________________
कारां ससंभ्रमाधोरणोपनीतां करेणुकामारुह्याचलरेचकचक्रीकृतक्षीरोदावर्तपाण्डुरेण दशवदनबाहुदण्डावस्थितकैलासकान्तिना मुक्ताफलजालिना शतशलाकेनातपत्रेण निवार्यमाणातपो निर्गन्तुमारेभे । निर्गच्छंश्चाभ्यन्तरावस्थित एव प्राकारान्तरितदर्शनानां प्रतिपालयतां राज्ञामुन्मयूखानां चूडामणीनामलैक्तकद्रवद्युतिमुषा बहलेनालोकबालातपेन राज्याभिषेकानन्तरप्रसृतेन स्वप्रतापवह्निनेवात्यर्थं पिञ्जरीर्क्रियमाणा दश दिशो यौवराज्याभिषेकजन्मना निजानुरागेणेव रज्यमानमवनितलमासन्नरिपुविनाशपिशुनेन दिग्दाहेनेव पाटलीक्रियमाणमम्बरतलमभिमुखागतभुवनतललक्ष्मीचरणालक्तकरसेनेव लोहितायमानातपं दिवसं ददर्श । विनिर्गतश्च संसंभ्रमप्रचलितगन्धगजघटासहस्त्रैरन्योन्यसंघट्टजर्जरितातपत्रमण्डलैरादरार्वनतमौलिशिथिलमणिमुकुटपङ्क्तिभिरावर्जितर्कर्णपूरैः कपोलस्थलस्खलितकुण्डलै राजाप्तसेनापतिनिर्दिश्ये
**
`प्रयाणयोग्यो मङ्गलं यातीति मङ्गल्योऽलंकारो भूषा यस्यां (स्याः) सा ताम् । अचलेति । अचलरेचको मन्दरभ्रमणं तेन चक्रीकृतश्चक्रतां प्रापितो यः क्षीरोदः क्षीरसमुद्रस्तस्यावर्ताः पयसां भ्रमास्तद्वत्पाण्डुरेण शुभ्रेण । दशेति । दशवदनो लङ्काधिपतिस्तस्य वा भुजदण्डास्तत्रावस्थितः कृतावस्थानो यः कैलासो रजताद्रिस्तद्वत्कान्तिः प्रभा यस्य स तेन । मुक्तेति । मुक्ताफलानां जालानि विद्यन्ते यस्मिन्स तेन । शतेति । शतसंख्याः शलाकाः स्वर्णनिर्मिता ईषिका यस्मिन्स तेनैवंविधेनातपत्रेण छत्रेण निवार्यमाणो दूरीक्रियमाण आतपः सूर्यालोको यस्य स तथा । अन्वयस्तु प्रागेवोक्तः । निरिति । निर्गच्छन्द्रजन्नभ्यन्तरावस्थित एव चन्द्रापीडः प्राकारान्तरितदर्शनानां वप्रव्यवहितदर्शनानां प्रतिपालयतां प्रतीक्षां कुर्वाणानां राज्ञां नृपाणामुदूर्ध्वं मयूखाः किरणा येषामेवंविधानां चूडामणीनां शिरोमणीनामालोकलक्षणो यो बालातपस्तेन दृढेन बहुलेनालक्तकद्रवद्युतिमुषालक्तकरसहारिणात्यर्थमतिशयेन पिञ्जरीक्रियमाणाः पीतरक्तीक्रियमाणा दश दिशः कर्म ददर्शालोकयामासेत्यन्वयः । अत्रोत्प्रेक्षते - राज्येति । राज्यस्य यौवराज्यस्य योऽभिषेकः स्नानं तस्यानन्तरं प्रसृतेन विस्तृतेन स्वप्रतापवह्निनेव स्वस्य स्वकीयस्य यः प्रतापः कोशदण्डजं तेजः स एव वह्निरग्निस्तेनेव । प्रतापस्य रक्तत्वात्तदनुमानम् । अथ च यौवराज्याभिषेकजन्मना यौवराज्यस्नानसमुद्भवेन निजानुरागेणेवात्मीयस्नेहेन रज्यमानं रक्तीक्रियमाणमवनितलं वसुधातलम् । अथ चासन्नः समीपवर्ती यो रिपुविनाशः शत्रुक्षयस्तस्य पिशुनेन सूचकेन दिग्दाहेनेव पाटलीक्रियमाणं श्वेतरक्तीक्रियमाणं अम्बरतलं व्योमतलम् । अभीति । अभिमुखा संमुखागता या भुवनतललक्ष्मीस्त्रिविष्टपश्रीस्तस्याश्चरणालक्तकः पादयावकस्तस्य रसेनेव लोहितायमानो रक्तवदाचरमाण आतप आलोको यस्यैवंभूतं दिवसं वासरं ददर्शेति पूर्वक्रियया संबन्धः । विनीति । विशेषेण निर्गतो बहिरागतः । च पुनरर्थकः । अवनिभुजां राज्ञां चक्रवालैः समूहैः प्रणम्यमानो नमस्क्रियमाणः । अथ राजकविशेषणानि ससंभ्रमेति । ससंभ्रमं सवेगं प्रचलितं प्रस्थितं गन्धगजानां गन्धेभानां घटासहस्त्रं येषां तैः । अन्योन्येति । अन्योन्यं परस्परं यः संघट्टः संमर्दस्तेन जर्जरितानि शिथिलीभूतान्यातपत्रमण्डलानि छत्रसमूहा येषां तैः । आदरेति । आदरेण गौरवेणावनता नम्रा ये मौलयः शिरांसि तेन शिथिलाः श्लथा मणिमुकुटानां रत्नकिरीटानां पङ्क्तयः श्रेणयो येषां तैः । आवर्जितेति । आवर्जितान्यानमितानि कर्णपूराणि कर्णाभरणानि येषां तैः । कपोलेति । कपोलस्थलाद्गल्लात्परप्रदेशात्स्खलितानि स्खलनां प्राप्तानि कुण्डलानि कर्णभूषणानि येषां तैः । राजेति । राज्ञो य आप्तः प्रत्ययितः सेनापतिः सैन्याध्यक्षस्तेन निर्दिश्यमानानि निवेद्यमानानि नामानि येषां तैः । पुनः कीदृशः । गन्धमादननाम्ना गजे
-
242
कादम्बरी ।
-
पाठा० - १ अधिरुह्य २ वक्रीकृत. ३ धवलप्राकार. ४ द्वारावस्थितानां प्रत्यपालयताम्. ५ अलक्तक इव. ६ क्रियमाणदशदिशः ७ गज ८ आदरादनवरतप्रणामशिथिलित. ९ रत्नकर्णपूरे, रत्नकर्णपूरैः. १० रत्नकुण्डलैः ११ आज्ञप्त, अज्ञात १२ निर्दिश्यमानानामवनि.
-
कथायाम्