________________
माननामभिरवनिभुजां चक्रवालैः प्रणम्यमानः, बहलसिन्दूररेणुपाटलेन क्षितितलदोलायमानमुक्ताकलापावचूलेन सितकुसुममालाजालशबलशिरसा संलग्नसंध्यातपेन तिर्यगावर्जितश्चेतगङ्गाप्रवाहेण तारागणदन्तुरितशिलातलेन मेरुगिरिणेव गन्धमादनेनानुगम्यमानः; कनकालंकारप्रभाकल्माषितावयवेन च दत्तकुङ्कुमस्थासेकेनेवोकृष्यमाणेनेन्द्रायुधेन सनाथीकृतपुरोभागः शनैः शनैः प्रथममेव शातक्रतवीमाशामभिप्रतस्थे ।
अंथ चलितगजधटाकम्पितातपत्रवनमनेककल्लोलपरम्परापतितचन्द्रमण्डलप्रतिबिम्बसहस्त्रं महाप्रलयजलधिजलमिव प्लावितमहीतलमद्भुतोद्भूतकलकलमखिलं संचचाल बलम् । उच्चलि -
*********** न्द्रेणानुगम्यमानोऽनुव्रज्यमानः । अथ गजं विशेषयन्नाह - बहलेति । बहलो निबिडो यः सिन्दूररेणुः श्रृङ्गारभूषणधूलिस्तेन पाटलेन श्वेतरक्तेन । गजस्य सिन्दूरभूषणमिति सर्वप्रसिद्धिः । गजशोभान्तरमाह - क्षितीति । क्षितितलं पृथ्वीतलं यावद्दोलायमानः कम्पमानो यो मुक्ताकलापो मौक्तिकप्रकरस्तदेवावचूलं कर्णाभरणं यस्य स तथा । प्रस्थानसमये सर्वत्र गजस्येष्टत्वात् । अलंकारान्तरमाह - सितेति । सितं यत्कुसुममालाजालं पुष्पस्त्रक्समूहस्तेन शबलं कर्बुर शिरो यस्य स तेन । अत्रोत्प्रेक्षते - मेविति । मेरुर्मन्दरः स चासो गिरिश्चेति कर्मधारयः । तत्सदृशेनेव । उच्चत्वसाम्यादस्य मेरुसाम्यमित्यर्थः । विशेषणत्रयेण मेरोरपि गन्धमादनसाम्यं प्रदर्शयन्नाह - संलग्नेति । संलग्नः संश्लिष्टः संध्यातपो यस्मिन् । एतेन सिन्दूरसादृश्यम् । तिर्यगिति । तिर्यगावर्जितः प्रवर्तितः श्वेतगङ्गाप्रवाहो यस्मिन् । एतेन मुक्ताकलापसाम्यम् । तारेति । तारागणेन नक्षत्रवृन्देन दन्तुरितं विषमितं शिलातलं यस्मिन् । एतेन सक्साम्यम् । पुना राजानं विशेषयन्नाह - इन्द्रायुधेति । इन्द्रायुधेनाश्चरत्नेन सनाथीकृतः सहितः पुरोभागोऽग्रभागो यस्य स तथा । अथाश्चं विशेषयन्नाह - कनकेति । कनकस्य सुवर्णस्य योऽलंकारस्तस्य प्रभा कान्तिस्तया कल्माषिताः कर्बुरिता अवयवा अपघना यस्य स तेन । अत्रोत्प्रेक्षते - दत्तेति । दत्ताः कुङ्कुमस्य किञ्जल्कस्य स्थासका हस्तबिम्बा यस्यैवंविधेनेव । कीदृशेन । इन्द्रायुधेनाकृष्यमाणेन । अश्वपालकेनेति शेषः । एतेनास्याग्रयानत्वं सचितमिति भावः । शनैःशनैर्मन्दमन्दं प्रथममेवादावेव शातक्रतवीं शतक्रतोरियं शातक्रतवी तां प्राचीमभिप्रतस्थे । तस्या अभिमुखं चचालेत्यर्थं । तदनन्तरं बलं सैन्यं संचचाल । सम्यक्प्रकारेण चलितं बभूवेत्यर्थः ।
अथ बलं विशेषयन्नाह - चलितेति । चलिता गन्तुं प्रवृत्ता या गजघटा हस्तिसमुदायस्तया कम्पितानि धूतान्यातपत्राणि छत्राणि यस्मिंस्तत् । कीदृशम् । प्लावितेति । प्लावितं प्रलयं नीतं महीतलं येन तत् । गजानां कृष्णत्वसाम्यात्समन्ततः प्रसरणसाम्याच्चोपमानान्तरमाह - महेति । महाप्रलयो महाकल्पान्तस्तस्मिन्यो जलधिः समुद्रस्तस्य जलं पानीयं तद्वदिव । अथ जलं विशिनष्टि - अनेकेति । अनेके संख्यातीता ये कल्लोलास्त रङ्गास्तेषां परम्पराः पङ्क्तिविस्तारास्तासु पतितं प्रतिबिम्बितं संक्रान्तं चन्द्रमण्डलस्य शशिमण्डलस्य प्रतिबिम्बसहस्त्रं प्रतिच्छायसहस्त्रं यस्मिन् । अत्रातपत्राणां वर्तुलत्वस्वच्छत्वसाम्याच्चन्द्रप्रतिबिम्बसाम्यम् । एतदपि प्लावितमहीतलम् । अद्भुतेति । अद्भुतोद्भूत अधादप्याश्चर्यकारी कलकलः कोलाहलो यस्मिन् । एतच्चोभयत्र साम्यम् । उच्चेति । अथोत्याबल्येन चलितस्य कृतप्रयाणस्यास्य राज्ञश्चन्द्रापीडस्य । अत्र चकारोऽधिकारान्तरसूचकः । वैशम्पायनः समीपं पार्थमाजगामाययौ । कया त्वरितपदसंचारिण्या शीध्रचरणगामिन्या करिण्या हस्तिन्या - टिप्प० - 1 अद्भुतः आश्चर्यकारी उद्भूतः उत्पन्नः कलकलरवो यस्मिंस्तत् ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० -१ स्थूलमुक्ता. २ शिखरशिलातलेन. ३ प्रभाप्रतान; घटप्रतान. ४ परार्धेन. ५ स्थानकेन. ६ आकृष्यमाणेनेव. ७ पुरोभागः प्रथमम्. ८ चलित. ९ धवलातपत्रमनेक. १० सकलम्.
दिग्विजयप्रस्थानम्
पूर्वभागः ।।
243