________________
सटासंनिभः, क्वचित्परिणतरल्लकरोमपल्लवमलिनः, क्वचिदुत्पन्नातन्तुपाण्डुरः, क्वचिज्जरठमृणालदण्डधवलः, क्वचिज्जरत्कपिकेशकपिलः, क्वचिद्धरवृषभरोमन्थफेनपिण्डपाण्डुरः, त्रिपथगाप्रवाह इव हरिचरणप्रभवः, कुपित इव मुञ्चन्क्षमाम्, आरब्धपरिहास इव रुन्धन्नयनानि, तृषित इव पिबन्करिकरसीकरजलानि, पक्षवानिवोत्पतनगगनतलम्, अलिनिवह इव चुम्बन्मदलेखाम्, मृगपतिरिव रचयन्करिकुम्भस्थलीषु पदम्, उपात्तविजय इव गृह्णन्पताकाम्, जरागम इव पाण्डुरीकुर्वशिरांसि, मुद्रयन्निव पक्ष्माग्रसंस्थितो दृष्टिम्, आजिघ्रनिव मकरन्दमधुबिन्दुपङ्कलग्नः कर्णोत्पलानि, मदकलकरिकर्णतालताडनत्रस्त इव विशन्कर्णशङ्खोदरविवराणि, पीयमान इवोन्मुखीभिरवनिपतिमुकुटमणिपत्रभङ्गमकरिकाभिः, अभ्यर्च्यमान -
***********
उष्ट्रस्तस्य सटा जटास्ताभिः संनिभः सदृशः । क्वचिदिति । क्वचित् परिणतः पक्ववया यो रल्लको हुण्डस्तस्य रोमपल्लवस्तनूरुहकिसलयस्तद्वन्मलिनः कृष्णः । क्वचिदिति । क्वचित् उत्पन्नः समुद्भूतो य ऊर्णातन्तुर्जालकारकस्तद्वत्पाण्डुरः श्वेतरक्तः । क्वचिदिति । क्वचित् जरठो दीर्घकालीनो यो मृणालदण्डो बिसदण्डस्तद्वद्धवलः शुभ्रः । क्वचिदिति । जरज्जरीयान्यः कपिर्वनौकास्तस्य केशा अलकास्तद्वत्कपिलः पिङ्गलः । क्वचिदिति । क्वचित् वरः प्रधानो यो वृषभो बलीवर्दस्तस्य रोमन्थश्चर्वितचर्वणं तस्मिन्यः फेनपिण्डः कफपुञ्जस्तद्वत्पाण्डुरः श्वेतरक्तः । कीदृशः त्रिपथगा गङ्गा तस्याः प्रवाहः सोतस्तद्वदिव हरिचरणप्रभवः । हरयोऽश्वा विष्णुश्च । कुपित इव कोपं प्राप्त इव । किं कुर्वन् । क्षमा पृथ्वीं मुञ्चस्त्यजन् । पक्षे क्षमा शान्तिम् । आरब्धेति । आरब्धः प्रस्तुतः परिहासो हास्य येनैवविध इव । किं कुर्वन् । नयनानि लोचनानि रुन्धन्नाच्छादयन्, उपहासकारिणो लोचनाच्छादनं लोकेऽपि प्रसिद्धम् । तृषित इव पिपासित इव करिणां हस्तिनां करसीकरजलानि शुण्डादण्डोद्गतवातास्तवारीणि पिबन्पानं कुर्वन् । अदृश्यता प्रापयन्नित्यर्थं । पक्षेति । पक्षवानिव गरुत्मानिव । तत्कृत्यमाह - उदिति । गगनतलमाकाशतलमुत्पतन्गच्छन् । उभयोरेकधर्मत्वात्तदुपमानम् । अलीति । अलीना भ्रमराणां निवहः समूहस्तद्वदिव । किं कुर्वन् । मदलेखां दानरेखा चुम्बं श्रुम्बनं कुर्वन् । चुम्बनस्य संस्पर्शविशेषत्वात्तदुपमानम् । मृगेति । मृगपतिः सिंहस्तद्वदिव किं कुर्वन् । करिकुम्भस्थलीषु गजशिरसः पिण्डस्थलीषु पदं स्थानं चरणं वा रचयन्विदधत् । उपात्तेति । उपात्तः स्वीकृतो विजयो दस्युक्षयरुपो येन स तद्वदिवपताकां वैजयन्तीं गृह्णनाददन् । जरेति । जरा विससा तस्या आगमस्तद्वदिव । तत्कृत्यमाह - शिरांस्युत्तमाङ्गानि पाण्डुरीकुर्वञ्श्वेतीकुर्वन् । शुक्लतापादनसाधाज्जराया उपमानम् । मुद्रयन्निति । पक्ष्म नेत्ररोम
सोनगमंस्थितस्तत्परोवती दृष्टिं मुद्रयन्निव संकोचयन्निव । मकरन्देति । मकरन्दो मरन्दस्तस्य मधु रसस्तस्य बिन्दुपङ्कः पृषत्कर्दमस्तत्र लग्नः संयुक्तः कर्णोत्पलानि श्रोत्रकुवलयान्याजिघ्रन्निव गन्धं गृह्णन्निव । मदेति । मदेन दानवारिणा कला मनोज्ञा ये करिणो हस्तिनस्तेषां कर्णतालास्तैस्ताडन प्रहाप्रदानं तेन त्रस्त इव भीत इव । कर्णाः श्रोताः, शङ्खो भालश्रवोन्तरम्, तेषामुदरविवराणि मध्यच्छिद्राणि विशन्प्रविशन् । उन्मुखीभिरिति । उन्मुखीभिरुर्ध्वमुखीभिरवनिपतयो राजानस्तेषां मुकुटाः - ।
- - - - -- - - - - टिप्प० -1 हरिणविशेषः । “रल्लकः कम्बले स्मृतः । तथैव कम्बलमृगे" इति हैमः । 2 'पत्रोणतन्तुपाण्डुरः' इत्यपि पाठः । पत्रसंबन्धिनी (लकुचादिपत्रेषु ऊर्णाया उत्पन्नत्वात्) ऊर्णा यत्र तत्पत्रोर्णम्, परिष्कृतकौशेयवस्त्रं तस्य तन्तुवत् पाण्डुरः । 'पत्रोर्णं धौतकोषेयम्' इत्यमरः ।
-
--
-
-
--
-
-
-
-
-
-
-
-
-
-
-
-
--
-
पाठा० - १ घटा. २ पत्रोर्णतन्तुपाण्डुरः. ३ जरठवत्. ४ केशर. ५ हर. ६ वृषाभरणांशुकेन. ७ पताकाः. ८ पाण्डरी. ९ बिन्दुलग्नः, १० आविशन्. ११ करिकर्ण. १२ मणिभङ्ग.
(248
कादम्बरी।
कथायाम्