________________
षिञ्चन्स्थानस्थानेषु राजपुत्रान्, समर्जयन्रत्नानि, प्रतीच्छन्नुपायनानि, गृह्णन्करान्, आदिशन्देशव्यवस्थाम, स्थापयन्स्वचिह्नानि, कुर्वन्कीर्तनानि, लेखयशासनानि, पूजयन्नग्रजन्मनः, प्रणमन्मुनीन्, पालयन्नाश्रमान्, जनानुरागं प्रकाशयविक्रमम्, आरोपयन्प्रतापम्, उपचिन्वन्यशः, विस्तारयगुणान्, प्रख्यापयन्सच्चरितम्, आमृद्श्च वेलावनानि, बलरेणुभिराधूसरीकृतसकलसागरसलिलः पृथिवीं विचचार । प्रथमं प्राचीम्, ततस्त्रिशङ्कुतिलकाम्, ततो वरुणलाञ्छनाम्, अनन्तरं च सप्तर्षिताराशबलां दिशं जिग्ये । वर्षत्रयेण चात्मीकृताशेषद्वीपान्तरं सकलमेव चतुरुदधिखातवलयपरिखाप्रमाणं बभ्राम महीमण्डलम् । ततः क्रमेणावजितसकलभुवनतलः प्रदक्षिणीकृत्य वसुधा परिभ्रमन्, कदाचिकैलाससमीपचारिणां हेमजकूटनाम्नां -
***********
कुर्वन् । स्थानस्थानेष्विति । स्थानानि च स्थानानि च स्थानस्थानानि तेषु राजपुत्रानृपसुतानभिषिञ्चनभिषेकं कुर्वन् । रत्नानि स्वस्वजातावुत्कृष्टवस्तूनि समर्जयन् । उपायनानि प्राभृतानि प्रतीच्छन्स्वीकुर्वन् । करान्दण्डान्गृह्णन्ग्रहणं कुर्वन् । देशव्यवस्थां जनपदमर्यादामादिशनाज्ञापयन् । स्विचिह्नानि स्वस्यागमननिमित्तानि स्थापयन्स्थापनां कुर्वन् । कीर्तनानि हरिगुणगानानि कुर्वन् । शासनानि ग्रामपट्टकादीनि लेखयंलिपीकारयन् । अग्रजन्मनो ब्राह्मणान्पूजयन्नर्चयन् । मुनीनृषीन्प्रणमन्नमस्कुर्वन् । आश्रमान्ब्रहाचारिप्रभृतीन्पालयन्प्रतिपालनां कुर्वन् । जनानामनुरागो यथा स्यादेवंभूतं विक्रमं पराक्रमं प्रकाशयन्प्रकटयन् । प्रतापं कोशदण्डजं तेज आरोपयन्स्थापयन् । यशः सर्वदिग्गामुकमुपचिन्वन्पुष्टीकुर्वन् । गुणाशौर्यादीन्विस्तारयन्प्रथयन् । सच्चरितं शोभनं वृत्तं लोकेषु प्रख्यापयन्प्रकटीकुर्वन् । वेलावनानि समुद्रतीरोद्भवोपवनान्यामृद्नन्नाभञ्जयन् । किंविशिष्टः । बलरेणुभिः सैन्यधूलिभिरासमन्ताद्धूसरीकृतमीषत्पाण्डुरीकृतं सकलः समग्रो यः सागरः समुद्रस्तस्य सलिलं पानीयं येन सः । पृथिवीं वसुधां विचचार बभ्राम । प्रथमं क्व जग्मिवानित्याशयेनाह - प्रथममिति । प्रथममादौ प्राची प्राग्दिशम् । तत इति । ततः तद्गमनानन्तरं त्रिशङ्कुर्नृपतिरेव तिलको यस्यां सा तथा ताम् दक्षिणमित्यर्थः । इदं च पुराणे प्रसिद्धम् । ततो वरुणः प्रचेता लाञ्छनं यस्याः सा ताम् । पश्चिमामाशामित्यर्थः । अनन्तरं चेति । ततः पश्चात्सप्तर्षीणां मरीचिप्रमुखाणां तारा नक्षत्राणि ताभिः शबला कर्बुरा दिशमुदीची जिग्ये । जितवानित्यर्थः । वर्षेति । वर्षत्रयेणाब्दत्रयेण । सकलेति । सकलमेव समग्रमेव महीमण्डलं वसुधावलयं बभ्राम भ्रमणं चकारेत्यन्वयः । अथ महीमण्डलं विशिनष्टि - आत्मीति । आत्मीकृतं स्वायत्तीकृतमशेष समग्र द्वीपान्तरमन्तरीपान्तरं यस्मिंस्तत्तथा । चतुरिति । चतुरुदधयश्चतुःसमुद्रा एव खातवलयं तदेव परिखाप्रमाणं यस्य तत् । ततस्तज्जयानन्तरं क्रमेण परिपाट्या । अवेति । अवजितं स्वायत्तीकृतं सकलभुवनतलं समग्रवसुधातलं येन स एवंभूतः । वसुधां प्रदक्षिणीकृत्य पृथ्याः प्रदक्षिणां दत्त्वा परिभ्रमन्नितस्ततः पर्यटन् । कदाचित्कस्मिंश्चित्समये । कैलासेति । कैलासो रजताद्रिस्तत्समीपचारिणा तत्पार्श्वगामिना हेमजकूट इति नाम येषामेवंविधानां - टिप्प० -1 आत्मनो विक्रम-प्रतापादे?षणाः इत्यर्थ उचितः, हरिगुणगानस्य समरयात्रामप्रसक्तत्वात् । 2 सर्वत्र स्वकर्मसहितं शत्रन्तमुपात्तं न क्वचित्क्रियाविशेषणम् । अत एव 'जनयन् जनानुरागम्' इत्येव पाठः । 3 जि-धातोः परस्मैपदित्वादिदमशुद्धम् । अतः 'विजिग्ये' इत्येव पाठः । 4 'हेमजकूट' इत्यपि कस्याश्चिज्जाते म भवतीति यस्य परिज्ञानं सोपि टीकाकरणे व्यप्रियते इति महद्भागधेयमस्माकम् । अस्तु 'हेमकूटधाम्नाम्' इत्यपि पाठः । हेमकूटो हिमालयादुत्तरस्थितः पर्वतविशेषो धाम (निवासः) येषां तेषामिति तदर्थः । पाठा० - १ व्यवस्थाः. २ पूर्वाः प्रशस्तीः. ३ प्रीणयन्. ४ जनयञ्जनानुरागम्. ५ ख्यापयन्. ६ सच्चरितमुद्योतयन्पौरुषम्. ७ आमृद्नन्वेला; आमर्दयश्च वेला. ८ विजिग्ये. ९ एवं वर्षत्रयेणात्मी. १० अम्भोधि. ११ निर्जितं; आवाजतं. १२ वसुधराम्. १३ हेमकूटधाम्नाम्. हेमजटानाम्नाम्.
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
प
(256
कादम्बरी।
कथायाम्