________________
गमेन रसातलेन, हरिचरणेनेव संवर्धमानेन त्रिभुवनमलयत रजसा । विकचकुवलयवनमिव नवोदकेन गगनतलमवष्टभ्यमानमलक्ष्यत क्षीरोद॑पाण्डुना क्षितिक्षोदेन । बहुलरजोधूसरितमशिशिरकिरणबिम्बमवचूलचामरमिव निष्प्रभमभवत् । दुकूलपैटधवला कदलिकेव कलुषतामाजगाम गगनापगा । नरपालबलभारमसहमाना पुनरिव भारावतारणार्थममरलोकमारुरोह रजोमिषेण मही । निःशेषपीतातपमन्तर्दह्यमानमिव जलधिजलेषु धूसरितरविरथध्वजपटमपतदवनिरजः । मुहूर्तेन च गर्भवासमिव, संहारसागरजलमिव, कृतान्तजठरमिव, महाकालमुखमिव, नारायणोदरमिव, ब्रह्माण्डमिव विवेश पृथिवी । मृन्मय इव बभूव दिवसः । पुस्तमय्य इव चकाशिरे ककुभः । रेणुरूपेणेव परिणतमम्बरतलम् । एकमहाभूतमयमिव त्रैलोक्यमासीत् ।
***********
रसातलेन पृथ्वीतलेन । संवर्धनेन वृद्धिं प्राप्यमाणेन । केनेव । हरिचरणेनेव विष्णुपादेनेव । यथा हरिचरणो बलिध्वंसनार्थं क्रमेण वृद्धिं प्राप्तस्तथायमपीत्यर्थः । एवंविधेन रजसा रेणुना त्रिभुवनं त्रिविष्टपमलयत । क्षीरोदः क्षीरसमुद्रस्तद्वत्पाण्डुना श्वेतरक्तेन क्षितिक्षोदेन वसुधाचूर्णेन गगनतलं व्योमतलमवष्टभ्यमानं व्याप्यमानमलक्ष्यतादृश्यत । केन किमिव । नवोदकेन नवीनपानीयेन विकचानि विकस्वराणि यानि कुवलयान्युत्पलानि तेषां वनमिव । अत्र गगनस्य कृष्णत्वसाम्यात्तदुपमानम् । क्षितिक्षोदस्य शुक्लत्वसाम्यानवोदकोपमानमिति भावः । बहुलेतिं । बहुलं निबिडं यद्रजस्तेन धूसरितं कर्बुरीकृतमशिशिरकिरणबिम्बं चन्द्रसूर्यबिम्बमण्डलमवचूलचामरमिव हस्तिकर्णाभरणवालव्यजनमिव निष्प्रभं विगतद्युत्यभवज्जज्ञे । दुकूलेति । दुकूलं क्षौमं तदेव पटो वस्त्रं तद्वद्धवला श्वेता गगनापगा स्वर्धनी कलुषता मलिनतामाजगामागतवती । केव । कदलिकेव रम्भेव । यथा रम्भा रजोभिः कृत्वा कृष्णत्वं याति तथेयमित्यर्थः । नरेति । नरपालो नृपस्तस्य बलं सैन्यं तस्य भरं वीवधमसहमानेवाक्षममाणेव पुनर्भारावतारणार्थं भारं कुत्रचित्स्थापयितुममरलोकं स्वर्लोक रजोमिषेण रेणुच्छलेन मही पृथ्यारोहावरोहणं चकार । एकवारं गोरूपेण गताभूत् । इदानीं त्वेतद्रूपेणेत्यर्थः । अत एव पुनःशब्दोपादानम् । निःशेषेति । तदवनिरजो जलधिजलेषु सामुद्रपानीयेष्वपतत्पपातेत्यर्थः । कीदृशम् । निःशेषः समग्रः पीत आस्वादित आतपः सूर्यालोको येन तदत एवान्तर्दह्यमानमिवान्तर्मध्ये प्रज्वलमानमिव । अनेन जलपाते हेतुर्दर्शितः । पुनः कीदृशम् । धूसरितेति । धूसरितो धूम्रवर्णीकृतो रविरथस्य सूर्यस्यन्दनस्य ध्वजपटो येन तत् । मुहूर्तेनेति । मुहूर्तमात्रेण । सर्वत्र सबाह्याभ्यन्तरव्याप्त्योपमानान्याह - गर्भेत्यादि । गर्भवासमिव भ्रूणवासमिव । संसारसागरजलमिव कल्पान्तजलधिपानीयमिव । कृतान्तजठरमिव यमोदरमिव । महाकालमुखमिवाखण्डदण्डायमानो यः कालो महाकालस्तस्य मुखमिव । नारायणोदरमिव जनार्दनोदरमिव । ब्रह्माण्डमिव । पृथिवी वसुंधरा विवेश सर्वत्र प्रविष्टवतीति । सैन्यमिति शेषः । गर्भवासादिकमिव रजोरूपेण पृथिवी सैन्यं प्रविष्टेत्यर्थः । अत्र गर्भवासादिभिरुपमानैः सैन्यस्यात्युत्कृष्टताद्यनेकधर्मावच्छिन्नत्वं सूचितम् । तदन्तःप्रवेशाच्च रजसोऽपि ततोऽप्याधिक्यमिति भावः । मृदिति । मृन्मय इव मृदो विकार इव । अत्र विकारार्थे मयट् । तद्वदिव दिवसो दिनं बभूव । पुस्त इति । पुस्तं लेप्यादिकर्म तन्मय्य इव विलिप्ता इव ककुभो दिशश्चकाशिरे शुशुभिरे । रेणुरूपेणेति । रेणुरूपेण रजोमयत्वेनेवाम्बरतलं व्योमतलं परिणतं तन्मयतां गतम् । एकमिति । एक महाभूतं पृथिवीलक्षणं तन्मयमिव त्रैलोक्यं त्रिविष्टपमासीद्वभूव । - - - - - - - - - - - - - - - - - - - टिप्प० - 1 श्वेतवर्णप्रभुत्वप्रतिपादनार्थमत्र क्षीरोदकस्य द्रष्टान्तग्रहः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ क्षणाक्षीरोदफेनपाण्डुना. २ पट्ट. ३ भरमतिगुरुम्. ४ रजोनिभेन. ५ निपीत. ६ प्रस्थमय्यः. ७ दिशः. ८ अम्बरम्. ९ महाभूतमिव.
दिग्विजयप्रस्थानम्
पूर्वभागः ।)
5251):