________________
समुपारूढश्रमस्वेदाशरीरमिन्द्रायुधमात्मान चावलोक्य क्षणमिव विचार्य स्वयमेव विहस्याचिन्तयत् - 'किमिति निरर्थकमयमात्मा मया शिशुनेवायासितः । किमनेन गृहीतेनागृहीतेन वा किंनरयुगलेन प्रयोजनम् । यदि गृहीतमिदं ततः किम्, अथ न गृहीतं ततोऽपि किम् । अहो मे मूर्खतायाः प्रकारः । अहो यत्किंचनकारितायामादरः । अहो निरर्थकव्यापारेष्वभिनिवेशः । अहो बालिशचरितेष्वासक्तिः । साधुफलं कर्म क्रियमाणं वृथा जातम् । अवश्यकतव्या क्रिया प्रस्तुता विफलीभूता । सुहृत्कार्यमुपपाद्यमानं नोपपनम् । राजधर्मः प्रवर्तितो न निष्पन्नः । गुर्वर्थः प्रारब्धो न परिसमाप्तः । विजिगीषुव्यापारप्रयत्नो न सिद्धः । कस्मादहमाविष्ट इवोत्सृष्टनिजपरिवार एतावती भूमिमायातः । कस्माच्च मया निष्प्रयोजनमिदमनुसृतमश्चमुखद्वयमिति विचार्यमाणे संत्ययमात्मैव मे पर इव हासमुपजनयति । न जाने कियताध्वना विच्छिन्नमितो बलमनुयायि मे । महाजवो हीन्द्रायुधो निमेषमात्रेणातिदूर -
***********
व्याप्तो यः श्रमस्वेदस्तेनार्दै स्विन्नं शरीरं देहो यस्यैवंविधमिन्द्रायुधमात्मानं चावलोक्य निरीक्ष्य क्षणमिव क्षणसदृशं विचार्य विमर्शनं कृत्व स्वयमेवात्मनैव विहस्य हास्यं विधायाचिन्तयच्चिन्तितवान् । किमिति हेतोः । अयमात्मा मया शिशुनेव बालकेनेव निरर्थक आयासितः प्रयास प्रापितः । किमनेनेति । अनेन किंनरयुगलेन किंनरमिथुनेन गृहीतेनागृहीतेन वा किं प्रयोजनं किं फलम् । यदीति चेदित्यर्थे चेदिदं किंनरमिथुनं गृहीतं ततः किम् । न किमपीत्यर्थः । अथ न गृहीतं ततोऽपि किम् । न किमपीत्यर्थः । अहो इत्याश्चर्ये । मे मम मूर्खताया मूढतायाः प्रकारो भेदः । अहो इति । यत्किंचन करोतीत्येवंशीलो यत्किंचनकारी तस्य भावस्तत्ता तस्यामादरो बहुमानः । अहो इति पूर्ववत् । निरर्थका निःप्रयोजना ये व्यापारास्तेष्वभिनिवेशो हटः । अहो इति पूर्ववत् । बालिशं निन्दितं चरितं चेष्टितं येषामेवविधेषु कृत्येष्वासक्तिस्तन्मयत्वम् । कर्मधारयो वा । साध्विति । साधु शोभनं फलं यस्यैवंविधं कर्म क्रिया क्रियमाणं विधीयमानं वृथा जातं निष्फलं जज्ञे । अवेति । अवश्यकर्तव्यावश्यकरणयोग्या क्रिया प्रस्तुता प्रारब्धा विफलीभूता निष्फलीभूता । सुहृदिति । सुहृत्कार्य मित्रकार्यमुपपाद्यमानं विधीयमानं नोपपन्नं न निष्पन्नम् । राजेति । राजधर्मो नीतिधर्मः प्रवर्तितः सर्वत्र विहितो न निष्पन्नो न सिडिं गतः । गुरोरर्थः पितुरर्थः प्रारब्धः प्रस्तुतो न परिसमाप्तो न परिपूर्णतां गतः । विजेतुमिच्छवो विजिगीषवस्तेषां व्यापारो व्याहृतिस्तस्मिन्प्रयत्न उद्योगो न सिद्धो न निष्पन्नः । कुत एतन्न जातमिति पराभिप्रायमाशङ्कयाह - कस्मादिति । कुतो हेतोरित्यर्थः । उत्तर प्रदर्शयन्नाह . अहमिति । अहमाविष्ट इव भूताभिभूत इवोत्सृष्ट उज्झितो निजपरिवारः स्वकीयपरिच्छदो येनैवंभूतः । एतावतीमियत्प्रमाणां भूमि वसुधामायात आगतः । कस्माद्धेतोः । मया निष्प्रयोजनं निरर्थकमिदमश्चमुखद्वयं किन्नरमिथुनमनुसृतमाश्रितमिति विचार्यमाणे सति विचिन्त्यमाने सत्ययमात्मैव स्वचेतन एव मे मम पर इव हास हास्यमुपजनयति निष्पादयति । न जाने नाकलयामि कियताध्वना कियन्मार्गेण विच्छिन्नं विच्छेदं प्राप्तमितो मत्सकाशाद्धलं सैन्यमनुयाय्यनुगमनशीलमित्यर्थः । मे मम । महाजवो महावेगः । हि निश्चितम् । इन्द्रायुधो निमेषमात्रेण चक्षुषो निमीलनमात्रेणातिदूरमतिविप्रकृष्टमतिक्रामत्यतिक्रमणं -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
--
टिप्प० - 1 बालिशचरितेषु मूढजनकर्तव्येष्वित्येवार्थो व्याख्यायाः परमार्थः सत्यामपि बहुव्रीह्याम् । 2 दिग्विजयो वृथाऽभवदित्यर्थः, इतः परावर्तनाभावेन तत्फलभोगासंभवात् । 3 दिग्विजयेन दुष्टनिग्रहण-शिष्टानुग्रहणरूपा । 4 व्यवहृतिरित्याशयः ।
पाठा० - १ समारूढ. २ चालोक्य. ३ अन्वचिन्तयत्. ४ गृहीतम्. ५ कर्तव्यक्रिया. ६ व्यापारः. ७ उपसृज्य निजपरिवारम्; उत्कृष्टपरिवार एव तावतीम्. ८ यत्सत्यम्. ९ अन्वयायि. १० निमिष.
IIIIIIIIIIIIIIIII
(2581
I
कादम्बरी । ।
MAY
कथायाम्