SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ किरातानां सुवर्णपुरं नाम निवासस्थान नातिविप्रकृष्टं पूर्वजलनिधेर्जित्वा जग्राह । तत्र च निखिलधरेणीतलपर्यटनखिन्नस्य निजबलस्य विश्रामहेतोः कतिपयान्दिवसानतिष्ठत् । एकदा तु तत्रस्थ एवेन्द्रायुधमारुह्य मृगयोनिर्गतो विचरन्कानने शैलशिखरादवतीर्णं यदृच्छया किंनरमिथुनमद्राक्षीत् । अपूर्वतया तु समुपजातकुतूहलः कृतग्रहणाभिलाषस्तत्समीपमादरादुपसर्पिततुरगः समुपसर्पन्, अदृष्टपूर्वपुरुषदर्शनत्रासप्रधावितं च तत्पलायमानमनुसरननवतरपाणिप्रहारद्विगुणीकृतजवेनेन्द्रायुधेनैकाकी निर्गत्य बलसमूहात्सुदूरमनुसंसार । 'अत्र गृह्यते, इदं गृहीतम्, इदं गृहीतम्' इत्यतिरभसाकृष्टचेता महाजवतया तुरंगमस्य मुहूर्तमात्रेणैकपदमिवासहायस्तस्मात्प्रदेशात्पञ्चदशयोजनमात्रमध्वानं जगाम । तच्चानुबद्धमानमालोकयत एवास्य संमुखापतितमचलतुङ्गशिखरमारुरोह । आरूढे च तस्मिञ्शनैः शनैस्तदनुसारिणी निवर्त्य दृष्टिम्, अचलशिखरप्रस्तरप्रतिहतगतिप्रसरो विधृततुरङ्गश्चन्द्रापीडस्तस्मिन्काले - *********** किरातानां भिल्लाना म्लेच्छानां वा सुवर्णपुरं नाम निवासस्थान जित्वा जयं कृत्वा जग्राह गृहीतवान् । कीदृशम् । पूर्वजलनिधेः पूर्वसमुद्रानातिविप्रकृष्टं नातिदूरम् । तत्र चेति । तस्मिन्स्थले निखिलं समग्रं यद्धरणीतलं पृथ्वीतलं तत्र पर्यटनं परिभ्रमणं तेन खिन्नस्य रीणस्य निजबलस्यात्मीयसैन्यस्य विश्रामहेतोः क्लान्तिनिवृत्त्यर्थं कतिपयान्कियतो दिवसान्वासरानतिष्ठदवस्थानमकारयत् । । एकदा त्विति । एकस्मिन्समये तत्रस्थ एव तस्मिन्स्थाने स्थित एवेन्द्रायुधमश्चमारुह्यारोहणं कृत्वा मृगयार्थमाखेटकार्थं निर्गतः कानने वने विचरन्गच्छशैलशिखराद्गिरिश्रृङ्गादवतीर्णमुत्तीर्णं यदृच्छया स्वेच्छया किंनरमिथुनं तुरङ्गवदनयुग्ममद्राक्षीदवलोकयांचकार । अपूर्वतयाद्भुततया । तु पुनरर्थकः । समुपजातं समुत्पन्नं कुतूहलमाश्चर्यं यस्य सः । कृतेति । कृतो विहितो ग्रहणे स्वीकारेऽभिलाष इच्छाविशेषो येन सः । तदिति । तस्य किंनरमिथुनस्य समीपं पार्थमादरादहुमानादुपसर्पितस्तद्दिशं प्रति प्रेरितस्तुरगो वाहो येन स तथा समुपसर्पन्समीपे गच्छन् । अदृष्टेति । अदृष्टपूर्वमनवलोकितपूर्वं यत्पुरुषदर्शनं मानुषेक्षणं तस्माद्यस्त्रास आकस्मिकं भयं तेन प्राधावितं प्रकर्षण प्रतिष्ठित प्रस्थितं तत्किंनरमिथुनं पलायमानं पलायनं कुर्वाणमनुसरननुगच्छन् । अनेति । अनवरतं निरन्तरं यः पाणिप्रहारो हस्ताभिधातस्तेन द्विगुणीकृतो द्विभागाधिकीभूतो जवो वेगो यस्यैवंविधेनेन्द्रायुधेनाश्चेनैकाक्यसहायो बलसमूहात्सैन्यसंदोहानिर्गत्य निर्गमनं कृत्वा सुदूरमतिविप्रकृष्टमनुससार पश्चाद्ययौ । अत्रेति । अत्रास्मिन्स्थले गृह्यते ग्रहणविषयीकियते । मयेति शेषः । इदं किंनरमिथुनं गृहीतम् । इदं गृहीतमिति पूर्वोक्तप्रकारेणातिरभसादतिवेगेनाकृष्टमाकर्षितं चेतो यस्य स तथा च । अथ च तुरंगमस्याचस्य महाजवतया महावेगतया मुहूर्तमात्रेण घटिकाद्वयेनैकपदमिवैकवारमिव । अत्र सादृश्य इवशब्दः । एकवारसदृशमित्यर्थः । असहायोऽद्वितीयस्तस्मा प्रदेशात्पञ्चदशयोजनमानं पञ्चदशयोजनपरिमितमध्वानं मागं जगाम ययौ । अस्य राज्ञस्तत्पूर्वोक्तमनुबध्यमानमनुबन्धविषयीक्रियमाणं किंनरमिथुनमालोकयत एव विलोकयत एव संमुखापतितमभिमुखागतम् । शिखरविशेषण् । अचलतुङ्गशिखरं पर्वतोच्चसानुमारुरोहारोहणं चकार । आरूढेति । तस्मिन्किनरमिथुन आरूढे सति शनैः शनैर्मन्दं मन्दं तदनुसारिणी तत्पृष्ठगामिनी दृष्टिं चक्षुः निवर्त्य निवर्तनविषयीकृत्य । अचलेति । अचलस्य पर्वतस्य शिखराणि सानूनि तेषां प्रस्तरा ग्रावाणस्तैः प्रतिहतः गतिप्रसरो गमनप्रचारो यस्य सः । अत एव विधृतो गमनात्प्रतिषिद्धस्तुरङ्ग इन्द्रायुधाचो येनैवंविधश्चन्द्रापीडस्तस्मिन्काले तस्मिन्समये समुपारूढो - टिप्प० - 1 परिश्रान्तस्येति सरलोऽर्थः । 2 अदृष्टपूर्वस्य पुरुषस्य दर्शनात् त्रास इत्युचितम् । पाठा० -१ विप्रकृतम्. २ धरणि. ३ विनिर्गतः. ४ काननम्. ५ शिखरावतीर्णम्. ६ अपूर्वदर्शनतया. ७ तुरङ्ग. ८ समुपससर्प. ९ पलायमानमनवरत. १० पाणिप्रहार. ११ निजबल. १२ उपससार. १३ अत्र गृह्यतेऽत्र गृह्यते. १४ प्रस्तरशकल. १५ तुरंगमः. (किन्नरमिथुनाऽप्राप्तौ निर्वेदः । पूर्वभागः । 257
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy