________________
पराभवसहत्वं क्षमेति, स्वच्छन्दतां प्रभुत्वमिति, देवावमाननं महासत्त्वतेति, बन्दिजनख्याति यश इति, तरलतामुत्साह इति, अविशेषज्ञतामपक्षपातित्वमिति दोषानपि गुणपक्षमध्यारोपयद्भिरन्तः स्वयमपि विहसद्भिः प्रतारणकुशलैर्धूर्तेर्रमानुषलोकोचिताभिः स्तुतिभिः प्रतार्यमाणा वित्तमदमत्तचित्ता निश्चेतनतया तथैवेत्यात्मन्यारोपितालीकाभिमाना मर्त्यधर्माणोऽपिदिव्यांशावतीर्णमिव सदैवतमिवांतिमानुषमात्मानमुत्प्रेक्षमाणाः प्रारब्धदिव्योचितचेष्टानुभावाः सर्वजनस्योपहास्यतामुपयान्ति । आत्मविडम्बनां चानुजीविना जनेन क्रियमाणामभिनन्दन्ति । मनसा देवताध्यारोपणविप्रतारणादसद्भूतसंभावनोपहताश्चान्तः प्रविष्टापरभुजद्वयमिवात्मबाहुयुगलं संभावयन्ति । त्वगन्तरिततृतीयलोचनं स्वललाटमाशङ्कन्ते ।
***********
भावता महाधर्मिष्ठता । अदातृत्ववशात् मागधादिभिर्विहितस्य गालिप्रदानादिपराभवस्य तिरस्कृतेः सहत्वं क्षमेति क्षान्तिः । स्वच्छन्दतां निरवग्रहतां प्रभुत्वमैश्वर्यम् । देवेति । देवा अर्हदादयस्तेषामवमाननमवगणनं महासत्त्वत्ता महाधैर्यता । बन्दीति । बन्दिजना मागधादयस्तेषां ख्यातिं प्रसिद्धिम् । यशः श्लोक ( ? ) इति । एतेन पण्डितजनप्रदानं न श्लोकजनकमिति भावः । तरलतां चपलतामुत्साहः प्रगल्भता इति । अवीति । अविशेषज्ञतां विशेषाविशेषानभिज्ञतामपक्षपातित्वं माध्यस्थ्यमिति । अत्र 'द्यूतम्' इत्यारभ्य पूर्वपूर्वस्योद्देश्यतयोत्तरोत्तरस्य बाध्यमानतया पूर्वस्मिन्दोष उत्तरस्य गुणस्यारोपः प्रशंसनमेवाध्यारोपः । अत्राध्यारोपकलक्षणे रुपकव्यासङ्गजनकत्वं सातिशयसुखजनकत्वादिकं साम्यं स्वयमूहनीयम् । अथ धूर्तान्विशेषयन्नाह - अन्त इति । अन्तर्मध्ये स्वयमप्यात्मनापि विहसद्भिर्हास्यं कुर्वद्भिः । अस्मद्विप्रतारणानभिज्ञ इति हास्यनियामकम् । प्रतारणा वञ्चना तत्र कुशलैरभिज्ञैः । किं क्रियमाणा धनिनः । अमानुषो देवलोकस्तस्योचिताभिर्योग्याभिः । स्तुतेर्विशेषणम् । वित्तेति । वित्तस्य द्रव्यस्य मदस्तेन मत्तं चित्तं येषां ते तथा । अत एव निश्चे निर्गता चेतना ज्ञानं यस्मात्तस्य भावस्तत्ता तया । तथैवेति । यथा यथा प्रतार्यमाणास्तथैवेत्यर्थः । आत्मन्यारोपितं स्थापितमलीक मिथ्याभिमानं यैस्ते तथा मर्त्यधर्माणोऽपि मर्त्यस्य मनुष्यस्य धर्मा गमनादयो येषामेवंविधा अपि । दिव्येति । दिव्या देवसंबन्धिनो येऽशा भागस्तैरवतीर्णमुत्पन्नमिव सदैवतमिव देवताधिष्ठितमिवातिमानुषं कर्मातिक्रम्य वर्तमानमात्मानमुत्प्रेक्षमाणा मन्यमानाः । प्रारब्धेति । प्रारब्धा या दिव्योचिता देवजनयोग्याश्चेष्टाः क्रियास्ताभिरनुभावो माहात्म्यं येषां ते तथा । अन्वयस्तु प्रागेवोक्तः । अनुजीविना जनेन सेवकजनेन क्रियमाणां विधीयमानामात्मविडम्बनामर्सद्गुणारोपलक्षणामभिनन्दन्ति प्रशंसन्ति । चकारः पूर्वोक्तसमुच्चयार्थः । भू राज्ञां पुनर्दोषान्तरमाह - मनसेति । देवताया हरिहरादेरध्यारोपण आरोपणं तेन विप्रतारणं वञ्चनं तस्मादिति । असदिति । असद्भूतासद्रूपा या संभावना देवरूपत्वेन निश्चयस्तेनोपहता विनष्टबुद्धयः । देवत्वाध्यारोपत्वनिमित्तमूलानि प्रदर्शयन्नाह - अन्तरिति । अन्तर्मध्ये प्रविष्टमपरमन्यद्भुजद्वयं यस्मिन्नेवंविधमिवात्मनो बाहुयुगलं स्वकीयं भुजयुगं संभावयन्ति संभावनाविषयीकुर्वन्ति । एतेन स्वस्मिंश्चतुर्भुजत्व ख्यापितम् । त्रिनेत्रत्वमप्याह - त्वगिति । त्वद्वृत्तिस्तयान्तरितं पिहितं तृतीयं लोचनं यस्मिन्नेतादृशं -
टिप्प० - 1 आत्मनि अविद्यमाना अपि ये गुणास्तदारोपणरुपां विडम्बनाम् । 2 धूर्तेः कृतं देवत्वाऽध्यारोपणमेव प्रतारणं तस्मात् असद्भूता मिथ्याभूता या संभावना आत्मनो देवत्वेन निश्चयस्तेन उपहता नाशितबुद्धय इति व्याख्या । 'अध्यारोपप्रतारणाऽसंभूत' इत्यपि पाठः । देवत्वारोप एव प्रतारणा तयाऽसंभूता या संभावना आत्मनि देवत्वभानं तेन उपहता इति तत्र व्याख्या ।
पाठा० - १ परभवसत्वम्; परिभवसत्वम्. २ स्वच्छन्दता. ३ आख्यातिम्; ख्यातिः ४ तदलतां ५ अविशेषज्ञता. ६ अमानुषोचिताभिः ७ मत्तनिश्चयेन ८ तथेति यथेति. ९ आत्मारोपित १० अतिमानुष्यकम् ११ प्रतारणादसद्भूत; प्रतारणासंभूतः प्रतारणासद्भूत.
234
कादम्बरी ।
कथायाम्