________________
रिणां प्रचस्खलुः पदे पदे पदातयः । हरितालपरिमलनिभेन चातिपटुना गजमदामोदेनानुलिप्तस्य सामजस्येव समुपययो निखिलान्यगन्धग्रहणसामर्थ्य घ्राणेन्द्रियस्य । क्रमेण च प्रसर्पतो बलस्य पुरः प्रधावतां जनकदम्बकानां कोलाहलेन, तारतरदीर्घेण च काहलानां निनादेन, खुररवविमिश्रेण च वाजिनां हर्षहेषारवेण, अनवरतकर्णतालस्वरसंपृक्तेन च दन्तिनामाडम्बररवेण, ग्रैवेयककिङ्किणीक्वर्णितानुसृतेन च गतिवंशाद्विषमविरागिणीनां घण्टानां टङ्क्तेन, मङ्गलश
ङ्खशब्दसंवर्धितध्वनीनां च प्रयाणपटहानां निनादेन, मुहुर्मुहुरितस्ततस्ताड्यमानानांच डिण्डिमानां निस्वनेन जर्जरीकृतश्रवणपुटस्य मूर्छवाभवज्जनस्य । शनैः शनैश्चबलसंक्षोभजन्मा क्षितेरनेकवर्णतया क्वचिज्जीर्णशफरक्रोडधूम्रः, क्वचित्क्रमेलक -
***********
दनेभ्यो विनिःसृता बहिरागताः सितफेनाः श्वेतकफास्तैः पल्लविते विस्तारं प्राप्ते । हरीति । हरितालस्य पिज्जरस्य यः परिमलो गन्धस्तस्य निभेन सदृशेनातिपटुनातिस्पष्टेन गजमदामोदेन करिदानवारिपरिमलेन चानुलिप्तस्य व्याप्तस्य घ्राणेन्द्रियस्य नासिकाकरणस्य निखिलान्यग्रहणसामर्थ्य समग्रापरग्रहणशक्ति समुपययौ । दूरीभूतमित्यर्थं : कस्येव । सामजस्येव मतङ्गजस्येव । यथा तदनुलिप्तत्वेन तस्यान्यग्रहणसामN न भवति तथेत्यर्थं । यथा नानारसशष्कुल्यादिस्थले सकलसमुदायवशानैकस्यापि रसविशेषस्य ग्रहो रसनेनैवं तादृशसमुदायद्वन्द्वयत्कुष्ठाईकनिम्बूफलरसमवधाने च रसनेन सकलान्यरसग्रहो भवत्ययमुत्कर्षः । आर्द्रकरसादेस्तथैव घ्राणेन्द्रियस्य नानासुगन्धद्रव्यसनिधानदोषवशान्नैकस्यापि गन्धविशेषस्य धूपग्रहणसामर्थ्यम् । एवं तादृशोक्तगजमदामोदेनानुलिप्तस्य घ्राणस्यातीतान्यगन्धग्रहणसामर्थ्यमभवदित्यर्थः । अथ चैतैः कृत्वा जनस्य लोकस्य मूर्छव मोह इवाभवदित्यन्वयः । तानेवाह - क्रमेति । क्रमेण परिपाट्या प्रसर्पतो गच्छतो बलस्य सैन्यस्य पुरोऽग्रे प्रधावतां शीघ्र प्रचलतां जनकदम्बकानां लोकसमुदायानां कोलाहलेन कलकलेन । तथा तारतरदीर्धेणोत्तरमधिकता प्राप्तेन काहलानां वाद्यविशेषाणां निनादेन शब्देन । तथा खुरवाः शफस्वनास्तैर्विमिश्रेण संपृक्तेन वाजिनां तुरङ्गाणां हर्षहेषारवेण हर्षः प्रमोदस्तेन या हेषा हेषा तस्या रवः शब्दस्तेन । तथा अनवरतं निरन्तरं कर्णतालस्य यः स्वरः शब्दस्तेन संपृक्तेन दन्तिनां हस्तिनामाडम्बरैरवेण । पृष्ठे मुखे दन्तयोश्च नानाश्रृङ्गारभूषणरवेणेत्यर्थः । दन्तिनं विशेषयन्नाह - ग्रैवेयकेति । ग्रैवेयकं कण्ठाभरणं तस्य किङ्किण्यः क्षुद्रघण्टिकास्तासां क्वणितं शब्दितं तेनानुसृतेनानुगतेन । तथा । गतीति । गतिवशाद्गमनवशाद्विषमोऽसदृशो विरावः शब्दो यासामेवविधानां घण्टाना भूषणविशेषाणां टङ्कृतेन टणत्कारशब्देन तथा । मङ्गलेति । मङ्गलार्थं श्रेयोऽर्थं ये शङ्खशब्दास्तै संवर्धिता वृद्धिं प्राप्ता ध्वनयो येषामेवंविधानां प्रयाणपटहानां प्रस्थानदुन्दुभीनां निनादेन नि?षेण । तथा मुहुर्मुहुरिवारमितस्ततस्ताङ्यमानानां डिण्डिमानां पटहविशेषाणां निःस्वनेन शब्देन । कीदृशस्य जनस्य । पूर्वोक्तैर्जर्जरीकृत श्लथीकृतं श्रवणयोः कर्णयोः पुटं यस्य स तथा तस्य । अन्वयस्तु प्रागेवोक्तः । शनैः शनैर्मन्दं मन्दम् । बलेति । बलेन सैन्येन यः संक्षोभः संमर्दस्तस्माज्जन्मोत्पत्तिर्यस्यैवंभूतो रेणू रज उत्पपातोय जगाम । क्षितेरिति । क्षितेः पृथिव्या अनेके ये वर्णाः चेतादयस्तेषां भावस्तथा तया । रेणोरप्यनेकवर्णता प्रदर्शयन्नाह - क्वचिदिति । क्वचित् क्वचितप्रदेशे जीर्णो जरीयान्यः शफरो मत्स्यस्तस्य क्रोड उपरिभागस्तद्वधूम्रो धूसरः । क्वचिदिति । क्वचित् कस्मिंश्चित्प्रदेशे क्रमेलक - - - - - - - - - - - - - - - - - - टिप्प० -1 प्रबलगन्धाकृष्टस्य घ्राणस्य तदपेक्षया दुर्बलगन्धानांग्रहणं न भवतीत्याशयः । ततश्च नानारसशष्कुल्यादि० इति टीकाकृतो विस्तरो बालबोधप्रदः । 2 ‘सामजस्तु गजे पुंसि सामोत्थे पुनरन्यवत् इति मेदिनी । 3 विशालेन हितध्वनिना ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ अपययौ; उपययौ; समाययो. २ हेषारवेण. ३ स्वन; रख. ४ अनुगृहीतेन. ५ वशविषम. ६ द्विरदडिण्डिमानाम्. ७ सदृशाः.
(दिग्विजयप्रस्थानम्
पूर्वभागः ।
- 247)