________________
वामातमूर्तयो भवन्ति, तदवस्थाश्च व्यसनशतसख्यतामुपगता वल्मीकतॄणाग्रावस्थिता जलबिन्दव इव पतितमप्यात्मानं नावगच्छन्ति ।
अपरे तु स्वार्थनिष्पादनपरैर्धनपिशितग्रासगृङ्रास्थाननलिनीधूर्तबकैर्वृतं विनोद इति, परदाराभिगमनं वैदग्ध्यमिति, मृगया श्रम इति, पानं विलास इति, प्रमत्ततां शौर्यमिति, स्वदारपरित्यागमव्यसनितेति, गुरुवचनावधीरणमपरप्रणेयत्वमिति, अजितभृत्यता सुखोपसेव्यत्वमिति, नृत्यगीतवाद्यवेश्याभिसक्ति रसिकतेति, महापराधावकर्णनं महानुभावतेति, -
*********** भ्रियमाणा इवाध्ातमूर्तयः स्थूलदेहा भवन्ति । तदिति । सैवावस्था येषां ते तदवस्थाः । चः समुच्चयार्थः । एवंविधा व्यसनानां द्यूतादीनां शत तस्य सख्यतां मित्रतामुपगताः प्राप्ताः । 'शरव्यताम्' इति पाठे तु शरव्यं लक्ष्यं तस्य भावस्तत्त्वमुपगता इत्यर्थः । वल्मीकेति । वल्मीकमुपदेहिकागृह तस्य तृणानि नडादीनि तेषामग्राणि प्रान्तानि तेष्ववस्थिता ये जलबिन्दवस्त इव पतितमपि मनुष्यजन्मनःस्त्रस्तमप्यात्मान नावगच्छन्ति न जानन्ति ।
अपरे त्विति । अपरेऽन्ये । तु पुनरर्थे । राजानः । श्रीमता दोषान्तरमप्याह - अपरे त्विति । इति दोषानपि गुणपक्षमध्यारोपयद्भिधूर्तर्विप्रतारकैः स्तुतिभिः प्रतार्यमाणाः सर्वजनस्योपहास्यतामुपहासयोग्यतामुपयान्ति प्राप्नुवन्तीत्यन्वयः । कीदृशैधूर्तः । स्वेति । स्वस्यात्मनो योऽर्थः प्रयोजन तस्य निष्पादन करणं तत्र परैस्तत्परैः । धनमिति । धनं द्रव्यं तदेव पिशितं मास तस्य ग्रासो ग्रहण तस्मिन् गृधैर्दूरदृग्भिर्यथा तथा द्रव्यार्जनपरित्यर्थः । आस्थानेति । आस्थानं नृपोपवेशनस्थलं तदेव नलिनी कमलिनी तस्यां बकैधूर्तेः । यथा बका नलिनीमाश्रित्य तदाश्रयबलेन स्वात्मानमाच्छाद्य येन केन प्रकारेण परान्वञ्चयित्वाकस्मादेव परान्भक्षयन्ति तद्वदास्थानवलेन परान्वञ्चयित्वा स्वानि भक्षयन्ति । इतिशब्दार्थमाह - चूतमिति । द्यूतं दुरोदरं विनोदः क्रीडामात्रम् । न चैतद्विहिते किंचित्पातकमस्तीति भावः । परेति । परदाराः परस्त्रियस्तेषामभिगमनं संभोगो वैदग्ध्यमिति चातुर्यमित्यर्थः । मृगयेति । मृगयां मृगव्यां श्रम इति । 'अभ्यासः खुरलीति श्रमो योगाभ्यासः' इति कोशः । न तु परप्राणव्यापादनजनितं किमपि पातकमस्तीति भावः । पानमिति । पान मद्यादीना । विलास इति । विलसितमित्यर्थः । प्रमत्ततामिति । प्रमत्तता क्षीबतां शौर्यं सुभटकृत्यमिति । स्वेति । स्वस्य दाराः स्त्री तस्याः परित्यागं त्यजनमव्यसनितानासक्तिता इति । नतु धर्माधिक्यम् । गुरुरिति । गुरुर्हिताहितप्राप्तिपरिहारोपदेष्टा तस्य वचनं वचस्तस्यावधीरणमुल्लङ्घनमपरप्रणेयत्वमन्यवश्यत्वम् । 'वश्यः प्रणेयः' इति कोशः । गुरुवचनावधीरणेन क्रूरोऽयं प्रभुरिति भियापरे सामन्तादयो वश्यत्वं प्रतिपद्यन्त इति तेषामाशयः । अजितेति । शिक्षार्थं ताडिता भृत्या यस्य राज्ञः सम्यक्सेवां कुर्वन्ति स जितभृत्योऽन्यस्त्वजितभृत्यस्तस्य भावस्तत्ता ताम् । इद च नृपतेर्दूषण् । वैगुण्ये भृत्यानामवश्यं शिक्षा प्रदातव्येति राजचिह्नम् । तदुक्तम् - 'शठदमनमशठपालनमाश्रितभरणं च राजचिह्नानि इति । तस्मिन्सुखोपसेव्यत्वं सुखेनोपसेवितुं योग्यः सुखोपसेव्यस्तस्य भावस्तत्त्वम् । सुखोपसेव्योऽयं नृप इति लोके ख्यातिमात्र गण आरोप्यते । नत्यति । नत्यं नाटयम, गीत गानम. वाद्यमातोद्यम. वेश्या वारवध्वः, तास्वभिसक्तिमत्या सक्तचित्ततां रसिकता रसाभिज्ञता इति । महेति । महापराधानां कौरवयुद्धादीनामवकर्णनं श्रवणं महानु - टिप्प० -1 उयीकाकृतमृत्तिकास्तूपः (कीटविशेषेण निःसारितमृत्तिकाराशिः) तत्रोत्पन्नतृणाग्रे स्थिता जलबिन्दव इव । पातित्येन युक्तमात्मानं मोहान जानन्ति । वल्मीके पतिता जलबिन्दवस्तु शुष्कत्वान्न प्रतीयन्त इत्याशयः । 2 धर्माद्भश इति वक्तव्यम् । 3 न परप्रणेय (वश्य)त्वम्, स्वाधीनतासूचनात्स्वातन्त्र्यामत्यर्थः । 4 'महापराधानाकर्णनम्' इत्यपि पाठः । महतोऽप्यपराधस्य 'अकिञ्चित्करमिदम्' इति उपेक्षावशादनाकर्णनम् । वस्तुतस्त्वयमविचारो दोष एव । पाटा० - १ तृणाग्रस्थिताः. २ नलिनीबकैः. ३ मृगया. ४ प्रमत्तता. ५ स्वदारपरित्यागः; स्वदारपरित्यागेषु. ६ भृत्यता. ७ नृत्त. ८ अभिसक्तिः. ९ रसिकतामिति. १० अनाकर्णनम्, अनवकर्णनम्.
शुकनासोपदेशः
पूर्वभागः ।
223