________________
तुषारेण, सैन्यभरपीडितमहीतलमूर्छान्धकारेण, चलद्धलजलदकालकदम्बकुसुमोद्गमेन, दिवसकरकरकमलवनोद्दलनद्विपयूथेन, गगनमहीतलप्लावनप्रलयपयोधिपूरेण, त्रिभुवनलक्ष्मीशिरोवगुण्ठनपटेन, महावराहकेसरनिकरकबुरेण, प्रलयानलधूमराजिमांसलेन, पातालतलादिवोत्तिष्ठता, चरणेभ्य इव निर्गच्छता, लोचनेभ्य इव निष्पतता, दिग्भ्य इवागच्छता, नभस्तलादिव पतता, पवनादिवोल्लसता, रविकिरणेभ्य इव संभवता, अनपहृतचेतनेन निद्रागमेन, अनवगणितसूर्येणान्धकारेण, अधर्मकालोपस्थितेन भूमिगृहेण, अनुदिततारागणनिवहेन बहुलनिशाप्रदोषेण, पतितसलिलेन जलधरसमयेन, अभ्रान्तभुजं -
***********
तेषां खण्डनं कर्तनं तस्मिंस्तुषारेण नीहारेण । कमलानां विध्वंसन एतस्यैव सामर्थ्यात् । सैन्येति । सैन्यभरेण बलभरेण पीडितमाक्रान्तं यन्महीतलं पृथ्वीतलं तस्य मूर्छा निश्चेष्टता तत्रान्धकारेण तिमिरेण । चलदिति । चलद् गच्छद्धलं सैन्यं तदेव जलदकालः मेघसमयस्तत्र कदम्बकुसुमोद्गमेन नीपपुष्पोद्गमेन । दिवसेति । दिवसकरः सूर्यस्तस्य कराः किरणास्त एव कमलवनं नलिनखण्डं तस्योद्दलन मूलत उच्छेदनं तस्मिन्दिपयूथेन हस्तिसमूहेन । गगनेति । गगनमेव महीतलपृथ्वीतलं तस्य प्लावनमाक्रमणं तस्मिन्प्रलयः कल्पान्तस्तस्य यः पयोधिः समुद्रस्तस्य पूरेण प्लवेन । त्रिभुवनेति । त्रिभुवनस्य त्रिविष्टपस्य या लक्ष्मीः श्रीस्तस्याः शिरोवगुण्ठनपटेनोत्तमाङ्गाच्छादनवस्त्रेण । महेति । महावराह आदिवराहस्तस्य केसरनिकरः सटासमूहस्तद्वत्कबुरेण मलिनेन । प्रलयेति । प्रलयस्य कल्पान्तस्यानलो वह्निस्तस्य या धूमराजिर्दहनकेतनपङ्क्तिस्तद्वन्मांसलेन पुष्टेन । पातालेति । पातालतलाबडवामुखतलादुत्तिष्ठतेवोत्थानं कुर्वतेव । चरणेति । चरणेभ्यः पादेभ्यो निर्गच्छतेव निर्गमनं कुर्वतेव । लोचनेति । लोचनेभ्यो नेत्रेभ्यो निष्पततेव पतनं कुर्वतेव । दिग्भ्य ऐन्द्रयादिभ्य आगच्छतेवागमनं कुर्वतेव । नभ इति । नभस्तलाद्व्योमतलात्पततेव पतनं कुर्वतेव । पवनेति । पवनात्समीरणादुल्लसतेवोल्लास प्राप्नुवतेव । रवीति । रविकिरणेभ्यः सूर्यरश्मिभ्यः संभवतेव प्रादुर्भवतेव । अनेति । निद्रायाः प्रमीलाया आगमः समागमस्तेन । अत्र तु स्वप्नादिविलक्षणं बाह्यं ज्ञानं तस्मादित्यत आह - अनेति । अनपहृतमगृहीतं चेतनं चैतन्यं येनैवंविधेनेत्यर्थः । अत एवालौकिक एवेति भावः । अनवेति । अनवगणितोऽनिराकृतः सूर्यो भानुर्येनैवंभूतेनान्धकारेणेव तमिसेणेव । अधर्मेति । अधर्मकाल उपस्थितेन प्राप्तेन भूमिगृहेण वसुधामध्यसदनेन । धर्मकाले तु तदीप्सितं स्यादत एवोक्तम् - अधर्मकालेति । 'अधर्मकालोपस्थितेन' इति पाठे धर्मकालस्तपस्याचरणादौ तस्येष्टत्वात् । अतएवोक्तमधर्मकालेति । अनुदितेति । अनुदित उदयं न प्राप्तस्तारागणनिवहो नक्षत्रसमूहो यस्मिन्नेवभूतेन बहुलनिशा कृष्णपक्षरात्रिस्तस्याः प्रदोषेण यामिनीमुखेन । पतितेति । पंतितं स्त्रस्तं सलिलं पानीयं यस्मिन्नेवभूतेन जलधरसमयेन वर्षाकालेन । अभ्रेति । अभ्रान्ता अप्रचलिता भुजंगमाः सर्पा यस्मिन्नेवंविधेन -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प०.1 गगनरुपमहीतलस्य प्लावने (जलद्वारा तिरोधाने) प्रलयपयोधेः पूरः (प्रवाहः) तेन, इति सरलोऽर्थः अवगन्तव्यः । 2 प्रत्येकचरणलग्नतया एवमुत्प्रेक्षा । एवमग्रेऽपि सर्वत्र बोध्यम् । 3 निद्रा चेतनामपहरति, किन्तु इदं रजश्चेतना न हरति अन्यत्सर्वं निद्रातादात्म्यमिति, अधिकाभेदरुपकम् । प्राचा मते - अधिकारुढवैशिष्ट्यरुपकम् । प्राचीनतराणां (वामनादीनाम्) मते तु - एक - गुणहानिकल्पनायां समग्रगुणदाय विशेषोक्तिरिति विशेषोक्तिः । एवमग्रे सर्वत्र । 4 'अपतितसलिलेन इत्यपि पाठः । न पतितं वृष्टं वर्षाजलं यनेति तदर्थः ।
पाठा० - १ सेनाभर; सैन्यतुरग. २ बहलबहल. ३ दिवसकरकमल; दिवसकरकिरणकमल. ४ अनपहृतलोचनेनानवगणित. ५ अपतित. ६ भुजङ्गेन.
[250
कादम्बरी।
कथायाम्