________________
वालरचितकर्णपूरः, दीर्घदशमनुपहतमिन्दुधवलं दुकूलयुगलं वसानः, पुरोहितप्रतिबद्धप्रतिसरप्रसाधितपाणिः, नवराजलक्ष्मीकमलिनीमृणालेनाभिषेकदर्शनार्थमागतेन सप्तर्षिमण्डलेनेवहारेणालिङ्गितवक्षस्थलः, सितकुसुमग्रथिताभिराजानुलम्बिनीभिरिन्दुकरकेलाभिकक्षसग्भिनिरन्तरनिचितशरीरतया धवलवेषपरिग्रहतया च नरसिंह इव विधूतकेसरनिकरः, कैलास इव सवत्सोतस्विनीसोतोराशिः, ऐरावत इव मन्दाकिनीमृणालजालजटिलः, क्षीरोद इव स्फुरितफेर्नलवाकुलस्तत्कालप्रतिपन्नवेत्रदण्डेन पित्रा स्वयं पुरःप्रारब्धसमुत्सारणः सभामण्डपमुपगम्य काञ्चनमयं शशीव मेरुश्रृङ्ग चन्द्रापीडः सिंहासनमारुरोह । आरूढस्य चास्य कृतयथोचितसकलराजलोङसमानस्य मुहूर्त स्थित्वा दिग्विजयप्रयाणा -
*********** किसलयै रचितो निर्मितः कर्णपूरः कर्णावतंसो येन सः । दीर्घेति । दीर्घा आयता दशा वर्तयो यस्यैवंभूतमनुपहतमखण्डमिन्दुश्चन्द्रस्तद्वद्धवलं घेतं दुकूलयुगलं दुगूलयुग्मं वसानो दधानः । पुरो इति । पुरोहितेन पुरोधसा प्रतिबद्धो यः प्रतिसरी हस्तसूत्रं तेन प्रसाधितोऽलंकृतः पाणिर्यस्य सः । राजानं विशिनष्टि - नवेति । नवा प्रत्यग्रा या राजलक्ष्मीराधिपत्यश्रीः सैवोल्लसत्त्वसाम्यात्कमलिनी नलिनी तस्या आयतत्वसाम्यान्मृणालेनेव बिसेनेव । मुक्तासु संक्रान्तमुखत्वेनोपमानान्तरमाविःकर्तुमाह - अभीति । अभिषेकदर्शनार्थं यौवराज्याभिषेकावलोकनार्थमागतेन प्राप्तेन सप्तर्षिमण्डलेनेव मरीचिप्रभृतिमुनिसमुदायेनैवंविधेन हारेण मुक्ताप्रालम्बेनालिङ्गितमाश्लिष्टं वक्षस्थल भुजान्तरं यस्य स तथा । सितेति । सितानि श्वेतानि यानि कुसुमानि पुष्पाणि तैर्ग्रथिताभिर्गुम्फिताभिराजान्वानलकील यावल्लम्बन्त इत्येवंशीला आजानुलम्बिन्यस्ताभिः । इन्दुरिति । इन्दुश्चन्द्रस्तस्य कराः किरणास्तद्वत्कला मनोहरास्ताभिः । वैकक्षेति । वैकक्षमुत्तरीयक तद्वत्स्थापिताभिः सग्भिर्मालाभिर्निरन्तरं निचितं व्याप्तं शरीरं यस्य तस्य भावस्तत्ता तया । धवलेति । धवलः शुभ्रो यो वेषो नेपथ्यं तस्य परिग्रहः स्वीकारो यस्य तस्य भावस्तत्ता तया । चेति । चकार उभयसमुच्चयार्थः । उभयसमुच्चयेन द्वयोरुत्प्रेक्षामाह - नरेति । नरसिंह इव नृसिंहावतार इव । कीदृक् । विधूतः कम्पितः केसरनिकरः सटासमूहो येन सः । अत्र केसरस्वजोः साम्यम्, वेषशरीरचर्मणोः साम्यं चेति भावः । कैलासेति । कैलास इव रजताद्रिरिव । एवं विशिनष्टि - सवदिति । सवन्त्याः क्षरन्त्याः स्रोतस्विन्या गङ्गायाः सोतोराशिः प्रवाहसमूहो यस्मिन् । अत्र कैलासवेषयोः साम्यम्, सक्स्रोतस्विन्योः साम्यं च दर्शितम् । ऐरावतेति । ऐरावत इव हस्तिमल्ल इव । एनं विशिनष्टि - मन्दाकिनीति । मन्दाकिन्या गङ्गाया यन्मृणालजालं बिससमूहस्तेन जटिलो व्याप्तः । पुनर्धवलवेषसाम्यनिमित्तकमुत्प्रेक्षान्तरमाह - क्षीरोदेति । क्षीरोदः क्षीरसमुद्रस्तद्वदिव । एनं विशेषयन्नाह - स्फुरितेति । स्फुरिता दीप्यमाना ये फेनलवा डिण्डीरांशास्तैराकुलो व्याप्तः । तदिति । तत्काले तदात्वे प्रतिपन्नः स्वीकृतो वेत्रदण्डो वेतसयष्टिर्येनैवंविधेन पित्रा जनकेन स्वयमात्मना पुरोऽग्रे प्रारब्धं प्रस्तुतं समुत्सारणं जननिवारणं येन सः । सभामण्डपमास्थानमण्डपमुपगम्य समीपे गत्वा काञ्चनमयं मेरुश्रृङ्गं स्वर्णाद्रिशिखर शशीव हिमद्युतिरिव चन्द्रापीडो युवराट् काञ्चनमयं सिंहासनं नृपासनमारुरोहारूढवान् ।
आरूढस्य च तदुपविष्टस्य च । अत्र चकारः पुनरर्थकः । अस्य चन्द्रापीडस्य कृतो विहितो यथोचितं यथायोग्यं सकलराजलोकस्य समग्रनृपजनस्य समानः सत्कारो येन स तस्य । मुहूर्तं घटिकाद्वयं स्थित्वोप - - - - - - -
- - - - - - - टिप्प० - 1 प्राञ्चलवर्तिन्यः सूत्रवार्तिकाः । 2 शुक्लत्वसाम्यादेव सप्तर्षीणामुपमानता । 3 अग्रवर्तिन्यः सर्वा उपमाः । 4 क्षीरोद इवेत्यप्युपमैव । यदा पूर्वोक्ताः उपमा एकत्रोपमेये संघटितास्तदा सेयं मालोपमा ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाटा० - १ अभिनव. २ कोमलाभिः; कलापकोमलाभिः. ३ वैकक्षक. ४ विधृत; विधुत. ५ फेनतला. ६ आगम्य. ७ संधानस्य.
चन्द्रापीडस्य दिग्विजययात्रा
पूर्वभागः ।
239