________________
इव तुरगमुखविक्षेपविप्लुतैः फेनपल्लवकुसुमस्तबकैः, अनुगम्यमान इव मत्तगजघटाकुम्भभित्तिसंभवेन धातुधूलिवलयेन, आलिङ्गयमान इव चलच्चामरकलापविधुतेन पटवासपांसुना, प्रोत्साह्यमान इव नरपतिशेखरसहसपरिच्युतैः कुसुमकेशररजोभिः, उत्पातराहुरिव दिवसकरमण्डलमकाण्ड एव पिबन्, नृपप्रस्थानमङ्गलप्रतिसरवलयमालिकासु गोरोचनाचूर्णायमानः, क्रकचकृतचन्दनक्षोदधूसरो रेणुरुत्पपात ।
अपरिमाणबलसंघट्टसमुपचीयमानश्च शनैः शनैः संहरनिव विश्वमशेषमकालकालमेघपटलमेदुरो विस्तारमुपगन्तुमारेभे । तेन च क्रमेणोपचीयमानबहलमूर्तिना, दिग्विजयमङ्गलध्वजेन, रिपुकुलकमलप्रलयनीहारेण, राजलक्ष्मीविलासपटवासचूर्णेन, अहितातपत्रपुण्डरीकखण्डन -
***********
किरीटानि तेषां मणयश्चन्द्रकान्तायास्तत्र पत्रभङ्गमकरिकास्ताभिः पीयमान इव । तुरगेति । तुरगाणां वाजिनां मुखान्याननानि तेषां विक्षेपाः प्रसारणक्रियाविशेषास्तेभ्यो विप्लुतैर्गलितैः फेनो मुखकफस्तस्य पल्लवाः परंपरास्त एव कुसुमस्तबकाः पुष्पगुच्छास्तैरभ्यर्यमान इव पूज्यमान इव । मत्तेति । मत्ता मदयुक्ता ये गजा हस्तिनस्तेषां घटाः समूहास्तासां कुम्भाः शिरसः पिण्डास्त एव भित्तयः कुड्यानि तेभ्यः संभव उत्पत्तिर्यस्यैवंविधेन धातुर्गेरिकादिः कुम्भस्थलशोभार्थमनुलिप्यते तस्य धूलिवलयेनरजोवलयेनानुगम्यमान इव । चलदिति । चलन्वेल्लन्यश्चामरकलापो वालव्यजनसमूहस्तेन विधुतेन कम्पितेन पटवासः पिष्टातस्तस्यपांसुधूलिस्तेनालिङ्गयमान इवाश्लिष्यमाण इव । नरेति । नरपतीनां राज्ञां शेखरसहसमवतंससहसं तस्मात्परिच्युतैः सस्तैः कुसुमाणां पुष्पाणां केसराणि किजल्काः तेषां रजांसि परागास्तैः प्रोत्साह्यमान इव प्रोत्साहं प्राप्यमाण इव । उत्पातः उड्डीयमानो राहुः सैहिकेयस्तद्वदिवाकाण्ड एवाप्रस्ताव एव दिवसकरमण्डलं सूर्यबिम्ब पिबन्तसन् । नृपेति । नृपाणां राज्ञां प्रस्थानमङ्गलेषु याः प्रतिसरा हस्तसूत्राणि तेषां वलयमालिका वलयश्रेण्यस्तासु गोरोचनाचूर्णायमानो गोरोचनं प्रसिद्धं तत्क्षोदवदाचरमाणः । क्रकचेति । क्रकचं करपत्रकं तेन कृतो यश्चन्दनक्षोदो मलयजचूर्णं तद्वद्धूसरः । अन्वयस्तु प्रागेवोक्तः । ।
अपेति । अपरिमाणमसंख्यं यद्वलं सैन्यं तस्य संघट्टः संमर्दस्तेन समुपचीयमानः उपचयं प्राप्यमाणः । चकारः पुनरर्थकः । शनैः शनैर्मन्दमन्दमशेष समग्रं विश्वं संहरन्निव तिरोधानं कुर्वन्निव । अकालेति । अकालेऽप्रस्तावे यत्कालं कृष्णं मेघपटलमभ्रवृन्दं तद्वन्मेदुरः पुष्टो विस्तारमुपसरणमुपगन्तुं प्राप्तुमारेभे । प्रारम्भं चकारेत्यर्थः । तेनेति । तेन पूर्वोक्तेन रेणुना । चकारः पुनरर्थं । क्रमेति । क्रमेण परिपाट्योपचीयमाना पुष्टिं प्राप्यमाणा बहला दृढा मूर्तिहो यस्य स तेन । दिगिति । दिशां ककुभां यो विजय आत्मसात्करणं तत्र यन्मङ्गलं विघ्ननिवारकदधिदूर्वादि तस्य ध्वजेन केतुना । मुख्यमङ्गलेनेत्यर्थः । रिपुरिति । रिपवो दस्यवस्तेषां कुलानि गोत्राणि तान्येव कमलानि नलिनानि तेषां प्रलयः क्षयस्तस्मिन्नीहारेण । हिमप्रतिमेनेत्यर्थः । राजेति । राजलक्ष्मीनृपश्रीस्तस्या विलासो विलसनं तदर्थं पटवासचूर्णेन पिष्टातक्षोदेन । अहितेति । अहितानां विपक्षाणां यान्यातपत्राणि छत्राणि तान्येव पुण्डरीकाणि कमलानि -
- -- - - - - - - - - - - - - - - - - - -- - - - - - टिप्प० - 1 तदभ्यन्तरगतत्वात् । 2 परागरजसामपि तत्पृष्ठगामित्वात्प्रकृष्टमुत्साहं प्राप्यमाण इवेत्युत्प्रेक्षा । 3 असमये उदयात् उत्पातसूचको यो राहुरित्यर्थो वक्तव्यः । 4 धिक् । दधिदूर्वादः काऽत्र कथा ? किन्तु-दिग्विजयस्य मङ्गलध्वजेन माङ्गलिककेतुदण्डस्वरुपेण । ध्वजवदुत्थानसादृश्यात् रजसि ध्वजत्वरूपणमित्यर्थः ।
पाठा० - १ विधूतेन. २ प्रसार्यमाणः; प्रोत्सार्यमाणः. ३ मङ्गलवलय. ४ प्रतिसरमालिकासु. ५ खण्ड,
(दिग्विजयप्रस्थानम्
। पूर्वभागः ।।
249)