________________
मैतिक्रामति । न चागच्छता मया तुरगवेगवशात्किन्नरमिथुने बेद्धदृष्टिनास्मिन्नविरलतरुशतशाखागुल्मलतासंतानगहने निरन्तरनिर्पेतितशुष्कपर्णावकीर्णतले महावने पन्था निरूपितो येन प्रतिनिवृत्त्य यास्यामि । न चास्मिन्प्रदेशे प्रयत्नेनापि पॅरिभ्रमता मया मर्त्यधर्मा कश्चिदासाद्यते यः सुवर्णपुरगामिनं पन्थानमुपदेक्ष्यति । श्रुतं हि मया बहुशः कथ्यमानमुत्तरेण सुवर्णपुर सीमन्तलेखा पृथिव्याः सर्वजनपदानाम्, ततः परतो निर्मानुषमरण्यम्, तच्चातिक्रम्य कैलासगिरिरिति । अयं च कैलासः । तदिदानीं प्रतिनिवृत्त्यैकाकिना स्वयमुत्प्रेक्ष्योत्प्रेक्ष्य दक्षिणामाशां केवलमङ्गीकृत्य गन्तव्यम् । आत्मकृतानां हि दोषाणां नियतमनुभवितव्यं फलमात्मनैव' इत्यवधार्य वामकरतलचैलितरश्मिपाशस्तुरंगमं व्यावर्त
यामास ।
निवँर्तिततुरंगमश्च पुनश्चिन्तितवान् - 'अयमुद्भासितप्रभाभास्वरो भगवान्भानुरधुना दिवसश्रियो रशनामणिरिव मध्यमलंकरोति । परिश्रान्तश्चायनिन्द्रायुधः । तदेनं तावदागृहीतक
-
***********
करोति । न चेति । अस्मिन्महावने महाविपिन आगच्छतागमनं कुर्वता मया पन्था मार्गो न च निरूपितो न ज्ञातः । कस्मात् । तुरगस्येन्द्रायुधस्य यो वेगो रयस्तद्वशात्तदनुरोधात् । कीदृशेन मया । बद्धेति । तस्मिन्किनरंमिथुने बद्धा स्थापिता दृष्टिर्येन स तथा तेन । वनं विशेषयन्नाह - अविरलेति । अविरलानि निबिडानि । अन्योन्यसंबद्धानीत्यर्थः । यानि तरुशतानि वृक्षशतानि, शाखा स्कन्धशाखाः, गुल्मा विटपाः, लताः, शाखाभ्यः प्रादुर्भूताः शाखाः, एतेषां संतानं परम्परा तेन गहने कलिले । निरेति । निरन्तरं प्रत्यहं निपतितानि सस्तानि यानि शुष्कपर्णानि शुष्कपत्राणि तैरवकीर्णं व्याप्तं तलमधोभागो यस्य तस्मिन् । येन पथा प्रतिनिवृत्त्य व्याघुट्य यास्यामि गमिष्यामि । न चेति । अस्मिन्प्रदेशे प्रयत्नेनाप्युद्योगेनापि परिभ्रमता परिभ्रमणं कुर्वता मया कश्चित् मर्त्यधर्मा मनुष्यो न चासा न प्राप्यते यः पुमान्सुवर्णपुरगामिनं पन्थानं मार्गमुपदेक्ष्यत्युपदेशं करिष्यति । मया बहुशोऽनेकवारं कथ्यमानं प्रतिपाद्यमानम् । जनैरिति शेषः । श्रुतमाकर्णितमुत्तरेण सुर्वर्णपुरम् । तद्विशेषयन्नाह - सर्वेति । सर्वजनपदानां समग्रदेशानां पृथिव्या वसुधायाः सीमन्तलेखा सीमन्तः केशवेशस्तस्य लेखेव लेखा । ततः परतोऽग्रतो निर्मानुषं मनुष्यरहितमरण्यं काननम् । तदरण्यमतिक्रम्योल्लङ्घ्य कैलासगिरिरिति । अयं चेति । अयं प्रत्यक्षः कैलासः । तदिदानीं प्रतिनिवृत्त्य व्याघुट्यैकाकिना मया स्वयमुत्प्रेक्ष्योठप्रेक्ष्य विलोक्य विलोक्य दक्षिणामपाची आशा दिशं केवलमङ्गीकृत्य स्वीकृत्य गन्तव्यं गमनीयम् । आत्मना कृतानां स्वयमाचरितानां दोषाणां दुष्कर्मणां नियतं निश्चितं फलमात्मनैव स्वयमेवानुभवितव्यमनुभवविषयीकर्तव्यम् । इत्यवधार्येति निश्चित्य । वामेति । वामकरतलेन सव्यपाणितलेन चलितः कम्पितो रश्मिपाशः खलीनं येन स तुरंगमिन्द्रायुधं व्यावर्तयामास निवर्तयामास ।
निवर्तिततुरंगमश्चेति । निवर्तितः पश्चाद्वलितस्तुरंगम इन्द्रायुधो येनैवंभूतः पुनस्तदनन्तरं चिन्तितवान्ध्यातवान् । तदेव दर्शयति अधुनेति । अधुना सांप्रतमयमुद्भासितातिप्रकटीभूता या प्रभा कान्तिस्तया भास्वरः शोभमानो यो भगवानैश्वर्यवान्भानुः सूर्यो दिवसश्रियो वासरलक्ष्म्या रशनामणिरिव मेखलारत्नमिव मध्यमवलग्नम् । सूर्यपक्षे मध्यं मध्यभागम् । अलंकरोति विभूषयति । परिश्रान्तः खिन्नश्चायमिन्द्रायुधः । तत्तावदादावेनमश्वम् । आगृहीतेति । आगृहीता आत्ताः कतिपये कियन्तो दूर्वायाः शतपर्वायाः प्रवालकवलाः टिप्प० - 1 अनेन हि घोटकपदचिह्नदर्शनेन परावर्तनमप्यसंभवमिति सूचितम् । 2 सुवर्णपुरम् उत्तरेण सुवर्णपुरादुत्तरदिशि इत्यन्वयो बोध्यः । 'एनपा द्वितीया' इति एनप्योगे द्वितीया । 3 पृथिव्याः सर्वजनपदानां (लोकनिवासस्थानानाम् ) सीमान्तलेखा अवधिः । इत्यन्वयः । 4 स्पष्टव्यमिदं पदम् । 5 बलित इत्यपि पाठः । परावर्तनार्थं तिर्यक्कृत्य धृत इति तदर्थः ।
पाठां० - १ अपचक्राम. २ निबद्ध ३ तस्मिन् ४ पतित. ५ परिभ्रमता मर्त्यधर्मा. ६ वलित. ७ व्यावर्तिततुरङ्गश्च ८ नभस्तलमध्यम्.
( किन्नरमिथुनाऽप्राप्तौ निर्वेदः
पूर्वभागः ।
259
-