SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ सल्लकीप्रायैरविरलैरपि निःशाखतया विरलैरिवोपलक्ष्यमाणैः पादपैरुपेतेन, स्थूलकपिलवालुकेन, शिलाबहुलतया विरलतृणोलपेन, वनद्विपदशनदलितमनःशिलाधूलकपिलेन, आभङ्गिनीभिरुत्कीर्णाभिरिव पत्रभङ्गकुटिलाभिः पाषाणमेदकमञ्जरीभिर्जटिलीकृतशिलान्तरालेन, अनवरतगलद्गुग्गुलुडुमद्रवार्द्रीकृतदृषदा, शिखरसुतशिलाजतुरसपिच्छि लोपलेन, टेङ्कनहयखुरखण्डितहरितालक्षोदपांसुलेन, आखुनखरोत्खातर्बिलावकीर्णकाञ्चनचूर्णेन, सिकतानिमग्नचमरककस्तूरिकामृगीखुरपङ्क्तिना, संशीर्णरङ्कुरल्लकरोमप्रकरनिचितेन, विषमशिलाच्छेदोपविष्टजीवजीवकयुगलेन, वनमानुषमिथुनाध्यासिततटगुहामुखेन, गन्धपाषाणपरिमलामोदिना, वेत्रलतीप्रतानप्ररूढवेणुना, कैलासतलेन कंचिदध्वानं गत्वा तस्यैव कैलासशिखरिणः पूर्वोत्तरे दिग्भागे जलभारांलसं जलधरव्यूहमिव बहुलक्षपान्धकारमिव पुञ्जीकृतमत्यायतं तरुखण्ड - *********** प्रायो बाहुल्येन येष्वेवंविधैरविरलैर्निबिडैरपि निः शाखतया स्कन्धशाखाराहित्यतया विरलैरिवानिबिडैरिवोपलक्ष्यमाणैर्दृश्यमानैः पादपैर्वृक्षैरुपेतेन सहितेन । तथा स्थूला स्थविष्ठा कपिला पिङ्गला वालुका सिकता यस्मिंस्तेन । शिलानां बहुलता तया विरलानि स्तोकान तृणान्युलपाश्च वल्लयो यस्मिंस्तत्तेन । वनेति । वनद्विपानामरण्यदन्तिनां दशनैर्दन्तैर्दलिता मर्दिता या मनःशिला मनोगुप्ता तस्या धूल रेणुस्तया कपिलेन पीतरक्तेन । आ समन्ताद्भगिनीभिर्द्विधाभवनशीलाभिरुत्कीर्णाभिरिवोत्कीर्य कर्षिताभिरिव । पत्रभङ्गः पत्रवल्ली तबकुटिलाभिर्वक्राभिः पाषाणभेदनाम्न्यो या मञ्जर्यो वल्लर्यस्ताभिरजटिलं जटिलं क्रियत इति जटिलीकृतं शिलयोरन्तरालं मध्यभागो यस्य तत्तेन । तथानवरतं निरन्तरं गलन्तः सवन्तो ये गुग्गुलुद्रुमाः पलङ्कषवृक्षास्तेषां द्रवो रसस्तेनार्द्रीकृतानि दृषन्ति प्रस्तरा यस्मिंस्तत्तेन । तथा शिखरेभ्यः सानुभ्यः सुतश्च्युतो यः शिलाजतुरसो गिरिजद्रवस्तेन पिच्छिला विजिला उपला यस्मिंस्तत्तेन । टङ्कनेति । टङ्कनं प्रस्तरदारकं तल्लक्षणो यो हयखुरोऽश्वशफस्तेन खण्डितं शकलीकृतं यद्धरितालं गोदन्तं तस्य क्षोदचूर्णं तेन पांसुलेन पांसुयुक्तेन । तथाखूनां वृषाणां नखरैर्नखैरुत्खातान्यतिखनितानि यानि बिलानि विवराणि तेभ्योऽवकीर्णमवध्वस्तं काञ्चनचूर्णं सुवर्णक्षोदो यस्मिंस्तत्तेन । तथा सिकतासु वालुका निमग्ना ब्रुडिताश्चमरकाश्चमर्यः, कस्तूरिकामृग्यो नेपालदेशप्रसिद्धाः तेषां खुरपङ्क्तयो यस्मिंस्तत्तेन । तथा संशीर्णो विगलितो रङ्कुर्मृगविशेषः, रल्लेक उरभ्रः, एतयोर्यो रोमप्रकरस्तनूरुहसमूहस्तेन निचितेन व्याप्तेन । तथा विषमा असमा शिलाच्छेदास्तत्रोपविष्टान्यासीनानि जीवजीवकयुगलानि विषदर्शनमृत्युकयुग्मानि यस्मिंस्तत्तेन । मयूराकृतयः पक्षिविशेषा जीवजीवकाः ते च दक्षिणदेश एतन्नाम्नैव प्रसिद्धाः । वनेति । वनमानुषमिथुनैर्मनुष्याकृतिसदृशाकारैर्वनचारिविशेषैरध्यासितन्याश्रितानि तटगुहामुख यस्मिंस्तत्तेन । गन्धपाषाणः सुगन्धद्रव्यविशेषस्तस्य परिमलो विमर्दजनितो गन्धो विद्यते यस्मिंस्तत्तेन । तथा वेत्रलता वेत्रवल्ल प्रताने शाखापत्रप्रचये प्ररूढा उद्गता वेणवो वंशा यस्मिंस्तत्तेन । एवंविधेन कैलासतलेन रजताद्यधोभागेन कंचित्कियन्मात्रमध्वानं पन्थानं गत्वा तस्यैव कैलासशिखरिणः पूर्वोत्तरे दिग्भाग ईशान्यामत्यायतमतिविस्तीर्णं तरुखण्डं वृक्षसमूहं ददर्शावलोकयामास । जलभारेण पानीयवीवधेनालसं मन्थरम् । कृष्णत्वसाम्यादाह - जलेति । जलधरा मेघास्तेषां व्यूहमिव समूहमिव । बहुलेति । बहुलः कृष्णपक्षस्तस्य - टिप्प०-1 'लता प्रतानिनी वीरुद् गुल्मित्युलप इत्यपि' इत्यमरः । 2 आ (समन्तात्) भङ्गो (विविधभङ्गी ) ऽस्ति यासां ताभिरित्यर्थः । 3 उन्दुरूणामित्यर्थः । 4 मृगविशेषः । 5 चकोरपक्षिणः, 'जीवंजीवः खगान्तरे । द्रुमभेदे चकोरे च' इति हेमः । 6 गन्धक इति केचित् । पाटा० - १ शिलातल. २ पाषाणभङ्ग ३ शिलान्तरेण. ४ पिच्छिल ५ टङ्कनखरखुर. ६ बिलविप्रकीर्ण. ७ चमरकस्तूरिका. ८ संकीर्णजीर्णरङ्कु; संकीर्णजीर्णरल्लक. ९ प्रतानवता प्ररूढ. १० अलसजलधर. ११ बहुलपक्षक्षपैया. १२ विविधतरुखण्डम्. (जलान्वेषणम् पूर्वभागः । 261
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy