________________
स्तौति, यो वा माहात्म्यमुद्भावयति । किं वा तेषां सांप्रतं येषामतिनृशंसप्रायोपदेशनिर्घृणं कौटिल्यशास्त्रं प्रमाणम्, अभिचारक्रियाः क्रूरैकप्रकृतयः पुरोधसो गुरवः पराभिसंधानपरा मन्त्रिण उपदेष्टारः, नरपतिसहस्रभुक्तोज्झितायां लक्ष्म्यामासक्ति, मारणात्मकेषु शस्त्रेष्वभियोगः, सहजप्रेमार्द्रहृदयानुरक्ता भ्रातर उच्छेद्याः ।
७
तदेवप्रायातिर्कुटिलकष्टचेष्टासहसदारुणे राज्यतन्त्रेऽस्मिन्महामोर्हंकारिणि च यौवने कुमार ! तथा प्रयतेथा यथा नोपहस्यसे जैनैः, न निन्द्यसे साधुभिः, न धिक्कियसे गुरुभिः, नोपलभ्यसे सुहृद्भिः, न शोच्यसे विद्वद्भिः, यथा च न प्रकाश्यसे विटैः, न प्रतार्यसेऽकुशलैः, नास्वाद्य से भुजङ्गैः, नावलुप्यसे सेवकवृकैः, न वञ्चयसे धूर्तेः, न प्रलोभ्यसे 'वैनिताभिः, न विडम्ब्यसे लक्ष्म्या, न नर्त्यसे मदेन, नोन्मत्तीक्रियसे मदनेन, नाक्षिप्यसे -
११
***********
मिव स्तौति नवीति । यो वेति । यो माहात्म्यं तद्गुणवर्णनालक्षणमुद्भावयत्युद्भावनां करोति । विभूतिमतां पुनर्दोषान्तरमाह - किं वेति । तेषां विभूतिमतां वाथवा किं सांप्रतं युक्तं येषां विभूतिमतामतिनृशंसप्रायो ऽतिनिस्त्रिंशबहुल उपदेशः शिक्षा निर्गता धृणा दया यस्मादेतादृशं कौटिल्यशास्त्रं यामलादि प्रमाणमिति । अभिचारक्रिया कृत्याप्रतिकृत्यादिरुपक्रिया । क्रूरेति । क्रूरा निस्त्रिंशैकाद्वितीया प्रकृतिः स्वभावो येषामेवंविधाः पुरोधसः पुरोहिता गुरवो धर्मोपदेशकाः । परेषामितरेषामभिसंधानं निरोधँस्तत्र परास्तत्परा मन्त्रिणः सचिवा उपदेष्टारः शिक्षादायकाः । नरेति । नरपतीनां यत्सहस्रं तेन भुक्ता चासावुज्झिता त्यक्ता चेति कर्मधारयः । एवंविधायां लक्ष्म्यामासक्तिः प्रेमाधिक्यम् । मारणेति । मारणं व्यापादनं तदेवात्मा स्वरूपं येषां तथाविधेषु शस्त्रेष्वभियोग उद्यमः । सहेति । सहजं स्वारसिक यत्प्रेम तेनार्द्रं स्विन्नं हृदयंयेषामत एवानुरक्ता एतादृशा भ्रातरः सहोदरा उच्छेद्या मूलत उन्मूलनीयाः ।
प्रकृतमुपसंहरन्नाह - तदेवमिति । तदिति हेत्वर्थे । एवंप्राये पूर्वोक्तस्वरुपबहुले । अतीति । अतिकुटिला अतिवक्राः कष्टदायिन्यश्चेष्टाः कायव्यापारास्तासां सहस्रं तेन दारुणे भीषणे । राज्यतन्त्र इति । राज्यस्य तन्त्रं इतिकर्तव्यता । ' इतिकर्तव्यता तन्त्रे' इत्यनेकार्थः । अस्मिन्ननुभूयमाने यौवने तारुण्ये च महामोहकारिणि महामौढ्यजनके । कुमारेति संबोधनम् । तथेति । तेनैव प्रकारेण प्रयतेथाः प्रयत्नं कृथाः । यथा येन प्रकारेण जनैर्लोकैर्भवांस्त्वं नोपहस्यसे न उपहासविषयीक्रियसे । साधुभिः सज्जनैर्न निन्द्यसे न निन्दाविषयीक्रियसे । गुरुभिर्धर्माचार्यैर्न धिक्कियसे न धिग्जीवितमित्यादिवाक्यगोचरीक्रियसे । सुहृद्भिर्मित्रैर्नोपालभ्यसे नोपलम्भविषयीक्रियसे । विद्वद्भिः पण्डितैर्न शोच्यसे न शोकविषयीक्रियसे । यथा विटैरसदाचरणकारिभिर्न प्रकाश्यसे न प्रकटीक्रियसे । अकुशलैरनाचारादिभिर्न प्रतार्यसे न प्रतारणाविषयीक्रियसे । भुजङ्गैर्गणिकापतिभिर्नास्वाद्य से गणिकार्थं द्रव्यवितरणद्वारा नोपभोज्यसे । सेवकाः सपर्याकारिण एव वृका ईहामृगास्तैर्नावलुप्यसे नानिष्टे प्रसज्यसे । नाकुलीक्रियस इत्यर्थः । धूर्तेः शठैर्न वञ्च्यसे न प्रतार्यसे । वनिताभिः स्त्रीभिर्न प्रलोभ्यसे न प्रलोभना विषयः क्रियसे । लक्ष्म्या श्रिया न विडम्ब्यसे न विडम्बनायुक्तः क्रियसे । न परित्यज्यस इत्यर्थः । मदेनाधिपत्यजनिताहंकारेण न नर्त्यसे न नृत्यं कार्यसे । मदनेन मनोभवेन न उन्मत्तीक्रियसे न चित्तविप्लवतामापाद्य से । विषयैरिन्द्रियार्थैर्नाक्षिप्यसे न प्रेर्यसे । रागेण स्नेहादिना न विकृष्यसे नाकृष्यसे । सुखेन सातेन नापिह्रियसे न -
टिप्प० - 1 चाणक्यादिप्रणीतं नीतिशास्त्रम् । 2 श्येनयागादिरुपपरवधजनकक्रूरकृत्यम् । 3 प्रतारणम् । 4 विटैः स्वसमानतया जनसमाजे न प्रकटीक्रियसे इति तात्पर्यम् । 5 ‘न प्रहस्यसे कुशलैः' इत्यपि पाटः । अकुशलानां प्रतारणसामर्थ्यमेव कथमिति पाठान्तरसमर्थकानामभिप्रायः ।
पाठा० - १ असांप्रतम्. २ प्रायोपदेश. ३ शास्त्रेषु. ४ एवंप्राये. ५ कुटिल कुचेष्टा; कुटिलचेष्टा. ६ मोहान्धकारिणि ७ तथातथा ८ यथायथा. ९ जनेन. १० उपलभ्यसे. ११ प्रहस्यसे. १२ सर्ववनिताभिः.
236
कादम्बरी |
कथायाम्