SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ तस्य चास्य स्वभवनादुपपादितप्रस्थानमङ्गलो धवलदुकूलवासाः सितकुसुमाङ्गरागो महता बलसमूहेन नरेन्द्रवृन्दैश्चानुगम्यमानो धृतधवलातपत्रो द्वितीय इव युवराजस्त्वरितपदसंचारिण्या करिण्या वैशम्पायनः समीपमाजगाम । आगत्य च शशिकर इव स्वेरासन्नवर्ती बभूव । अनन्तरमितश्चेतश्च 'निर्गतो युवराजः' इति समाकर्ण्य प्रधावतां बलानां भरेण चलितकुलशैलकीलितजलधिजलतरङ्गगतेव तत्क्षणमाचकम्पे मेदिनी संमुखागतैरन्यैश्चान्यैश्च प्रणमद्भिभूमिपालैः । अंशुलताजालजटिलचूलिकानां मणिमुकुटानामालोकेनोन्मिषितबहुलरोचिषां च पत्रभङ्गिनीना केयूरमण्डलीनां प्रभासंतानेन क्वचिद्विकीर्यमाणचाषपक्षक्षोदा इव, क्वचिदुत्पतितशिखिकुलचलच्चन्द्रकशतशारा इव, क्वचिदकालजलधरतडित्तरला इव, क्वचित्सकल्पतरुपल्लवा इव, क्वचित्संशतक्रतुचापा इव, क्वचित्सबालातपा इव - *********** करणभूतयेत्यर्थः । स्वेति । स्वभवनानिजगृहादुपपादितं विहितं प्रस्थानमङ्गलं गमनमङ्गलं येन सः धवलेति । धवलं घेतं दुकूलमेव वासो वस्त्रं यस्य सः । सितेति । सितकुसुमैः श्वेतपुष्पैरङ्गरागः शरीरशोभा यस्य स तथा । सितकुसुमवदङ्गरागो विलेपनं यस्येति वा । महता महीयसा बलसमूहेन सैन्यसंधातेन नरेन्द्रवृन्दैश्च राजसमूहैश्चानुगम्यमानोऽनुव्रज्यमानः । धृतेति । धृतं शिरसि धारित धवलं वेतमातपत्रं छत्रं येन सः । द्वितीय इवापर इव युवराजः । आगत्याभ्येत्य । चकारः पुनरर्थकः । आसन्नवर्ती समीपवर्ती बभूव संजज्ञे । कस्य क इव । यथा रखेः सूर्यस्य शशिकरश्चन्द्रः समीपगो भवति । अत्र शशिकर इवेति कथनाद्वैशम्पायनस्य कुमारापेक्षया शोभायामपकर्षः सूचितः । युक्तोऽयमर्थः । अमावास्यायां सूर्यनिकटे चन्द्रस्य न्यूनतैव भवतीति भावः अथवेतश्चेतश्च निर्गतो युवराज इति लोकोक्त्या समाकर्ण्य श्रवणविषयीकृत्य प्रधावतां धावनं कुर्वतां बलानां सैन्यानां भरेण समुदायेन संमुखागतैरभिमुखायातैः प्रणमद्भिः प्रणामं कुर्वद्भिः अन्यैश्चान्यैश्च भिन्नभिन्नदेशोद्भवैश्च भूमिपालैर्नृपतिभिः कृत्वा तत्क्षणं तत्कालं मेदिनी पृथ्याचकम्पे चचाल । कीदृशीव । चलितेति । चलिताः कम्पिता ये कुलशैलाः क्षेत्रमर्यादाकारिणो नगास्तैः कलितो यन्त्रितो यो जलधिः समुद्रस्तस्य जलं पानीयं तस्य तरङ्गाः कल्लोलास्तत्र गतेव प्राप्तेव । अंशुलतेति । अंशुलतानां किरणश्रेणीनां जालं समूहस्तेन जटिला व्याप्ता चूलिका प्रान्तभागो येषामेवंविधानां मणिमुकुटानां रत्नकिरीटानामालोकेन प्रकाशेन । उन्मिषितेति । उन्मिषिता विकास प्राप्ता बहुला दृढा रोचिषः कान्तयो यासु तासाम् । पत्रेति । पत्रभङ्गा रचनाविशेषा विद्यन्ते यास्वेवंविधानां केयूरमण्डलीनामङ्गदश्रेणीनां प्रभासंतानेन च कान्तिसमूहेन चैवविधा दश दिशो दश ककुभः क्रियन्ते विधीयन्त इत्यन्वयः । तदाह - क्वचिदिति । क्वचित् कस्मिंश्चिप्रदेशे विकीर्यमाणा विक्षिप्यमाणाश्चाषाणां किकीदिवीनां पक्षक्षोदाः पिच्छचूर्णानि यास्वेवंविधेषु । क्वचिदिति । क्वचित् उत्पतितमुड्डीनं यच्छिखिकुलं नीलकण्ठसमुदायस्तस्य ये चलन्तो दीप्यमानाश्चन्द्रका मेचकास्तेषां शतं तेन शाराः कर्बुरा इव । 'शारः शबलवातयोः' इत्यनेकार्थः । क्वचिदिति । क्वचित् अकालेऽनवसरे यो जलधरो मेघस्तस्य तडिद्विद्युत्तया तरला इव पारिप्लया इव । क्वचिदिति । क्वचित् कल्पतरुणां देववृक्षाणां पल्लवाः किसलयास्तैः सह वर्तमानेवें । क्वचिदिति । क्वचित् शतक्रतुरिन्द्रस्तस्य चापं धनुस्तेन सह वर्तमानेव । क्वचिदिति । क्वचित् बालातपः प्रभातकालीनसूर्यालोकस्तेन सह वर्तमानेव । तथा राज्ञां धवला - - - - - - - - - - - टिप्प० -1 अत्र 'रजनिकर' इति पाठघटना व्याकरणसंगता, लिपिकृताऽयं पाठो दूषितः संभाव्यत इति । 2 'इवाऽक्रियन्त' इत्यपि । प्रमाण च सहृदयहदयम् । 3 एवंविधा इत्यप्युचितम् । 4 वर्तमाना इव इत्युचितम् । एवमग्रेपि । - - - - - - - - - - - - - - - - पाठा० - १ दुकूलवासाः; धवलवासाः. २ अनुरज्यमान. ३ समाजगाम. ४ रजनिकरः. ५ शैलकैलासजलधितरङ्ग. ६ अन्यैश्च. ७ पत्रभङ्गीनाम्. ८ सशतयज्ञ; शतयज्ञ. 244 कादम्बरी। कथायाम्
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy