________________
तम्, आदर्शमिव प्रचेतसः, स्वच्छतया मुनिमनोभिरिव सज्जनगुणैरिव हरिणलोचनप्रभाभिरिव मुक्ताफलांशुभिरिव निर्मितम्, आपूर्णपर्यन्तमप्यन्तः स्पष्टदृष्टसकलवृत्तान्ततया रिक्तमिवोपलक्ष्यमाणम्, अनिलोद्भूतजलतरङ्गसीकरधूलिजन्मभिः सर्वतः संस्थितैः संरक्ष्यमाणमिवेन्द्रचापसहसैः, प्रतिमानिभेनान्तःप्रेविष्टसजलचरकाननशैलनक्षत्रग्रहचक्रवाल त्रिभुवनमुद्भिन्नपङ्कजेनोदरेण नारायणमिव बिभ्राणम्, आसन्नकैलासावतीर्णस्य च -
***********
प्रतिबिम्बसंक्रान्तिसाम्येनाह - आदर्शति । प्रचेतसो वरुणस्यादर्शमिव मुकुरमिव स्वच्छतया । उपमानान्तराण्याह - मुनिरित्यादि । मुनीना वाचयमाना मनोभिश्चितैरिव, सज्जनानामाप्ताना गुणैः शौर्यादिभिरिव, हरिणानां मृगाणां लोचनप्रभाभिर्नेत्रकान्तिभिरिव, मुक्ताफलाना रसोद्भवानाभंशुभिः किरणैरिव निर्मितं निष्पादितम् । चतुर्भुप्यतिनिर्मलत्वमेव नियामकमुत्प्रेक्षायाम् । पुनः कीदृशमिवोपलक्ष्यमाणमित्याह - रिक्तमिति । रिक्तमिव शून्यमिव । तत्र हेतुमाह - अन्तरिति । अन्तर्मध्ये स्पष्टं प्रकटं यथा स्यात्तथा दृष्टोऽवलोकितः सकलवृत्तान्तः समग्रोदन्तो यस्य तस्य भावस्तत्ता तया । तर्हि रिक्तमेव भविष्यतीत्याशयेनाह - आपूर्णेति । विचित्रत्वम् । एतद्वयमादायैवोत्प्रेक्षते - इन्द्रेति । इन्द्रचापसहसैराखण्डलधनुःसहसैः संरक्ष्यमाणमिव त्रायमाणमिव । एतदेव विशेषयन्नाह - अनिलेति । अनिलेन वायुनोद्धता उत्क्षिप्ता ये जलतरङ्गाः, पानीयकल्लोलास्तेषां सीकरधूलयस्ताभ्यां जन्मोत्पत्तिर्येषां तैः । कीदृशैः । सर्वतः समन्तात्संस्थितैः कृतावस्थानैः । अत्र कल्लोलानां वक्रत्वात्सीकरधूलीनामपि तदवस्थत्वाच्च शंक्रचापोपमानम् । पुनः सरो विशेषयन्नाह - उद्भिनेति । उद्भिन्नानि विकसितानि पङ्कजानि कमलानि यस्मिन्नेवंविधेनोदरेण मध्येन । द्वितीयपक्ष उनिद्रं पङ्कजं नाभिकमलं यस्मिन्नेवभूतेनोदरेण जठरेण नारायणमिव कृष्णमिवै त्रिभुवनं त्रिविष्टपं बिभ्राणं दधानम् । अत्र त्रिभुवनं विशेषयन्नाह - प्रतिमेति । प्रतिमा प्रतिबिम्ब तस्य मिषेण व्याजनान्तःप्रविष्टं मध्यप्रविष्टं सह जलचरेण नक्रचक्रादिना वर्तमानं यत्काननं वनम् शैलोऽद्रिः, नक्षत्राणि ऋक्षाणि, ग्रहा मङ्गलादयः, तेषां चक्रवालं समूहो यस्मिस्तत्तथा । पुनस्तदेव विशेषयन्नाह - आसन्नेति । आसनः समीपवर्ती कैलासो रजताद्रिस्तस्मादवतीर्णस्योत्तरितस्य शतशः शतवारं भगवतो माहात्म्यवतः खण्डपरशोरीश्वरस्य मज्जनोन्मज्जनाभ्यां यः क्षोभश्चित्तचाञ्चल्यं तेन चलितः कम्पितो यश्चूडामणिभूतश्चन्द्रखण्ड - - टिप्प० - 1 'मणिदर्पणमिव त्रैलोक्यलक्ष्म्याः ' इति पूर्वमुक्ततया 'आदर्शभवनमिव' इति पाठः इत्यपि कस्यचनाऽभिप्रायमात्रः । आदर्शभवन दर्पणमय गृहमिति तदर्थः । 2 'आदर्शभवनमिव प्रचेतसः एतावत्पर्यन्तमुत्प्रेक्षाप्रक्रमो यः प्रचलितस्तदनुसारमत्र प्रकारपार्थक्यम् । 'स्वच्छतया' इति निमित्तेन मुनिमनउपादानकनिर्माणस्योत्प्रेक्षा (अच्छोदसरसि), इति पृथगुत्प्रेक्षा । एवं सज्जनगुणादिष्वपि । इति चतसृणामुत्प्रेक्षाणां संसृष्टिः, परस्पर निरपेक्षत्वात् । 3 आप्तानां सत्य-दया-ऽऽर्जवादिगुणान् विहाय शौर्योपरि दृष्टिश्शौर्यमन्तरा न ते सत्यादय इति कथयति । 4 उच्छलितेषु जलक्षोदेषु सूर्यकिरणपातेन इन्द्रधनुष इव नानावर्णानां दृश्यमानत्वमित्याशयः । 5 उद्भिन्नपङ्कजेनोदरेण त्रिभुवनं बिभ्राणम्, अत एव नारायणमिव स्थितमिति सरलोऽन्वयः । व्याख्या तु टीकातो दृश्या । सरःपक्षे प्रतिबिम्बव्याजेन सकाननादेस्त्रिभुवनस्य धारणम्, नारायणस्तु बीजरूपेण स्थितं त्रिभुवनं स्वोदरे धारयत्येवेति तदाशयः । 6 मज्जनोन्मज्जनाभ्यां यः क्षोभः संचलनं (चन्द्रखण्डस्य) तेन चलितात् चूडामणिरूपात् चन्द्रखण्डात् गलितेन, इति स्फुटोऽर्थः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाटा० - १ आदर्शभवनमिव; आदर्शभुवनमिव. २ समुपस्थितैः. ३ प्रविष्टम्. ४ सकानन; सकलकानन.
अच्छोदसरः
पूर्वभागः ।
263