SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ तिपयदूर्वाप्रवालकवलं कस्मिंश्चित्सरसि शिलाप्रसवणे वा सरिदम्भसि वा स्नातपीतोदमपनीतश्रमं कृत्वा स्वयं च सलिलं पीत्वा कस्यचित्तरोरधश्छायायां मुहूर्तमात्रं विश्रम्य ततो गमिष्यामि' इति चिन्तयित्वा सलिलमन्वेषमाणो मुहुर्मुहुरितस्तो दत्तदृष्टिः पर्यटन्नलिनीजलावगाहोत्थितस्याचिंरादपक्रान्तस्य महतो गिरिचैरस्य वनगजयूथस्य चरणोत्थापितैः पङ्कपटलैरार्द्रीकृतम्, कैरावकृष्टैश्च समृणालमूलनालैः कमलकलापैः कल्माषितम्, आर्द्रार्द्रैिश्च शैवलप्रवालैः श्यामलितोद्देशम्, उद्दलितैश्च कुमुदकुवलयकह्लारकुड्मलैरन्तरान्तरा विच्छुरितम्, उत्खातैश्च सकर्दमैः शालूककन्दैराकीर्णम्, आँखण्डितैश्च कुसुमस्तबकसारैर्वनपल्लवैराच्छादितम्, आलूनाभिश्च कुसुमोपविष्टोल्लसत्षट्पदाभिर्वनलताभिराकुलितम्, अभिनैवकुसुमपरिमलवाहिना च तमालपल्लवसंरेंसश्यामेन मैदजलेन सर्वतः सिक्तं मार्गमद्राक्षीत् । उपजातजलाशयशङ्कश्च तं प्रतीपमनुसरन्नुद्ग्रीवदृश्यैरुपरिच्छत्रमण्डलाकारैः सरलसाल ** ** पल्लवग्रासा येन स तम् । कस्मिंश्चिदनिर्दिष्टनाम्नि सरसि कासारे शिलाप्रसवणे वा निर्झर वा सरिदम्भसि वा नदीजले वा । स्नात इति । पूर्वं स्नातः पश्चात्पीतमुदकं येन स तम् । अत एवापनीतश्रमं दूरीभूतक्लमं कृत्वा विधाय स्वयं च सलिलं पानीयं पीत्वा पान कृत्वा कस्यचित्तरोरनिर्दिष्टनाम्नो वृक्षस्याधश्छायायां मुहूर्तमात्रं विश्रम्य विश्रामं गृहीत्वा ततः पश्चाद् गमिष्यामि गमनं करिष्यामि । इति पूर्वोक्तं चिन्तयित्वा ध्यात्वा सलिलमम्भोऽन्वेषमाणो गवेषमाणो मुहुर्मुहुर्वारंवारमितस्ततो दत्ता दृष्टिर्येनैवंभूतः पर्यटन्परिभ्रमन्मार्गमध्वानमद्राक्षीदपश्यदित्यन्वयः । अथ मार्गं विशेषयन्नाह - नलिनीति । नलिनी कमलिनी तया संयुक्तं जलं नलिनीजलं तस्यावगाह आलोडन तस्मादुत्थितस्य निःसृतस्याचिरात्स्वल्पकालादपक्रान्तस्य पश्चाद्बलितस्य महतो महीयसो गिरिचरस्य पर्वचारिणो वनगजयूथस्य हस्तिसमूहस्य चरणोत्थापितैः क्रमोद्भूतैः पङ्कपटलैः कर्दमसमूहैरार्द्रीकृतं समुन्नीकृतम् । तथा करावकृष्टैः करैः शुण्डादण्डैरवकृष्टैराकर्षितैर्मृणाला बिसमूलानि च नालानि च तैः सह वर्तमानैः कमलकलापैः कल्माषितं चित्रवदाचरितमार्द्राणि चार्द्राणि चार्द्रार्द्राणि तैः शैवलप्रवालैर्जलशुककिसलयैः श्यामलितः कृष्णीभूत उद्देशः प्रदेशो यस्य तम् । उद्दलितैरवकृष्टैः कुमुदं श्वेतोत्पलम्, कुवलयं कुवेलम्, कह्लारं सौगन्धिकम्, तस्य कुड्मलानि मुकुलानि तैरन्तरान्तरा मध्ये मध्ये विच्छुरितं व्याप्तम् । उत्खातैरुत्पाटितैः सकर्दमैः सह पकेन वर्तमानैः शालूककन्दैरुत्पलानां कन्दैः । ‘उत्पलानां तु शालूकम्' इति कोशः । आकीर्णं व्याप्तम् । आ समन्तात्खण्डितैश्छिन्नैः कुसुमानां पुष्पाणां स्तवकैर्गुच्छकैः सारैः प्रधानैर्वनपल्लवैररण्यकिसलयैराच्छादितमावृतम् । आलूनाभिश्छिन्नाभिः कुसुमोपविष्टाः पुष्पमध्यवर्तिन उल्लसन्तो दीप्यमानाः षट्पदा भ्रमरा यास्वेवंविधाभिर्वनलताभिररण्यव्रततिभिराकुलितमाकीर्णम् । अभिनवेति । अभिनवः प्रत्यग्रो यः कुसुमपरिमलः पुष्पगन्धस्तद्वाहिना । तमालस्तापिच्छस्तस्य पल्लवाः किसलयास्तद्वत्सरसश्यामेन मदजलेन दानवारिणा सर्वतो विष्वक्सिक्तं सिञ्चितम् । अन्वयस्तु प्रागेवोक्तः । - उपजातेति । उपजाता समुत्पन्ना जलाशयस्य जलाधारस्य शङ्कारेका यस्य स तथा तं मार्गं प्रतीपमभिमुखमनुसंरन्ननुगच्छन् । उद्ग्रीवैरूर्ध्वकंधरैः पुरुषैर्दृश्यैर्द्रष्टुं योग्यैरुपरि प्रान्ते छत्रमण्डलस्यातपवारणवलयस्याकारो येषां तैः । छत्राकारैरित्यर्थः । सरलेति । सरैला अवक्राः साला वृक्षविशेषाः सल्लक्यो गजप्रियास्ता एव - टिप्प॰ - 1 चरणद्वारा उत्थापितैः (ऊर्ध्वं नीतैः) इत्यर्थ उचितः । 2 'कुसुमस्तबकशारैः' इति प्रचलितः पाठः । कुसुमगुच्छविचित्रैः, इति तदर्थः 3 एतन्नामका वृक्षाः । पाठा० - १ अन्विषमाणः, अन्विष्यन्; अन्वेषयन्. २ अपक्रान्तस्य च. ३ अतिमहता. ४ गिरिचरस्य चरण. ५ उत्सारितैः; उत्तारितैः ६ करिकलभकरावकृष्टैश्च मृणालनालैः, ७ कमलकुमुद. ८ खण्डितैक्ष. ९ शारैः १० उपविष्टनिष्पिष्टोच्छ्रसत्; उपविष्टनिमिष्टोच्चासित; उपक्ष्टिनिष्पिष्टोद्भमत्. ११ बकुलकुसुम १२ रसश्यामेन. १३ मदजलेन सिक्तम्. १४ उपजातजलाशङ्कश्च. १५ उद्ग्रैव. 260 कादम्बरी । कथायामु
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy