________________
ददर्श । तच्च समुखागतेन कुसुमरजःकषायामोदिना । जलसंसर्गशिशिरेण शीकरिणा चन्दनरससमस्पर्शेनालिङ्ग्यमान इव जलतरङ्गमारुतेन कमलमधुपानमत्तानां च श्रोत्रहारिभिः कलहंसानां कोलाहलैराहूयमान इव विवेश ।
प्रविश्य च तस्य तरुखण्डस्य मध्यभागे मणिदर्पणमिव त्रैलोक्यलक्ष्म्याः , स्फटिकभूमिगृहमिव वसुंधरादेव्याः, जलनिर्गमनमार्गमिव सागराणाम्, निस्यन्दमिव दिशाम्, अंशावतारमिव गगनतलस्य, कैलासमिव द्रवतामापन्नम्, तुषारगिरिमिव विलीनम्, चन्द्रातपमिव रसतामुपेतम्, हराट्टहासमिव जलीभूतम्, त्रिभुवनपुण्यराशिमिव सरोरूपेणावस्थितम्, वैडूर्यगिरिजालमिव सलिलाकारेण परिणतम्, शरदभ्रवृन्दमिव द्रवीभूयैकत्र निस्यन्दि -
***********
क्षपा रात्रिस्तस्याः पुञ्जीकृतं राशीकृतमन्धकारमिव ध्वान्तमिव । अत्र जलान्धकारयोर्नीलगुणसंबन्धात्साम्यं प्रदर्शितम् । तच्चेति । तत्पूर्वोक्ततरुखण्डं विवेश प्रवेशं चकारेत्यन्वयः । किं क्रियमाणः । संमुखागतेनाभिमुखायातेन जलतरङ्गमारुतेन पानीयवीचिसमीरणेनालिङ्ग्यमान इवाश्लिष्यमाण इव । अथ वायुं विशिनष्टि - कुसुमेति । कुसुमरजसा पुष्परागाणां कषायस्तुवर आमोदो मुखवासनो विद्यते यस्मिन्स तेन । जलेति । जलस्य पानीयस्य संसर्गः संबन्धस्तेन शिशिरः शीतलस्तेन । शीकरो वातास्तं वारि विद्यते यस्मिन्स तेन । अत्रास्त्यर्थे इन् । चन्दनेति । चन्दनं मलयज तस्य रसो द्रवस्तस्य समः सदृशः स्पर्शो यस्य स तेन । कमलस्य नलिनस्य मधु रसस्तस्य पानमास्वादस्तेन मत्तानामुत्कटानां कलहंसानां कादम्बानां श्रोत्रहारिभिः कर्णरुचिरैः कोलाहलैः कलकलैराहूयमान इवाह्वानविषयीक्रियमाण इव ।
तस्य तरुखण्डस्य मध्यभागेऽन्तरालप्रदेशे प्रविश्य च प्रवेशं कृत्वाच्छोदं नाम यस्यैवंभूतं सरः कासारं दृष्टवानालोकितवान् । अथ सरो विशेषयन्नाह - मणीति । त्रैलोक्यलक्ष्म्यास्त्रिभुवनश्रियो मणिदर्पणमिव रत्नादर्शमिव । वसुंधरादेव्याः रत्नगर्भादेव्याः स्फटिकभूमिगृहमिव स्फटिकहर्म्यमिव । सागराणां समुद्राणां जलनिर्गमनमार्गमिव वारिबहिर्गमनपन्थानमिव । दिशां ककुभां निस्यन्दमिव रसक्षरणमिव । गगनतलस्य व्योमतलस्यांशावतारमिव तदंशेनावतीर्णमिव । निर्मलश्चेतरूपत्वादाह - कैलासेति । कैलासमिव रजताद्रिमिवः । एतस्य पाषाणमयत्वात्सरसश्च द्रवरूपतया साम्यं न संभवतीत्यत आह - द्रवेति । द्रवतां रसतामापनं प्राप्तम् । हिमजलवत्त्वादाह - तुषारेति । तुषारगिरिमिव हिमाचलमिव । तस्य दृढत्वानोपमानत्वमित्यत आह - विलीति । विलीनम् विद्रुतमित्यर्थः । अमृतमयत्वादाह - चन्द्रेति । चन्द्रस्य शशिन आतपमिव प्रकाशमिव । तस्य तेजोरूपत्वान्न साम्यमित्याह - रसेति । रसतां जलतामुपेतं प्राप्तम् । विषवत्त्वसाम्यादाह - हरेति । हरस्येश्वरस्य योऽट्टहासो महाहासस्तमिव । तस्य क्रियारूपत्वात्साम्यं न स्यादित्याशयेनाह - जलीति । जलीभूतमिव डलयोरैक्याज्जडीभूतमिव । सुखजनकत्वसाम्यादाह - त्रिभ्विति । त्रिभुवनस्य त्रिविष्टपस्य पुण्यराशिमिव श्रेयःसमूहमिव । अस्यामूर्ध्वान साम्यमित्याशयेनाह - सर इति । सरोरूपेण कासाररूपेणावस्थितम् । कृतावस्थानमित्यर्थः । नीलत्वसाम्यादाह - वैड्विति । वैडूर्यं बालवायज तन्मयं गिरिजालमिव । अतिकठिनत्वात्ततुल्यतानुपपत्तेराह - सलिलेति । सलिलाकारेण जलाकारेण परिणतं तद्रूपतामापन्नम् । उज्ज्वलत्वसाम्यादाह - शरद इति । शरत्कालीनं घनात्ययसमयसंभवं यदभ्रवृन्दं मेघपटलं तदिव । एतस्याकाशस्थत्वात्तत्साम्यानुपपत्तेराह - द्रवीति । द्रवीभूय रसीभूयैकत्र स्थले निस्यन्दितं निर्गलितम् । स्वच्छ -
- - - - - - टिप्प० -1 अतिनिर्मलत्वात्सेयमुत्प्रेक्षा । एवमग्रेऽपि ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ तं च. २ संमुखादागतेन. ३ कुमुद. ४ शिशिरशीकरिणा. ५ रसस्पर्शन. ६ प्रविवेश. ७ वसुधादेव्या निर्गमन. ८ अवतारमिव चलाकार गगन; अशावतार जलाकार गगन.
262
कादम्बरी।
कथायाम