________________
डस्ताभिरुपदेशवाग्भिः प्रक्षालित इव, उन्मीलित इव, स्वच्छीकृत इव, निर्मुष्ट इव, अभिषिक्त इव, अभिलिप्तइव, अलंकृत इव, पवित्रीकृत इव, उद्भासित इव, प्रीतहृदयो मुहूर्तं स्थित्वा स्वभवनमाजगाम ।
ततः कतिपयदिवसापगमे च राजा स्वयमुत्क्षिप्तमङ्गलकलशः सह शुकनासेन पुण्येऽहनि पुरोधसा संपादिताशेषराज्याभिषेकमङ्गलमनेकनरपतिसहस्त्रपरिवृतः सर्वेभ्यस्तीर्थेभ्यः सर्वाभ्यो नदीभ्यः सर्वेभ्यश्च सागरेभ्यः समाहृतेन सेर्वोषधिभिः सर्वफलैः सर्वमृद्भिः सर्वरत्नैश्च परिगृहीतेनानन्दबाष्पजलमिश्रेण मन्त्रपूतेन वारिणा सुतमभिषिषेच । अभिषेकसलिलादेहं च तं लतेव पादपान्तरं निजपादपममुञ्चत्यपि तारापीडं तत्क्षणमेव संचक्राम राज्यलक्ष्मीः । अनन्तरमखिलान्तः पुरपरिवृतया च प्रेमाहृदयया विलासवत्या स्वयमापादतलादामोदिना चन्द्रातपधवलेन चन्दनेनानुलिप्तमूर्तिः, अभिनवविकसितसितकुसुमकृतशेखरः, गोरोचनाच्छुरितदेहः, दूर्वाप्र -
*********** वाग्भिः शिक्षावचनैः प्रक्षालित इव धौत इव, उन्मीलित इव विकसित इव, स्वच्छीकृत इव स्वच्छता प्रापित इव, निर्मुष्ट इव मसृणीकृत इव, अभिषिक्त इव स्नपित इव, अभिलिप्त इव प्रलिप्त इव, अलंकृत इव भूषित इव, पवित्रीकृत इव पावनीकृत इव, उद्भासित इवोद्दीपित इव । प्रीतेति । प्रीतं संतुष्टं हृदयं चेतो यस्यैवंभूतो मुहूर्तं घटिकाद्वयं स्थित्वावस्थानं कृत्वा स्वभवनं निजसमाजगामाययौ ।
तत इति । ततस्तदनन्तरं कतिपयदिवसापगमे कियद्वासरातिक्रमे च राजा नृपः सुतं तनयं वारिणा जलेनाभिषिषेच स्नपयांचकार । राजानं विशिनष्टि - स्वयमिति । स्वयमात्मनोत्क्षिप्त ऊर्ध्वं नीतो मङ्गलाभिधानः कलशो येन स तथा । शुकनासेन मन्त्रिणा सह पुण्येऽहनि पवित्रे वासरे । सुतं विशेषयन्नाह - पुरोधसेति । पुरोधसा पुरोहितेन संपादितं विहितमशेष समग्र राज्याभिषेकलक्षण मङ्गल यस्य स तम् । राजानं विशिनष्टि - अनेकेति । अनेके भिन्नभिन्नदेशोद्भवा ये नरपतयो राजानस्तेषां सहस्त्रं तेन परिवृतः सहितः जलं विशिनष्टि - सर्वेभ्य इत्यादि । सर्वेभ्यः समग्रेभ्यस्तीर्थेभ्यो मागधादिभ्यः । सर्वाभ्यो नदीभ्यस्तटिनीभ्यः । सर्वेभ्यः सागरेभ्यः । समुद्रान्तर्वर्तिस्थलेभ्य इत्यर्थः । अन्यथा सागरस्यैक्याबहुवचनमनर्थक स्यात् । समाहृतेनैकीकृतेन । पुनस्तदेव विशिनष्टि - सर्वोषधीति । सर्वाः समग्रा ओषधयः फलपाकान्तास्ताभिः सर्वफलैः समग्रसस्यैः सर्वमृद्भिः समग्रतीर्थोद्भवमृत्तिकाभिः सर्वरत्नैः समग्रमणिभिः परिगृहीतेन स्वीकृतेन । आनन्देति । आनन्दःप्रमोदस्तजनितं यद्वाष्पजलतेनमिश्रेण संपृक्तेनेति जलविशेषणम् । मन्त्रेति । मन्त्रो देवाधिष्ठातृकस्तेन पतेन पवित्रेणेति तस्यैव विशेषणम् । अभीति । अभिषेकस्य यौवराज्याभिषेकस्य यत्सलिलं पानीयं तेनाः स्विन्नो देहो यस्यैवंभूतं तं चन्द्रापीड राज्यलक्ष्मीराधिपत्यश्रीः अन्य पादपं पादपान्तरं लतेव वल्लीव निजपादपं स्वकीयवृक्षममुञ्चत्यप्यत्यज्य(ज)न्त्यपि तारापीडं तत्क्षणमेव तत्कालमेव संचक्राम प्रविष्टा बभूव । अनन्तरमिति । अनन्तरं यौवराज्याभिषेकानन्तरम् । अखिलेति । अखिल यदन्तःपुरमवरोधस्तेन परिवृतया सहितया प्रेम्णा स्नेहेनार्दै हृदयं यस्याः सा तया विलासवत्या स्वकीयजनन्या स्वयमात्मनामोदिनामोदः परिमलः स विद्यते यस्मिन्नेतादृशेन चन्द्रातपश्चन्द्रगोलिका तद्वद्धवलेन शभ्रेण चन्दनेन मलयजेनापादतलात पादतलं मर्यादीकत्यानलिप्ता कृताङ्गरागा मूर्तिर्यस्य सः । अभीति । अभिनवानि प्रत्यग्राणि विकसितानि विनिद्राणि सितानि श्वेतानि यानि कुसुमानि पुष्पाणि तेषां कृतो विहितः शेखरोऽवतंसो यस्य सः । गोरेति । गोरोचनेनाच्छुरितश्छुटितो देहो यस्य सः । दूर्वेति । दूर्वा शतपर्विका तस्याः प्रवालैः - - - - - - - - - - - - -- टिप्प० - 1 सप्त सागरा इति प्रसिद्धेः 'सिन्धु संज्ञया सप्तसंख्या प्रसिद्धैव । 2 चन्द्रकिरणाः, चन्द्रिका । 3 लिप्तः, रञ्जितः ।
पाठा० - १ ताभिरमलाभिरुपदेश. २ स्वस्थीकृतः. ३ सर्वोषधीभिः. ४ निजपादपं पादपान्तरम्; पादपं निजपादपान्तरम्. ५ विकसितकुसुम. ६ गोरचना.
सार
पर
(238
कादम्बरी।
कथायाम्