________________
अथ निजमदोष्मसंतप्तानां दन्तिनां दिशि दिशि करविवरनिःसृतैः क्षरद्भिः क्षीरोदेधवलैः शीकरासारैः, कर्णपल्लवप्रहतिविसृतेन च विसर्पता दानजलबिन्दुदुर्दिनेन, हेषारवविप्रकीर्णैश्च वाजिनां लालाजललवजालकैरुपशमिते रजसि, पुनरपि जातालोकासु दिक्षु, सागरादिवोन्मग्नमालोक्य तदपरिमाणं बलमुपजातविस्मयः सर्वतोदत्तदृष्टिर्वैशम्पायनश्चन्द्रापीडमाबभाषे ‘युवराज, किं नैं जितं देवेन महाराजाधिराजेन तारापीडेन यज्जेष्यसि, का दिशो न वशीकृता या वशीकरिष्यसि, कानि दुर्गाणि न प्रसाधितानि यानि प्रसाधयिष्यसि, कानि द्वीपान्तराणि नात्मीकृतानी यान्यात्मीकरिष्यसि, कानि रत्नानि नोपार्जितानि यान्युपार्जयिष्यसि, के वा न प्रणता राजानः, कैर्न विरचितः शिरसि बालकमलकुड्मलकोमलः सेवाञ्जलिः, कैर्नै मसृणीकृताः प्रतिबद्धहेमपट्टेर्ललाटैः सभाभुवः, कैर्न घृष्टाः पादपीठे चूडामणयः, कैर्न प्रतिपन्ना वेल -
***
252
अथेति । तदनन्तरं वैशम्पायनश्चन्द्रापीडमाबभाषेऽभिदधावित्यन्वयः । कस्मिन्सति । रजस्युपशमिते शान्ति प्राप्ते सति । कैः । निजेति । निजमदस्यात्मीयदानस्य य ऊष्मा तापस्तेन संतप्तानां प्रज्वलितानां दन्तिनां हस्तिनां दिशि दिशि प्रतिदिशं कराः शुण्डादण्डास्तेषां विवराणि रन्ध्राणि तेभ्यो विनिःसृतैर्बहिरागतैरत एव क्षरद्भिः सवद्भिः । क्षीरोदः क्षीरसमुद्रस्तद्वद्धवलैः शुभैः । शीकरा वातास्तवारिविप्रुषस्तेषामासारा वेगवत्यो वृष्टयस्तैस्तथा । कर्णा एव पल्लवास्तेषां प्रहतिः प्रकर्षेण हननं तया विसृतेनेतस्ततो विक्षिप्तेन । विसर्पता प्रसरता दानजलबिन्दुदुर्दिनेन मदवारिपृषन्मेघजनिततमसा । तथा वाजिनां तुरङ्गाणां हेषारवा हेषाशब्दास्तैर्विप्रकीर्णैर्विक्षिप्तैः । 'हेषा द्वेषा तुरङ्गाणां गजानाम्' इति कोशः । एवंविधैः । लालाजलं मुखनिष्ठ्यूतजलं तस्य लवाः खण्डास्तेषां जालकैः समूहैः । ‘समवायो निकुरम्बं जालं निवहसंचयौ' इति हैमः । पुनरपीति । रजःशमनानन्तरं जातः प्रकटीभूत आलोकः प्रकाशो यास्वेवंभूतासु दिक्षु ककुप्सु । कृष्णत्वसाम्यादाह - सागरेति । सागरात्समुद्रादुन्मग्नमिवोपर्यागतमिवापरिमाणमसंख्यं बलं सैन्यमालोक्य निरीक्ष्य । अथ वैशम्पायनं विशेषयन्नाह - उपेति । उपजातः समुत्पन्नो विस्मयश्चित्रं यस्य सः । सर्वत इति । सर्वतो ऽभितो दत्ता प्रेरिता दृष्टिर्येन सः । अन्वयस्तु प्रागेवोक्तः । किमुवाचेत्याह - युवराजेति । हे युवराज, देवेन पूज्येन तारापीडेन महाराजाधिराजेन । किमिति प्रश्ने । न जितं वशीकृतम् । सर्वमेव जितमित्यर्थः । यद्भवांस्त्वं जेष्यसि वशीकरिष्यसि । तथा का दिशः ककुभो न वशीकृता नात्मसात्कृता यास्त्वं वशीकरिष्यसि स्वायत्तीकरिष्यसि । कानि दुर्गाणि कोट्टानि न प्रसाधितानि न गृहीतानि यानि त्वं प्रसाधयिष्यसि ग्रहीष्यसि । तथा कानि द्वीपान्तराण्यन्तरीपान्तराणि नात्मीकृतानि यानि त्वमात्मीकरिष्यसि । तथा कान्यनिर्दिष्टाभिधेयानि रत्नानि स्वस्वजातावत्युत्कृष्टवस्तूनि नोपार्जितानि नोपार्जनाविषयीकृतानि यानि त्वमुपार्जयिष्यस्युपार्जनां करिष्यसि । अथ च के राजानो नृपा न प्रणता न नमस्कार कृतवन्तः । तथा कैर्नृपै राजभिर्न विरचितो न विहितः शिरस्युत्तमाङ्गे बालकमलस्य नवीननलिनस्य कुड्मलोमुकुलं तद्वत्कोमलो मृदुरेतादृक्सेवाञ्जलिः सपर्यानियामकं पाणियोजनम् । तथा कैर्भूपतिभिः प्रतिबद्धाः संनद्धा हेमपट्टाः कनकपट्टा येष्वेवंभूतैर्ललाटैर्भालैः सभाभुवः समाजक्षोण्यो न मसृणीकृता न श्लक्ष्णीकृताः । तथा कै राजभिर्नृपैः पादपीठे पदासने चूडामणयः शिरोमणयो न घृष्टा न घर्षणं प्रापिताः । तथा कैर्नृपैर्वेत्रलता वेतसयष्टयो न प्रतिपन्ना न स्वीकृताः । एतेन सर्वे प्रतीहारतां प्राप्ता इति सूचितम् । तथा कैर्भूपति -
पाठा० - १ संतप्तानां दिशि दिशि २ क्षीरोदक्षोद. ३ विप्लुतेन. ४ पुनरुपजात. ५ सागरसलिलादिव. ६ किमजितम्. ७ के न. ८ वेत्रयष्टयः.
****
कादम्बरी ।
कथायाम्