________________
दर्शनप्रदानमप्यनुग्रहं गणयन्ति । दृष्टिपातमप्युपकारपक्षे स्थापयन्ति । संभाषणमपि संविभागमध्ये कुर्वन्ति । आज्ञामपि वरप्रदानं मन्यन्ते । स्पर्शमपि पावनमाकलयन्ति । मिथ्यामाहात्म्यगर्वनिर्भराश्च न प्रणमन्ति देवताभ्यः, न पूजयन्ति द्विजातीन्, न मानयन्ति मान्यान्, नार्चयन्त्यर्चनीयान्, नाभिवादयन्त्यभिवादनार्हान्, नाभ्युत्तिष्ठन्ति गुरुन् । अनर्थकायासान्तरितोपभोगसुखमित्युपहसन्ति विद्वज्जनम्, जरावैक्लव्यप्रलपितमिति पश्यन्ति वृंद्धोपदेशम्, आत्मप्रज्ञापरिभव इत्यसूयन्ति सचिवोपदेशाय, कुप्यन्ति हितवादिने । सर्वथा तमभिनन्दन्ति, तमालपन्ति, तं पार्धं कुर्वन्ति, त संवर्धयन्ति, तेन सह सुखमवतिष्ठन्ते, तस्मै ददति, तं मित्रतामुपजनयन्ति, तस्य वचनं श्रृण्वन्ति, तत्र वर्षन्ति, तं बहु मन्यन्ते, तमाप्ततामापादयन्ति, योऽहर्निशमनवरतमुपरचिताञ्जलिरधिदैवतमिव विगतान्यकर्तव्यः -
***********
स्वललाट निजालिकमाशङ्कन्त आरेकाविषयीकुर्वते । दशेति । लोकानां दर्शनप्रदान स्वात्मप्रकटनमनुग्रहं प्रसाद गणयन्ति मन्यन्ते । दृष्टीति । दृष्ट्याश्चक्षुषः पातमवलोकनं तदप्युपकारपक्ष उपकृतिपक्षे स्थापयन्ति निक्षिपन्ति । संभाषेति । संभाषणं जल्पनं तदपि संविभागः पारितोषिक दानं तन्मध्ये कुर्वन्ति । पारितोषिकतुल्यं गणयन्तीत्यर्थः । आज्ञामिति । आज्ञामपि निदेशमपि वरप्रदानं समीहितप्रदान मन्यन्ते जानन्ति । स्पर्शः संश्लेषस्तदपि पावनं पूतं पवित्रमाकलयन्ति विचारयन्ति । मिथ्येति । मिथ्या वृथा यो माहात्म्यगर्यो माहात्म्याभिमानस्तेन निर्भरा भृता देवताभ्योऽर्हद्भ्यो न प्रणमन्ति नमस्कारं न कुर्वन्ति । द्विजेति । द्विजातीस्त्रयीमुखान्न पूजयन्ति वस्त्रपात्रादिप्रदानेन सत्कुर्वन्तीत्यर्थः । मान्यानिति । मान्यान्माननीयान मानयन्ति न संमानं ददते । नेति । अर्चनीयानर्चायोग्यानार्चयन्ति नार्चा कुर्वन्ति । नेति । अभिवादनार्हानुपसंग्रहयोग्यानाभिवादयन्ति न पादग्रहणं कुर्वन्ति । नेति । गुरुन्हिताहितप्राप्तिपरिहारोपदेष्ट्रन् न अभ्युत्तिष्ठन्ति नाभ्युत्थान कुर्वन्ति । अनर्थकेति । अनर्थको निष्फलो य आयासः प्रयासः श्रौतस्मातकर्मणि क्लेशस्तेनान्तरित व्यवहितमुपभोगोऽङ्गनादिकस्तजनितं सुखं सातं यस्येति कृत्वा विद्वज्जनं विबुधजनमुपहसन्त्युपहासं कुर्वन्ति । जरेति । जरा विस्त्रसा तस्या वैक्लव्यं विकलता तेन प्रलपितं जल्पितमिति कृत्वा वृद्धानां स्थविराणामुपदेशं शिक्षा पश्यन्ति । जानन्तीत्यर्थः । आत्मेति । आत्मनः स्वस्य या प्रज्ञा बुद्धिस्तस्याः परिभवः पराभव इति कृत्वा सचिवोपदेशाय प्रधानशिक्षाया असूयन्त्यसूयां कुर्वन्ति । हितेति । हितवादिने यथास्थितवादिने कुप्यन्ति कोपं कुर्वन्ति । सचिवोपदेशाय हितवादिन इति चतुर्थीद्वयमपि 'क्रुधद्रुह' इत्यादिना संप्रदानसंज्ञाया सत्या ज्ञेयम् । एतादृशं पुरुष सर्वथा स्तवन्तीत्याशयेनाह - तमिति । तं पुरुष सर्वथा सर्वप्रकारेणाभिनन्दन्ति प्रशंसन्ति । तमालपन्त्यालापं कुर्वन्ति । तं पुरुषं पार्थे समीपे कुर्वन्ति रक्षन्ति । तं संवर्धयन्ति वृद्धि प्रापयन्ति । तेनेति । तेन पुरुषेण सह सुख यथा स्यात्तथावतिष्ठन्तेऽवस्थानं कुर्वन्ति । तस्मायिति । तस्मै पुरुषाय ददति प्रयच्छन्ति । तमिति । तं पुरुष प्रति मित्रतां सुहृद्भावतामुपजनयन्ति निष्पादयन्ति । तस्येति । तस्य पुरुषस्य वचनं वाक्यं श्रृण्वन्ति । तत्रेति । तस्मिन्पुंसि वर्षन्ति पुनःपुनः प्रदानं कुर्वन्ति । तं पुरुषं बहु मन्यन्ते । अत्युत्कृष्टतया जानन्तीत्यर्थः । तमिति । तं प्रत्याप्ततां शिष्टतामापादयन्ति प्रतिपादयन्ति । तच्छब्दस्य यच्छब्दसापेक्षत्वादाह - य इति । यः पुमानहर्निशमहोरात्रं अनवरतं निरन्तरं विगतमन्यकर्तव्यं यस्यैवंभूत उपरचिताज्जलिः संयोजितकरपुटोऽधिदैवतमिवेष्टदेवता -
- - - - - - - - - - - - -- टिप्प० - 1 मिथ्यादैवतमेव प्रणमन्ति न सम्यग्दैवतमिति तात्पर्यम् । 2 'तं मित्रतामुपनयन्ति' तं जन मित्रत्वं प्रापयन्तीति पाठान्तरः, तदर्थश्च ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाटा० - १ प्रदाने. २ संस्पर्शनम्. ३ द्विजान्. ४ विषयोपभोग. ५ विद्वज्जनशीलम्. ६ न पश्यन्ति. ७ वृद्धजनोपदेशम्. ८ तस्य मन्त्रिताम्. ९ उपनयन्ति. १० तमात्मनापादयन्ति तस्माद्विभ्यति.
शुकनासोपदेशः
पूर्वभागः ।
235