________________
शंसी प्रलयघनघटाघोषघर्घरध्वनिरुदधिरिव मन्दरपातैः, वसुंधरापीठेमिव युगान्तनिर्घातैः, उत्पातजलधर इव तडिद्दण्डपातैः, पातालकुक्षिरिव महावराहघोणाभिघातैः, कनककोणैरभिहन्यमानः प्रस्थानदुन्दुभिरामन्थरं दध्यान । येन ध्वनता समाध्मातानीवोन्मीलितानीव पृथकृतानीव विस्तारितानीव गर्भीकृतानीव प्रदक्षिणीकृतानीव बधिरीकृतानीव रवेण भुवनान्तराणि विश्लेषिता इव दिशामन्योन्यबन्धसंधयः । यस्य च भयवशविषमचलितोत्तानफणासहस्रणालिङ्ग्यमान इव रसातले शेषेण, मुहुर्मुहुरभिमुखंदन्तोघातैराहूयमान इव दिक्षु दिक्कुञ्जरैः, संत्रासरचितरेचकमण्डलैः प्रदक्षिणीक्रियमाण इव नभसि दिवसकररथुतुरङ्गमैः, अपूर्वशर्वाट्टहासशङ्काहर्षहुकृतेनाश्रुतपूर्व आभाष्यमाण इव कैलासशिखरिणि त्र्यम्बकवृषभेण, -
***********
विश्य तदनन्तरं दिग्विजयार्थं यत्प्रयाणं गमनं तस्याशंसी कथकः प्रस्थानदुन्दुभिर्यात्रापटह आमन्थर नात्युच्च यथा स्यात्तथा दध्वान शब्द चकार । अथ दुन्दुभिं विशेषयन्नाह - प्रलयेति । प्रलयकालानां लीना कल्पान्तसमयोद्भवा या घनघटा कादम्बिनी तस्या घोषो गर्जित तद्वद्धर्धरः कठिनो ध्वनिः शब्दो यस्य सः । किंक्रियमाणः । अभिहन्यमानः । कैः । कनकस्य सुवर्णस्य कोणाः पटहवादनदण्डास्तैः । 'कोणो वीणादिवादनम् इति कोशः । क इव । उदधिः समुद्रस्तद्वदिव मन्दरो मेरुस्तस्य पातैः पुनःपुनः पतनैः । वसुधरेति । वसुंधरा पृथ्वी तस्याः पीठं मूलभागस्तद्वदिव युगान्ते कल्पान्ते निर्घाता दिशां महान्तः शब्दाः श्रूयन्ते तैः । उत्पातेति । उत्पातो जन्यं तज्जनितो यो जलधरो मेघस्तद्वदिव तडिद्दण्डा विद्युद्दण्डास्तेषां पातैः प्रपतनैः । पातालेति । पातालं बलिवेश्म तस्य कुक्षिमध्यप्रदेशस्तद्वदिव । महेति । महावराहः कृष्णावताररूपस्तस्य घोणा विकूणिका तस्या अभिघातैः प्रहारैः । येनेति । येन दुन्दुभिना । कर्तरि तृतीया । ध्वनता शब्दं कुर्वता रवेण शब्देन भुवनान्तराणि विश्वविवराणि समाध्मातानीवापूरितानीवोन्मीलितानीव विकसितानीव पृथकृतानीव भिन्नीकृतानीव विस्तारितानीव विपुलीकृतानीव गर्भीकृतानीवान्तर्हितानीव प्रदक्षिणीकृतानीवावर्तीकृतानीव बधिरीकृतानीवाकर्णीकृतानीव जातानीति सप्तभिः समाध्मातादिभिः संबध्यते । विश्लेषिता इति । दिशां ककुभामन्योन्यं परस्परं बन्धस्य बन्धविशेषस्य संधयः संश्लेषा विश्लेषिता विघटिता इव । यस्य चेति । दुन्दुभिना संबध्यते । निनादापेक्षया षष्ठी । यस्य दुन्दुभेनिनादः शब्दस्त्रिभुवन विष्टपत्रयं बभ्राम भ्रमणं चकार । अत्रोत्प्रेक्षते - भयेति । भयवशेन भीतिवशेन विषमं स्थपुटं चलितं पश्चादागतमुत्तानमूर्ध्वमुखंफणासहस्त्र यस्यैवंविधेन शेषेण नागाधिपेन रसातले वडवामुख आलिङ्ग्यमान इवाश्लिष्यमाण इव मुहुर्मुहुरिवारं दिक्षु दिशासु दिक्कुञ्जरैर्दिङ्नागैराहूयमान इव निमन्त्र्यमाण इवाभिमुखं संमुखं ये दन्तानां रदानामूर्ध्वघाता ऊर्ध्वप्रहारास्तै । संत्रासेति । संत्रासेन भयेन रचितं रेचकमण्डल तिर्यग्भ्रमणमण्डलं येरेवंविधैर्दिवसकररथतुरङ्गमैः सूर्यरथसप्तसप्तिभिर्नभसि विहायसि प्रदक्षिणीक्रियमाण आवर्तीक्रियमाण इव । अपूर्वेति । अपूर्वोऽश्रुतपूर्वो यः शर्वस्य भवानीपतेरट्टहासो महान्हासस्तस्य शङ्कारेका तया हर्षः प्रमोदस्तस्माद्यद्धंकृतं तेन हुंकारेण कैलासशिखरिणि रजताद्रिसानुनि त्र्यम्बकवृषभेणेश्वरबलीवनाभाष्यमाण इवोच्यमान इव ।
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 केचनाऽत्रेद वदन्ति- यदा प्रलयघनघटादिघोरशब्दैः साम्यं ततोपि नात्युच्चता ? अतः आमन्थरम् अतीव विशालमिति व्याख्यानमुचितम् । 'मन्थरः सूचके कोशे वक्र मन्दे पृथौ मथि । मन्थरं तु कुसुम्भ्यां स्यात्' इति हेमः । 2 'मन्दरघातैः' इत्यपि पाठः । मथ्यमानतादशायां विलोडनकृतो घात एट भवति न पुनः पातः । 3 अत्रेदं कस्यचिद् विप्रतिपत्तिः उत्पातसमये आकाशादभिपतिता वायुविशेषा निर्घाताः 'वायुनाभिहतो वायुर्गगनात्पतितः क्षिती । यदा दीप्तः खगरुतः स निर्घातोतिदोषकृत् ॥ नारदसंहिता । 4 आलप्यमान इवेत्युचितम् ।
पाठा० - १ घातैः. २ पीठः. ३ चण्डपातैः. ४ कनककणैः; कणकणैः. ५ येन च. ६ उन्मीलितानीव मुखरीकृतानीव पृथकृतानीव. ७ वलित. ८ दत्तदन्त. ९ तुरगे. १० हुकृतेनाभाष्यमाणः.
240
कादम्बरी।
कथायाम्