________________
गन्तरेण चानवरतं क्षरता मैदजलधारादुर्दिनेन, कलकलेन च भुवनान्तरव्यापिना महाप्रलयकाल इव संजज्ञे । बलकोलाहलभीता इव धवलध्वजनिवहनिरन्तरावृता ययुः क्वापि दश दिशः । मलिनावनिरजःसंस्पर्शशङ्कितमिव समदगजघटावचूलसहस्त्रसंरुद्धमतिदूरमम्बरतलमपससार । प्रबलवेत्रिवेत्रलतासमुत्सार्यमाणा इव तुरगखुररजोधूसरताभीतार्ककिरणा मुमुचुः पुरोभागम् । इभकरसीकरनिर्वापणत्रस्त इवातपत्रसंच्छादितातपो दिवसो ननाश । बलभरजर्जरीकृता मदकलकरिचरणशतखण्डिता द्वितीयेव प्रयाणभेरी भैरवं भूमी ररास । गुल्फद्वयसे च तुरङ्गमु खविनिःसृतसितफेनपल्लविते मदपयसि मदसुतां क -
***********
येनेवंविधेनानवरतं निरन्तरं क्षरता सवता मदजलधारा दानवारिधारा तदेव दुर्दिन मेघनं तमस्तेन । तथा भुवनान्तरव्यापिना विष्टपविवरप्रसरशीलेन । महाप्रलयेऽप्येतद्धर्माणां सद्भावात् । कलकलेन । सैन्येऽपि तद्दर्शनादुपमानोपमेयभावः । बलेति । बलस्य सैन्यस्य यः कोलाहलः कलकलस्तेन भीता इव वस्ता इव दशसंख्याका दिशः ककुभः क्वाप्यनिर्दिष्टस्थले ययुगताः । किंविशिष्टाः । धवलाः श्वेता ये ध्वजनिवहा वैजयन्तीगणास्तैर्निरन्तरं सर्वदावृता आच्छादिताः दिग्गमनेऽयमेव हेतुरिति भावः । मलिनेति । मलिनं यदवनिरजस्तस्य यः संस्पर्शः संश्लेषस्तस्माच्छङ्कितमिवारेकीकृतमिवातिदूरमतिदविष्ठमम्बरतलं व्योमतलमपससारापसृतं बभूव । अत्रार्थे हेतुगर्भित विशेषणमाह - समदेति । मदेन सह वर्तमाना या गजघटानेकपसमूहस्तस्य अवचूलसहस्त्रं कर्णाभरणसहस्त्रं तेन संरुद्धं संच्छन्नम् । अत्र गजातिशयत्वं व्यङ्ग्यम् । प्रबलेति । प्रबलाः प्रकृष्टबलयुक्ता ये वेत्रिणो द्वारपालकास्तेषां वेत्रलता वेतसयष्टयस्ताभिः समुत्सार्यमाणा इव दूरीक्रियमाणा इव । तुरगेति । तुरगाणामश्चानां खुररजः शफधूलिस्तेन या धूसरतेषत्पाण्डुता तया भीता इवार्ककिरणाः सूर्यरश्मयः पुरोभागमग्रभागं मुमुचुस्तत्यजुः । अनेन तुरङ्गाणां भूयस्त्वं वेगातिशयः खुरनिक्षेपशक्तिविशेषश्च व्यज्यते । इभेति । इभा हस्तिनस्तेषा करसीकराः शुण्डादण्डोद्गतजलपृषतास्तैर्निर्वापणमपनयनं तेन त्रस्त इव चकित इव । आतपत्रेति । आतपत्रैश्छत्रैः संच्छादित आतपो रविप्रकाशो यस्मिन्नेवंभूतो दिवसो ननाश नाशं प्राप्तवान् । बलेति । बलभरेण सैन्यभारेण जर्जरीकृताः श्लथीकृता मदेन कला मनोहरा ये करिणो हस्तिनस्तेषां चरणशतमङ्घ्रिशतं तेन खण्डिता भिन्ना द्वितीयापरा प्रयाणभेरीव प्रस्थानदुन्दुभिरिव भैरवं कठोरं भूमिर्वसुधा ररास शब्दं चकार । शब्दविशेषजनकत्वसाम्यादुत्प्रेक्षा । 'रस शब्दे इति धातोलिटि रुपम् । मदेति । मदसुतां दानवारि क्षरता करिणां गजानां मदपयसि पदे पदे पदातयः पत्तयः प्रचस्खलुः प्रस्खलनं प्रापुः । अथ मदपयो विशिनष्टि - गुल्फद्वयसे चरणग्रन्थिपरिमिते । अत्र प्रमाणे द्वयसच् । तुरङ्गेति । तुरङ्गमुखेभ्योऽश्वव -
पाठा० - १ अनवरत. २ गजमद. ३ बलहबल; बहलबल. ४ मलिनीकृतमिव. ५ अम्बरम्. ६ प्रचलितवेत्र; प्रचुरवेत्र. ७ धूसरमर्कः; धूसरताभीता इवार्क. ८ सीकरनिकर. ९ बहलवल. १० संचरण. ११ संताडिता; ताडिता. १२ पल्वले.
सार
246
कादम्बरी।
कथायाम