शातयन्ति पीडयन्ति पातयन्त्यपि च । अकालेति । मनोहराश्चित्तहारिण्य आकृतय आकारा येषामेवंविधा अपि राजानो लोकविनाशहेतवो भवन्ति । सदाकृतिसाम्यादुपमानान्तरमाह - अकालेति । अकालेऽऋतौ कुसुमप्रसवा इव तदुक्तम्-'द्रुमौषधिविशेषाणामकाले कुसुमोद्गमः । फलप्रसवयोवन्धं महोत्पातं विदुर्बुधाः । श्मशानाग्नय इति । श्मशानं प्रेतवनं तस्याग्नय इवातिरौद्रा अन्येषां भयोत्पादिका भूतिः संपयेषां ते तथा । पक्षेऽतिक्रूरा भूतिभस्म येषु । तैमिरिकेति । तिमिरं नेत्ररोगः संजातो येषां ते तैमिरिकास्त इवादूरदर्शिनः । भाविनं दोषं न पश्यन्तीत्यर्थः । दूरं परलोकं न पश्यन्तीत्ययों वा । पक्षेऽदूरदर्शिनः समीपस्थितवस्तुविलोकिनः । उपसृष्टेति । उपसृष्टा बहिःकृता इव क्षुद्रैविटेरधिष्ठितमाश्रित भवन गृह येषा ते तथा । श्रूयमाणा इति । श्रूयमाणा आकर्ण्यमाना उद्वेजयन्त्युद्धेगं जनयन्ति । क इव प्रेतपटहा इव यथा मृतकवाद्यानि निर्वेदमन्येषा समुत्पादयन्तीत्यर्थः कस्मिंश्चिद्देशे मृतकानां पुरस्ताद्वायानि वाद्यन्त इति देशाचारः । चिन्त्येति । चिन्त्यमाना अपि चेतसि स्मर्यमाणा अपि महापातकं स्त्रीहत्यादि तदध्यवसाया इव तदभिप्राया इवोपद्रवं वञ्चकादिदुःखमुपजनयन्ति निष्पादयन्ति । अन्विति । अनुदिवस प्रतिदिवस पापेनैनसापूर्यमाणा - - --
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 भूषणपक्षे अग्निम् । राजपक्षे - ईर्ष्यावशादसहनम् । जातुषपक्षे-विगलनवशादित्यर्थः । 2 सामदामभेददण्डा इति चतुर्थोपाय इति व्याख्यायाः स्पष्टव्यम् । 3 रतिसंलग्ना वाराङ्गना इव क्षुद्रः नीचैर्लोकः, पक्षे विटैरधिष्ठितानि भवनायि येषा ते। 'उपसृष्टं तु मैथुनम्' इति त्रिकाण्डशेषः । 4 चित्तस्याऽ शान्तिम् ।
पाठा० - १ जातुषा इव. २ महालान; महानाल. ३ कृता अपि न. ४ अतितृष्णाविषवेग; तृष्णावेश. ५ असयः; अग्नयः, असवः. ६ पारुष्याः.
232
| कादम्बरी ।
कथायाम्-)