________________
कृतगम्भीरकण्ठगर्जितेन प्रत्युद्गम्यमान इव मेरोवैरावतेन, अश्रुतपूर्वरवरोषावेशतिर्यगवनमितविषाणमण्डलेन प्रणम्यमान इव विबुधसनि कृतान्तमहिषेण, संत्रस्तलोकपालाकर्णितो बभ्राम त्रिभुवनं निनादः । ततो दुन्दुभिरवमाकर्ण्य जयजयेति च सर्वतः समुद्भुष्यमाणजयशब्दः सिंहासनात्सह द्विषतां श्रिया संचचाल चन्द्रापीडः । समन्तात्ससंभ्रमोत्थितैश्च परस्परसंघट्टविघटितहारसूत्रविगलिताननवरतमाशाविजयप्रस्थानमङ्गललीलालाजानिव मुक्ताफलप्रकरान्क्षरद्भिः, पारिजात इव सितकुसुममुकुलपातिभिः कल्पपादपैः, ऐरावत इव विमुक्तकरशीकरैराशागजैः, गगनाभोग इव तारागणवर्षिभिदिगन्तरैः, जलदकाल इव स्थूलजललवासारस्यन्दिभिर्जलधरैरनुगम्यमानो नरपतिसहस्त्रैरास्थानमण्डपान्निरगात् । निर्गत्य च पूर्वारुढया पत्रलेखयाध्यासितान्तरासनामुपपादितप्रस्थानसमुचितमङ्गल्यालं -
*********** कृतेति । कृतं विहितं गम्भीरमत्युच्चं कण्ठगर्जितं येनैवंविधेनैरावतेनाभ्रसुप्रियेण प्रत्युद्गम्यमान इवाभिमुखं यायमान इव । अश्रुतेति । अश्रुतपूर्वोऽनाकर्णितपूर्वो यो रवः शब्दस्तेन जनितो रोषो रुट् तस्यावेशोऽपस्मारस्तेन तिर्यगवनमितं नम्रीभूतं विषाणमण्डलं श्रृङ्गमण्डलं यस्यैवंविधेन विबुधसद्मनि देवलोके कृतान्तमहिषेण यमकासरेण प्रणम्यमान इव नमस्क्रियमाण इव । संत्रस्तेति । संत्रस्ताश्चकिता ये लोकपालाः सोमाद्यास्तैराकर्णितः श्रवणविषयीकृतः । ततस्तदनन्तरं दुन्दुभिरवं पटहरवं जयजयेति च शब्दम् । चकारः पुनरर्थकः । आकर्ण्य निशम्य सर्वतः सर्वत्र समुद्भुष्यमाण उद्घोषणाविषयीक्रियमाणो जयशब्दो यस्य स तथा । एवंविधश्चन्द्रापीडो द्विषतां शत्रूणां श्रिया लक्ष्म्या सह सिंहासनात् संचचाल चलितो बभूव । क्रमेणास्थानमण्डपान्निरगानिर्गतो बभूवेत्यन्वयः । किंविशिष्टः । नरपतिसहस्त्रैभूमिपतिदशशतैरनुगम्यमानोऽनुव्रज्यमानः । अथ नरपतीनां विशेषणानि - समन्तादिति । समन्तादेकवारं ससंभ्रमं त्वरितमुत्थितैः कृतोत्थानैः । किं कुर्वद्भिः । मुक्ताफलप्रकरान्मौक्तिकसमूहान्क्षरद्भिर्विकिरद्भिः । किंविशिष्टान् । परस्परं अन्योन्यं यः संघट्टः संमर्दस्तेन विघटितं त्रुटितं यद्धारसूत्रं तेन विगलितांश्च्युतान् । कानिव । अनवरतं निरन्तरमाशाविजयो दिग्विजयस्तदर्थं प्रस्थानं गमनं तस्मिन्मङ्गलस्य विघ्नवारकस्य या लीला विलासस्तस्य लाजानिवाक्षतानिव । मङ्गलनिमित्तं लीलया लाजाः प्रक्षिप्यन्त इति भावः । कैः क इवानुगतः । पारीति । कल्पपादपैर्देववृक्षरनुगतः पारिजात इव मन्दार इव । एतान् विशिनष्टि - सितेति । सितकुसुमानां श्वेतपुष्पाणां यानि मुकुलानि गुच्छानि तानि पातयन्त्येवंशीलास्तैः । ऐरावतेति । आशागजैर्दिग्गजैरनुगत ऐरावत इव श्वेतगज इव किंविशिष्टैः । विमुक्तेति । विमुक्तास्त्यक्ताः करेभ्यः शुण्डादण्डेभ्यः शीकराः पृषता यैः । गगनेति । दिगन्तरैर्दिशां विचालैरनुगतो गगनाभोग इव व्योमविस्तार इव । कीदृशैः । तारेति । ताराणां नक्षत्राणां गणः समूहस्तं वर्षन्तीत्येवंशीलास्तैः । जलदेति । जलधरैर्मेधैरनुगतो जलदकाल इव प्रावृट्समय इव । कीदृशैः । स्थूलेति । स्थूलाः स्थविष्ठा ये जललवाः पानीयबिन्दवस्तेषामासारो वेगवान्वृष्टिस्तं स्यन्दन्तीत्येवंशीलास्तैः । अत्र श्वेतत्वानुगत्वाभ्यां त्रिभिरप्यनुमानं बोध्यम् । अन्वयस्तु प्रागेवोक्तः ।
ततो निर्गत्य बहिरागत्य । चकारः पुनरर्थे । निर्गन्तुमिति । नितरामतिशयेन गन्तुं यातुमारेभ आरम्भं चकार । किं कृत्वा । संसंभ्रमेण वेगेनाधोरणा हस्तिपकास्तैरुपनीतामानीतां करेणुकां वशामारुह्यारोहणं कृत्वा । अथ करेणुकां विशिनष्टि - पूर्वेति । पूर्वारुढेति पूर्व प्रथममारुढयोपरिस्थितया पत्रलेखया ताम्बूलकरङ्कवाहिन्या ध्यासितमाश्रितमन्तरासनं नृपासनात्पृथगासनं यस्याः सा ताम् । उपेति । उपपादितो विहितः प्रस्थानसमुचितः - टिप्प० - 1 'मेरावैरावतेन' इति यदा पाठः स्वीकृतस्तदा 'मेरौ सुमेरुपर्वते ऐरावतेन गौरवसूचनार्थं प्रत्युद्गम्यमान इव' इति व्याख्यानमुचितम् । 2 'यमसद्मनि' इत्यपि पाठः, तत्रैव कृतान्तमहिषौचित्यात् केनचित् परिगृहीतः । 39. सोमः २. यमः ३. वरुणः ४. कुबेरः, इति चत्वारो दिशांपाला अत्र परिगृहीताः । 4 वेगवतीति तात्पर्यम् । 5 उपमानमित्यर्थः । पाठा० - १ इवैरावतेन. २ विबुधसमनि. ३ रवजनितरोषः; इव रोष. ४ यमसद्मनि. ५ त्रिभुवनमखिलम्. ६ विघट्टित. ७ मङ्गललीलाबीजानीव; मङ्गललाजानिव. ८ कुलूतेश्वरपुत्र्या
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
समध्यासित.
(दिग्विजयप्रस्थानम् ।
पूर्वभागः ।।
1241