________________
1
ताः कैर्नोद्धूतानि चामराणि, कैर्नोच्चारिता जयशब्दाः, केषां न पीताः किरीटपत्रमकरैः सलिलधारा इव निर्मलास्तच्चरणनखमयूखराजयः । एते हिँ चतुरुदधिजलावगाहर्दुर्ललितबलमदावलिप्ता दशरथभगीरथभरतदिलीपालर्कमान्धातृप्रतिमाः कुलाभिमानशालिनः सोमपायिनो मूर्धाभिषिक्ताः पृथिव्यां सर्वपार्थिवा रक्षाभूतिमिवाभिषेकपयःपातपूतैश्चडामणिपल्लवैरुद्वहन्ति मङ्गल्यां भवच्चरणरजः संहतिम् । एभिरियमादिपर्वतैरिवापरैर्धृता धरित्री । एतानि चाप्यमीषामाप्लावितदशदिगन्तरालानि सैन्यानि भवन्तमुपासते । तथाहि । पैंश्य पश्य यस्यां यस्यां दिशि विक्षिप्यते चक्षुस्तस्यां तस्यां रसातलमिवोद्गिरति, वसुधेव सूते, ककुभ इव वमन्ति, गगनमिव वर्षति, दिवस इव सृजति बलानि । अपरिमितबलभराक्रान्ता मन्ये स्मरति महाभारतसमरसंक्षोभस्याद्य क्षितिः । एष शिखरदेशेषु स्खलितमण्डलो ध्वजागणयन्निव कुतूहला
***********
भिश्चामराणि वालव्यजनानि नोद्धूतानि न वीजितानि । एतेनास्य सर्वेऽपि राजानश्चामरग्रहिणोऽभूवन्निति ध्वनितम् । तथा कैर्नृपतिभिर्जयशब्दा मङ्गलशब्दा नोच्चारिता नोदीरिताः । तथा केषां राज्ञां किरीटानां मुकुटानां पत्रमकराः पत्रेषु मकराकारा विवृतमुखास्तैः सलिलधारा इव पतत्पानीयपङ्क्तय इव निर्मलाः स्वच्छास्तस्य तारापीडस्य यौ चरणौ पादौ तयोर्नखाः पुनर्भवास्तेषां मयूखाः किरणास्तेषां राजयः श्रेणयो न पीताः न पानविषयीकृताः । एतेन सर्वेऽपि क्षितिभुजस्तारापीडस्य महाराजस्य चरणसपर्यं कृतवन्त इति ध्वनितम् । अथ राज्ञां स्वरूपं वर्णयन्नाह - एते हीति । हि निश्चितम् । पृथिव्यां रत्नगर्भायामेते प्रत्यक्षोपलभ्यमाना ये सर्वपार्थिवाः समग्रराजानो रक्षाभूतिमिव रक्षाभस्ममिवाभिषेकस्य यौवराज्याभिषेकस्य यः पयःपातः सलिलपातस्तेन पूतैः पवित्रैश्चूडामणयः शिरोरत्नानि त एव पल्लवास्तैर्मङ्गल्यां मङ्गले हितां भवच्चरणयोस्त्वत्पादयो रजः संहतिं रेणुसमूहमुद्वहन्ति धारयन्ति । कीदृशा राजानः । चतुरिति । चतुरुदधयश्चतुःसमुद्रास्तेषां जलानामवगाहः तत्संबन्धी महाप्रलयस्तद्वद् दुर्ललितं दुश्चेष्टितं रिपुक्षयकृलक्षणं यस्मिन्नेतादृशं बलं सैन्यं तस्य मदोऽहंकारस्तेनावलिप्ता व्याप्ताः । दशरथो रामपिता, भगीरथः सगरपौत्रः, भरत आर्षभिः, दिलीपो रघुपिता, अलर्कः प्रसिद्धः, मान्धाता युवनाश्वतनयः, एतैः प्रतिमाः सदृशाः कुलस्य गोत्रस्य योऽभिमानोऽहंकारस्तेन शालिनः शोभिनः । सोमपायिनः सोमेष्टिकारिणो मूर्धन्यभिषिक्ताः कृताभिषेकाः । इयमिति । एभिः पूर्वोक्तव्यावर्णितस्वरूपै राजभिरियं धरित्री वसुधा धृता धारिता । कैरिव । अपरैर्भिनैरादिपर्वतैरिव कुलपर्वतैरिव । एतानीति । अमीषां राज्ञामेतानि सैन्यानि भवन्तं त्वामुपासते सेवन्ते । कीदृशानि । आप्लावितान्यवगाहितानि दशदिशामन्तरालानि मध्यभागा यैस्तानि । एतदेव दर्शयति - तथाहीति । पश्य पश्य विलोकय । यस्यां यस्यां दिशि चक्षुर्नेत्रं विक्षिप्यते प्रेर्यते तस्यां तस्यां दिशि रसातलमिव पृथ्वीतलमिवोद्गिरति वमति । बलानि सैन्यानीति सर्वत्र संबध्यते । वसुधेव वसुंधरेव सूते जनयति । ककुभ इव दिश वमन्त्युद्गिरन्ति वमति । गगनमिवान्तरिक्षमिव वर्षति वृष्टिं करोति । दिवस इव दिनमिव सृजति प्रणयति । अहमति मन्ये जानेऽद्य क्षितिर्वसुधाऽपरिमितं यद्वलं सैन्यं तस्य भरोऽतिशयस्तेनाक्रान्ता भरिता सती । महेति । महाभारते प्रतिपादितो व्याख्यातो यः समरसंक्षोभः सङ्ग्रामसंमर्दस्तस्य स्मरति स्मरणं करोति । अत्र स्मृत्यर्थधातुभिर्योगे 'मातुः स्मरति' इतिवत्कर्मणि षष्ठी । एष इति । एष समी
-
टिप्प० - 1 भस्मेवेत्यर्थः । 2 चतुरुदधिजलेषु योऽवगाहः विजययात्रार्थमवतरणं तेन दुर्ललितानां धृष्टमनोहराणां बलानां सैन्यानां मदेनावलिप्ताः (गर्विताः) इत्यर्थः । 3 व्याप्तानीत्यर्थः ।
पाठा० - १ उद्धृतानि २ त्वच्चरण. ३ हि ते ४ दुर्ललितवद. ५ माङ्गल्याम्; मङ्गलदाम्. ६ पश्य यस्याम् ७ गगनतलम्. ८ महाभारतसंक्षोभस्य; महाभारतबलसमरसंक्षोभस्य. १९ मत्तेभकरटशिखरदेशेषु. १० परिस्खलित.
(दिग्विजयप्रस्थानम्
पूर्वभागः ।
253