________________
विषयैः, नावकृष्यसे रोगेण, नौपहियसे सुखेन । कामं भवान्प्रकृत्यैव धीरः, पित्रा च समारोपितसंस्कारः, तरलहृदयमप्रतिबुद्धं च मदयन्ति धनानि, तथापि भवद्गुणसंतोषो मामेवं मुखरीकृतवान् । इदमेव च पुनः पुनरभिधीयसे । विद्वांसमपि सचेतनमपि महासत्त्वमप्यभिजातमपि धीरमपि प्रयत्नवन्तमपि पुरुषमियं दुर्विनीता खलीकरोति लक्ष्मीरिति । सर्वथा कल्याणैः पित्रा क्रियमाणमनुभवतु भवान्नर्वयौवराज्याभिषेकमङ्गलम् । कुलक्रमागतामुद्वह पूर्वपुरषैरुढां धुरम् । अवनमयद्विषतां शिरांसि । उन्नमय स्वबन्धूवर्गम् । अभिषेकानन्तरं च प्रारब्धदिग्विजयः परिभ्रमन्विजितामपि तेव पित्रा सप्तद्वीपंभूषणां पुनर्विजयस्व वसुंधराम् । अयं च ते कालः प्रतापमारोपयितुम् । आरुढप्रतापी राजा त्रैलोक्यदर्शीव सिद्धादेशो भवति' इत्येतावदभिधायोपशशाम । उपशान्तवचसि शुकनासे चन्द्रापी
99
टिप्प०
***********
परित्यज्यसे । काममत्यर्थं सकलशास्त्रवेत्तृभिः शिक्षिते त्वय्युपदेशोव्यर्थ इत्यर्थः । पुनराह - प्रकृत्येति । प्रकृत्या स्वभावेन धीरो धैर्यवान् । यद्यपीति पूरणीयम् । कीदृक् । पित्रा चेति । पित्रा चकारान्मयापि समारोपिता विहिताः संस्कारो जातकर्मादयः । अथ च तत्तद्गुणविशेषाश्च यस्यैवंभूतः । अथवान्यदप्याह - तरलेति । तरलं चञ्चलं हृदयं चेतो यस्य स तमप्रतिबुद्धं बोधरहितं च पुरुषं धनानि द्रव्याणि मदयन्ति मदं जनयन्ति । अहं तु न तथानुनयाहमीति । येनोपदेशः सार्थकः स्यादिति तदभिप्रायमाशङ्क्योत्तरमाह - तथापीति । अनुपदेश्यत्वेऽपि भवद्गुणैः शौर्यादिभिर्यः संतोषो मनसस्तुष्टिर्मां शुकनासमेवं पूर्वोक्तप्रकारेण मुखरीकृतवांस्तादृग्वाग्व्यापारे प्रवर्तितवान् । अहार्यविपरीतशङ्कानिवृत्तयेऽयमुपदेश इत्यत आह - इदमेवेति । इदं पूर्वोक्तं पुनःपुनर्वारंवारमभिधीयसे कथ्यसे । अहार्यशङ्कामुद्घाटयति - विद्वांसमिति । विद्वांसमपि पण्डितमपि सचेतनमपि ज्ञानवन्तमपि महासत्त्वमपि महासाहसमप्यभिजातमपि कुलीनमपि धीरमपि धैर्यवन्तमपि प्रयत्नवन्तमप्युद्योगयुक्तमपि पुरुषं लक्ष्मीः श्रीः खलीकरोति सन्मार्गात्स्खलनां प्रापयति । अत्र सर्वत्रापिशब्दः कैमुतिकन्यायपरः । अयमप्येवं करोति । अन्यस्य का वार्तेत्यर्थः । तत्र हेतुमाह यत इयं दुर्विनीता । अपगतविनयेत्यर्थः । भवांस्त्वं पित्रा जनकेन कल्याणैर्मङ्गलैः क्रियमाणं विधीयमानं नवयौवनस्य यो राज्याभिषेकस्तल्लक्षणं यन्मङ्गलं श्रेयोऽनुभवत्वनुभवविषयीकरोतु । पूर्वपुरुषै कुलक्रमागतां परंपरायातां धुरं राज्यभारमुद्वहोद्वहनं कुरु । अवेति । द्विषतां शत्रूणां शिरांस्युत्तमाङ्गान्यवनमय नम्राणि कुरु । स्वबन्धुवर्गं स्वजनसमुदायमुन्नमयोर्श्वीकुरु । अभीति । अभिषेकानन्तरं यौवराज्याभिषेकादनु । प्रारब्धेति । प्रारब्धः प्रस्तुतो दिग्विजयो येन सः परिभ्रमन्प्रतिदिशं दिशं दिशंप्रति गच्छंस्तव पित्रा त्वज्जनकेन विजितामपि स्वायत्तीकृतामपि सप्तद्वीपभूषणां सप्तसंख्याका द्वीपा जम्बूप्रभृतयो भूषणं यस्या एवंविधां वसुंधरां पुनर्द्वितीयवारं विजयस्व स्वायत्तीकुरु । यमिति । प्रतापं कोशदण्डजं तेज आरोपयितुं लब्धास्पदं कर्तु ते तवायं कालः स्वमयः । समागत इति शेषः । तस्य फलं प्रदर्शयन्नाह - आरूढेति । आरुढो लब्धास्पदः प्रतापो यस्यैवभूतो राजा त्रैलोक्यदर्शीय योगीव सिद्धो निष्पन्न आदेश आज्ञा यस्य स तथा । त्रिकालदर्श्यपि सिद्धादेशो भवति । यथा वदति तथैव भवतीत्यर्थः । इतीति । इति परिसमाप्तौ । एतावन्मात्रमभिधायोक्त्वोपशशाम विरतवाग्व्यापारो बभूव । उपेति । उपशान्तवचस्युपरतवाग्व्यापारे तस्मिञ्शुकनासे सति चन्द्रापीडस्ताभिः पूर्वोक्ताभिरुपदेश
-
1 समारोपितः शिक्षार्पणैः संस्थापितः संस्कारः सर्वविषयज्ञानं यस्य सः । इत्यर्थ उचितः ।
शुकनासोपदेशः
-
पाठा० - १ विकृष्यसे; रज्यसे; आकृष्यसे. २ रागैः. ३ उपह्नियसे. ४ च महता प्रयलेन. ५ एव. ६ नवयौवन; यौवन. ७ अनेकमङ्गलम् ८ बन्धुवर्गम्. ९ भवत्. १० द्वीप - समुद्रभूषणाम् ११ हि राजा. १२ वचने.
पूर्वभागः ।
237