________________
द् भ्रमति कदलिकावनान्तरेषु मयूखमाली । सर्वतश्च मदजलमुचा करिणामेलापरिमलसुरभिणि वेणिकावाहिनि मदवारिणि निरन्तरमग्ना निपतितमधुकरकुलकलकलकलिला कालिन्दीजलकल्लोलेकलितेव भाति भूतधात्री । सैन्यभरसंक्षोभभयात्सरित इव गंगनतलमुत्पतिता आच्छादयन्त्येता दिक्चक्रवालमिन्दुधवला ध्वजपङ्क्तयः । सर्वथा चित्रं यन्नाद्य विघटितसकलकुलशैलसंधिबन्धा सहस्रशः शकलीभवति बलभरेण धरित्री, यद्वा बलभरपीडितवसुधाधारणविधुरा न चलन्ति फणिनां पत्युः फणाभित्तयः' इत्येवं वदत एव तस्य युवराजः समुच्छ्रितानेकतोरणां तृणमयप्राकारमन्दिरसहससंबाधामुल्लासितधवलपटमण्डपशतशोभिनीमावासभूमिमवाप ।
*********** पतरवर्ती कदलिकावनान्तरेषु रम्भाकाननान्तरेषु मयूखमाली सूर्यः शिखरदेशेषु ध्वजाग्रभागेषु स्खलितं स्खलनां प्राप्तं मण्डल बिम्ब यस्यैवंभूतः प्रतिरोधनिवृत्त्यर्थं ध्वजान्गणयन्निव संख्यां कुर्वन्निव कुतूहलाद् भ्रमतीत्युत्प्रेक्षा । ध्वजानामुच्चतोत्कर्षो व्यङ्ग्यः । कदलिकावनमिति सूर्यप्रदर्शनोपलक्षणमात्रं न त्वन्यत् । करिमदोत्कर्षमाह - सर्वतश्चेति । मदजलमुचा मदसाविणां करिणां हस्तिनामेलायाश्चन्द्रबालाया यः परिमल आमोदस्तद्वत्सुरभिणि सौरभ्ययुक्ते । वेणिकावाहिनीति । वेणिका प्रवेणी तया वहति गच्छतीत्येवंशीलं तस्मिन्नेवभूते मदवारिणि दानजले निरन्तरं मग्ना । समन्ततो जलक्लिन्नेत्यर्थः । एवंभूता भूतधात्री पृथ्वी । तामेव विशिनष्टि - निपतितेति । निपतित पर्यस्तं यन्मधुकरकुलं भ्रमरसमूहस्तस्य यः कलकलः कोलाहलस्तेन कलिला गहना । 'कलिलं गहन इति कोशः । अत्र च श्यामताद्रवत्वाभ्यां मदवारिणः, शब्दविशेषैः श्यामतापरिमाणविशेषैश्च भ्रमरकुलस्य साम्येनोत्प्रेक्षते - कालिन्दीति । कालिन्दी यमुना तस्या जलकल्लोलैः पानीयतरङ्गः कलितेव भाति शोभते । सैन्येति । सैन्यस्य बलस्य यो भरस्तजनितो यः संक्षोभः क्षुब्धता तल्लक्षणं यद्भयं त्रासस्तस्माद्गगनतलं व्योमतलमुत्पतिताः स्वच्छत्वनैर्मल्यसाधात्सरित इव नद्य इव एताः प्रत्यक्षोपलक्ष्यमाणा इन्दुवच्चन्द्रवद्धवलाः शुभ्रा ध्वजपङ्क्तयो वैजयन्तीश्रेण्यो दिक्चक्रवालं ककुप्समूहमाच्छादयन्त्यावृण्वन्ति । सर्वथेति । सर्वथा सर्वप्रकारेणैतच्चित्रं महदाश्चर्यम् । एतत्किमित्याह - यदिति । यदद्य विधटिता विश्लेषं प्राप्ताः सकलाः समग्रा ये कुलशैलास्त एव संधिबन्धा अस्थिबन्धा यस्या एवंभूता धरित्री वसुंधरा बलभरेण सैन्यसंमर्दैन सहसशः सहस्रधा न शकलीभवति । न सहस्रधा जायत इत्यर्थः । एतदाश्चर्यमित्यर्थः । एतच्छङ्का दूरीकर्तुं पक्षान्तरमाह - यवेति । यद्वा बलभरेण सैन्यभरेण पीडिता या वसुधा तस्या धारणं तेन विधुराः पीडिताः फणिनां पत्युः शेषनागस्य फणाभित्तयः फणकुड्यानि न चलन्ति । अत एवेयं तदाधारेण तिष्ठतीत्यर्थः । इत्येवं पूर्वोक्तप्रकारेण तस्य वैशम्पायनस्य वदतो ब्रुवत एव युवराजश्चन्द्रापीड आवासभूमिं निवासभूमिमवाप प्रापेत्यन्वयः । अथ तां विशेषयन्नाह - समुच्छ्रितेति । समुच्छ्रितान्युच्चान्यनेकानि तोरणानि बहिराणि यस्यां ताम् । 'बहिरं तु तोरणम्' इति कोशः । तृणेति । तृणमयो यवसमयो यः प्राकारो वप्रस्तस्मिन्यन्मन्दिरसहसं गृहदशशतं तेन न विद्यते संबाधः सांकर्यं यस्याम् । उल्लासितेति । उल्लासितमुल्लासं प्राप्तं यद्धवलपटस्य श्वेतवस्त्रस्य मण्डपशतं जनाश्रयशतं तेन शोभिनीं शोभायुक्ताम् ।
टिप्प० - 1 पताकासमूहान्तरालेषु, इत्यर्थोऽयमत्र, कदलिका (रम्भा) काननस्याऽप्रसक्तत्वात् । व्याख्यातं च पूर्वम् - 'कदली वैजयन्त्या च रम्भाया हरिणान्तरे' इति । 2 विघटिताः सकलानां कुलशैलानां सन्धिबन्धाः (संयोगबन्धनानि) यस्याः सा, इति व्याख्यागतं हार्दम् । 3 पृथिव्यां शकलीभवनासंबन्धेऽपि, फणानां स्खलनाऽसंबन्धेऽपि, तत्संबन्धवर्णनादतिशयोक्तिरित्यलङ्कारः । 4 मन्दिरसहसेण संबाधां गहना (व्याप्ताम्) इत्यर्थः । 'संकटं ना तु संबाधः कलिलं गहनं समे' इत्यमरः ।
पाठा० - १ मदवारिणी मग्ना निरन्तरनिपतित. २ कलकलकलिता; कलकलालिका; कलकलललिता. ३ कलिका; कवलिता. ४ सैन्यसक्षोभ. ५ धरणिमपहाय गगन. ६ सच्छादयन्ति. ७ द्विजपङ्क्तयः. ८ शैलबन्धा. ९ दलन्ति. १० मन्दिरसंबाधा. ११ संशोभिनी.
254
कादम्बरी।
कथायाम्