________________
क्रियन्ते दश दिशः । धवलान्यपि विविधमणिनिकरकल्माषैरुत्सर्पिभिश्चूडामणिमरीचिभिर्मायूराणीव रोजन्ते राज्ञामातपत्राणि । क्षणेन च तुरगमयमिव महीतलम्, कुञ्जरमयमिव दिक्चक्रवालम्, आतपत्रमण्डलमयमिवान्तरिक्षम्, ध्वजवनमयमिवाम्बरतलम्, इभमदगन्धमय इव समीरणः, भूपालमयीव प्रजासृष्टिः, आभरणांशुमयीव दृष्टिः, किरीटमय इव दिवसः, जयशब्दमयमिव त्रिभुवनमभवत् ।
सर्वतश्च कुलपर्वताकारैः प्रचलद्भिर्मत्तवारणैः, उत्पातचन्द्रमण्डलनिभैश्च प्रेङ्खद्भिरातपत्रैः संवर्तकाम्भोदगम्भीरभीमनादेन च ध्वनता दुन्दुभिना, तारकावर्षसदृशेन विसर्पता गजसीकरनिकरेण, धूमकेतुधूसरैश्चोल्लसद्भिरवनिरजोदण्डकैः, निर्घातपातपरुषगम्भीरघोषैश्च करिकण्ठगर्जितैः, क्षतजकणवर्षबभ्रुणा च भ्रमता मतङ्गजकुम्भसिन्दूररेणुना, संक्षुभितजलधिजलकल्लोलचञ्चलाभिश्च प्रविसर्पन्तीभिस्तुरङ्गममालाभिः, अन्धकारितदि -
***********
न्यपि श्वेतान्यप्यातपत्राणि । विविधेति । विविधानामनेकप्रकाराणां मणीनां. निकराः समूहास्तैः कल्माषैः शबलैरुत्सर्पिभिः प्रसरद्भिश्चूडामणिमरीचिभिः शिरोमणिकान्तिभिर्मायूराणीव मयूरपिच्छनिर्मितानीव राजन्ते शोभन्ते । क्षणेन समयमात्रेणैतादृशमभवदजायत । तदेवाह तुरगेति । तुरगा अश्वास्तन्मयमिव महीतलं पृथ्वीतलम् । कुञ्जरा हस्तिनस्तन्मयमिव दिक्चक्रवालं ककुभां मण्डलम् । आतपत्राणि छत्राणि तेषां मण्डलं तन्मयमिवान्तरिक्षमाकाशम् । ध्वजा वैजयन्त्यस्ता एव वनमरण्यं तन्मयमिवाम्बरतलमाकाशतलम् । इभा हस्तिनस्तेषां मदगन्धो दानवारिपरिमलस्तन्मय इव समीरणो वायुः । भूपाला राजानस्तन्मयीव प्रजासृष्टिः प्रकृतिसृष्टिः । आभरणानि तेषामंशवः किरणास्तन्मयीव दृष्टिश्चक्षुः । किरीटानि कोटीराणि तन्मय इव दिवसो वासरः । जयशब्दो मागधानां शुभसूचकः शब्दस्तन्मयमिव त्रिभुवनं त्रिविष्टपम् । सर्वतश्च वक्ष्यमाणेन प्रकारेण महाप्रलयकाल इव कल्पान्तसमय इव संजज्ञे समभूत् । तदेव दर्शयन्नाह - कुलपर्वतेति । सर्वतः सर्वक्षु प्रचलद्भिर्गच्छद्भिर्मत्तवारणैर्मदकलैर्हस्तिभिः । कीदृशैः । कुलपर्वताः सप्तकुलाचलास्तद्वदाकार आकृतिर्येषां तैः । अत्युच्चत्वसाम्यात्कल्पान्ते कुलाचलानामपि चलनसद्भावाच्च समग्रसाम्यमिति भावः । तथा । उत्पातेति । उत्पातकाले बहूनि चन्द्रमण्डलानि भवन्ति क्षतजकणवर्षाश्चेत्यत आह - तत्समयेति । तत्समयवतीनि यानि चन्द्रमण्डलानि शशिमण्डलानि तन्निभैस्तत्सदृशैरेवंविधैः प्रेङ्खद्भिः प्रचलद्भिरातपत्रैश्छत्रैश्च । तथा संवर्तकाम्भोदो लोकक्षयकारी मेघस्तद्वद्गम्भीरो भीमश्च नादो यस्यैवंविधेन ध्वनता शब्दं कुर्वता दुन्दुभिना पटहेन च । तथा तारकावर्षो नक्षत्रवृष्टिस्तत्सदृशेन तदनुकारिणा विसर्पता प्रसरणशीलेन गजानां हस्तिनां सीकरनिकरेण शुण्डानिः सृतजलपृषत्समूहेन । तथा धूमकेतुर्ग्रहविशेषस्तद्वद्धूसरैर्धूम्रैरुल्लसद्भिरुल्लासं गच्छद्भिरवनिरजोदण्डकैरवनेर्वसुंधराया रजोदण्डैर्धूलिदण्डैः । आयतत्ववर्तुलत्वाभ्यां दण्डसाम्यम् । निर्घातो वज्रं तस्य पातः पतनं तद्वत्परुषः कठोरो गम्भीरो बहुकालस्थायी घोषः शब्दो येषामेवंविधैः करिकण्ठगर्जितैर्गजशब्दैश्च । क्षतजं रुधिरं तस्य कणा बिन्दवस्तेषां वर्षो वृष्टिस्तद्वद्बभ्रुणा कडारेण मतङ्गजा हस्तिनस्तेषां कुम्भाः शिरसः पिण्डास्तेषां यः सिन्दूररेणुर्नागजधूलिस्तेन भ्रमता प्रसर्पता च । तथा संक्षुभितः क्षोभं प्राप्तो यो जलधिः समुद्रस्तस्य जलं पानीयं तस्य कल्लोलास्तरङ्गास्तद्वच्चञ्चलाभिस्तरलाभिः प्रविसर्पन्तीभिः प्रकर्षेण विस्तारं प्राप्नुवतीभिस्तुरङ्गममालाभिः । तथान्धकारितं संजातान्धकारं
दिगन्तरं
-
9
दिग्विजयप्रस्थानम्
टिप्पo - 1 अराजन्त इत्यपि पाठः, भूतकालक्रियया 'त्रिभुवनमभवत्' इत्यनया सह सामञ्जस्यात् । 2 'चामरमय इव' इत्यपि कस्यचन संमतः पाठः । ऊर्ध्वं प्रस्फुरद्भिश्चामरैरेव दिवसस्य तन्मयतौचित्यात् ।
पाटा० - १ अक्रियन्त. २ अरज्यन्त ३ वृष्टिः ४ आतपः; चामरमय इव दिवस. ५ शतसितातपत्रैः ६ विसर्पन्तीभिः ७ तुरङ्ग.
पूर्वभागः ।
-
245