________________
तस्यां चावतीर्य राजवत्सर्वाः क्रियाश्चकार । सर्वेश्च तैः समेत्य नरपतिभिरमात्यैश्च विविधाभिः कथाभिर्विनोद्यमानस्तं दिवसमशेषमभिनवपितृवियोगजन्मना शोकावेगेनायास्यमानहृदयो दुःखेनात्यवाहयत् । अतिवाहितदिवसश्च यामिनीमपि स्वशयनीयस्य नातिदूरे निहितशयननिषण्णेन वैशम्पायनेन, अन्यतश्च समीपे क्षितितले विन्यस्तकुथप्रसुप्तया पत्रलेखया सह, अन्तरा पितृसक्तम्, अन्तरा मातृसंबद्धम्, अन्तरा शुकनासमयं कुर्वनालापं नातिजातनिद्रः प्रायेण जाग्रदेव निन्ये । प्रत्यूषे चोत्थाय तेनैव क्रमेणानवरतप्रयाणकैः प्रतिप्रयाणकमुपचीयमानेन सेनासमुदायेन जर्जरयन्वसुंधराम्, आकम्पयन्गिरीन्, उत्सिञ्चन्सरितः, रिक्तीकुर्वन्सरांसि, चूर्णयन्काननानि, समीकुर्वन्विषमाणि, दलयन्दुर्गाणि, पूरयनिम्नानि, निम्नयन्स्थलानि प्रतिष्ठता शनैः शनैश्च स्वेच्छया परिभ्रमन्, नमयन्नुनतान्, उन्नमयन्नवनतान्, आश्वासयन्भीतान्, रक्षशरणागतान्, उन्मूलयन्विटपकान्, उत्सादयन्कण्टकान्, अभि -
***********
तस्यामावासभूमाववतीर्यावतरणं कृत्वा । चकारः पुनरर्थकः । राजवत्तारापीडवत्सर्वाः क्रियाः समग्रकृत्यानि चकार कल्पयामास । सर्वेश्चेति । तैः पूर्वोक्तैः सर्वैः समग्रैर्नरपतिभिरमात्यैश्च । अत्र चकारः समुच्चयार्थः । समेत्य नृपान्तिकमागत्य विविधाभिरनेकप्रकाराभिः कथाभिर्वार्ताभिर्विनोद्यमानः क्रीडाविषयीक्रियमाणोऽशेष समग्रं तं दिवसं दिनमत्यवाहयदत्यक्रामत् । केन । दुःखेन कृच्छ्रेण । अथ युवराज विशिनष्टि - अभीति । अभिनवः प्रत्यग्रो यः पितृवियोगोऽननुभूतजनकविरहस्तस्माजन्मोत्पत्तिर्यस्य स तथैवंविधेन शोकावेगेन शोचतावेशेनायास्यमानमायासं प्राप्यमाणं हृदयं चित्तं यस्य स तथा । रात्रि कथमतिक्रमितवानित्याह - अतीति । अतिवाहितोऽतिक्रमितो दिवसो येनैवंभूतो यामिनीमपि त्रियामामपि स्वशयनीयस्य स्वीयशय्यायाः । नातीनि । नातिदूरे नातिदवीयसि प्रदेशे निहितं स्थापितं यच्छयन शयनीयं तत्र निषण्णेनोपविष्टेन वैशम्पायनेन । अन्यतश्चान्यस्मिन्वैशम्पायनानिषीदनव्यतिरिक्त समीपे पार्श्ववर्तिनि क्षितितले पृथ्वीतले विन्यस्ता स्थापिता या कुथा परिस्तोमस्तत्र प्रसुप्तया कृतशयनया पत्रलेखाभिधानया करङ्कवाहिन्या सह सार्धम् । अन्तरा मध्ये पितृसक्तं जनकसंबन्धि । अन्तरा मातृसंबद्धम् । अन्तरा शुकनासो वैशम्पायनपिता तद्वार्ताभिनिष्पन्नमालापमन्योन्यं प्रीतिभाषणं कुर्वन्विदधन्नातिजाता न बाहुल्येन समागता निद्रा प्रमीला यस्य स तथा । प्रायेण बाहुल्येन जाग्रदेव निद्राभाववानेव निन्ये निनाय । प्रत्यूषे चेति । प्रत्यूषे प्रभाते चोत्थायोत्थानं कृत्वा तेनैव क्रमेण पूर्वोक्तपरिपाट्यानवरतप्रयाणकैर्निरन्तरगमनैः प्रतीति । प्रतिप्रयाणक प्रयाणं प्रयाणं प्रत्युपचीयमानेन पुष्टतां प्राप्यमाणेन सेनासमुदायेन सैन्यसंघातेन प्रतिष्ठता चलता वसुंधरां धात्री जर्जरयञ्छिथिलतामापादयन् । गिरीन्पर्वतानाकम्पयंस्तरलतां नयन् । सरितो नदीः उत्सिञ्चजलं दूरीकुर्वन् । सरांसि तटाकानि रिक्तीकुर्वञ्छून्यीकुर्वन् । जलेनेति शेषः । काननानि वनानि चूर्णयन्क्षोदीकुर्वन्विषमाणि कठिनानि समीकुर्वन्सरलीकुर्वन् । दुर्गाणि कोट्टानि दलयन्खण्डयन् । निम्नानि गभीराणि पूरयन्पूर्णीकुर्वन् । स्थलानि स्थलप्रदेशान् निम्नयन्सगम्भीरतामापादयन् । शनैः शनैर्मन्दं मन्दं स्वेच्छया स्वातन्त्र्येण परिभ्रमन्पर्यटन् । उन्नतानुच्चान् नमयनम्रतामापादयन् । अवनतान्प्रणतान् उन्नमयनुच्चता प्रापयन् । भीतांस्त्रस्तानाधासयन्नाधासानां कुर्वन् । शरणागतांस्त्राणार्थं प्राप्तारक्षन्पालयन् । विटपकान्विटानुन्मूलयन्नुन्मूलनां कुर्वन् । कण्टाकाञ्छत्रूनुत्सादयन्दूरी - - - - - - - -
- - - - - - - टिप्प० - 1 व्यत्यगमयत् इत्यर्थ उचितः । 2 विषादभरेण, इत्यर्थो योग्यः । 3 अनावश्यकमिदम् । अत एव 'प्रातिष्ठत' इति पाठस्तत्रैव वाक्यसमाप्तिश्च ।
पाठा० - १ नातिदूरनिषण्णेन. २ शयनीयसमीपे. ३ क्षितितलविन्यस्त. ४ नात्युपजात. ५ प्रत्युषसि. ६ उपसिञ्चन्. ७ प्रातिष्ठत; न्यायवर्त्मनि प्रजाः प्रतिष्ठापयन्प्रातिष्ठत्. ८ नतान्. ९ रक्षयन्.
(दिग्विजयः
पूर्वभागः ।।
255)